श्री सरस्वती सूक्तं
Saraswati Suktam
श्री सरस्वती सूक्तं (Saraswati Suktam)
इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवोदासं वध्र्य॒श्वाय॑ दा॒शुषे ।
या शश्वन्तमाच॒खशदाव॒सं प॒णिं ता ते दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥ १ ॥
इ॒यं शुष्मेभिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभि॑: ।
पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभि॑स्सर॑स्वती॒ मा वि॑वासेम धी॒तिभि॑: ॥ २ ॥
सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिन॑: ।
उ॒त क्षि॒तिभ्यो॒ऽवनीरविन्दो वि॒षमेभ्यो अस्रवो वाजिनीवति ॥ ३ ॥
प्रणो दे॒वी सर॑स्वती॒ वाजेभिर्वा॒जिनीवती ।
धी॒नाम॑वि॒त्र्य॑वतु ॥ ४ ॥
यस्त्वा देवि सरस्वत्युपब्रू॒ते धने हि॒ते ।
इन्द्रं॒ न वृ॑त्र॒तूर्ये ॥ ५ ॥
त्वं देवि सरस्व॒त्यवा॒ वाजेषु वाजिनि ।
रदा पू॒षेव॑ नः स॒निम् ॥ ६ ॥
उ॒त स्या न॒: सर॑स्वती घो॒रा हिरण्यवर्तनिः ।
वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ॥ ७ ॥
यस्या अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुरर्ण॒वः ।
अम॒श्चर॑ति॒ रोरु॑वत् ॥ ८ ॥
सा नो॒ विश्वा॒ अति॒ द्विष॒: स्वसॄर॒न्या ऋ॒ताव॑री ।
अत॒न्नहेव॒ सूर्य॑: ॥ ९ ॥
उ॒त न॑: प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा ।
सर॑स्वती॒ स्तोम्या भूत् ॥ १० ॥
आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो अ॒न्तरि॑क्षम् ।
सर॑स्वती नि॒दस्पातु ॥ ११ ॥
त्रि॒ष॒धस्था स॒प्तधातु॒: पञ्च॑ जा॒ता व॒र्धयन्ती ।
वाजेवाजे॒ हव्या भूत् ॥ १२ ॥
प्र या म॑हि॒म्ना म॒हिनासु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसाम॒पस्त॑मा ।
रथ॑ इव बृह॒ती वि॒भ्वने कृ॒तोप॒स्तुत्या चिकि॒तुषा॒ सर॑स्वती ॥ १३ ॥
सर॑स्वत्य॒भि नो नेषि॒ वस्यो॒ माप॑ स्फरी॒: पय॑सा॒ मा न॒ आ ध॑क् ।
जु॒षस्व॑ नः स॒ख्या वे॒श्या च॒ मा त्वत् क्षेत्रा॒ण्यर॑णानि गन्म ॥ १४ ॥
प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः ।
प्र॒बाब॑धाना र॒थ्येव याति॒ विश्वा अ॒पो म॑हि॒ना सिन्धु॑र॒न्याः ॥ १५ ॥
एकाचेत॒त्सर॑स्वती न॒दीनां॒ शुचिर्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् ।
रा॒यश्चेतन्ती॒ भुव॑नस्य॒ भूरेर्घृ॒तं पयो दुदुहे॒ नाहु॑षाय ॥ १६ ॥
स वावृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशुर्वृष॒भो य॒ज्ञियासु ।
स वा॒जिनं म॒घव॑द्भ्यो दधाति॒ वि सा॒तये त॒न्वं मामृजीत ॥ १७ ॥
उ॒त स्या न॒: सर॑स्वती जुषा॒णोप॑ श्रवत्सु॒भगा य॒ज्ञे अ॒स्मिन् ।
मि॒तज्ञु॑भिर्नम॒स्यैरिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ॥ १८ ॥
इ॒मा जुह्वाना यु॒ष्मदा नमोभि॒: प्रति॒ स्तोमं सरस्वति जुषस्व ।
तव॒ शर्मन्प्रि॒यत॑मे॒ दधाना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ॥ १९ ॥
अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारावृ॒तस्य॑ सुभगे॒ व्यावः ।
वर्ध॑ शुभ्रे स्तुव॒ते रासि॒ वाजा॑न्यू॒यं पात स्व॒स्तिभि॒: सदा नः ॥ २० ॥
बृ॒हदु॑ गायिषे॒ वचोऽसु॒र्या न॒दीनाम् ।
सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभि॒स्स्तोमैर्वसिष्ठ॒ रोद॑सी ॥ २१ ॥
उ॒भे यत्ते महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रव॑: ।
सा नो बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो म॒घोनाम् ॥ २२ ॥
भ॒द्रमिद्भ॒द्रा कृ॑णव॒त्सर॑स्व॒त्यक॑वारी चेतति वा॒जिनीवती ।
गृ॒णा॒ना ज॑मदग्नि॒वत्स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥ २३ ॥
ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्त॑: सु॒दान॑वः ।
सर॑स्वन्तं हवामहे ॥ २४ ॥
ये ते सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुत॑: ।
तेभिर्नोऽवि॒ता भ॒व ॥ २५ ॥
पी॒पि॒वांसं॒ सर॑स्वत॒: स्तनं॒ यो वि॒श्वद॑र्शतः ।
भ॒क्षी॒महि॑ प्र॒जामिषम् ॥ २६ ॥
अम्बि॑तमे॒ नदीतमे॒ देवि॑तमे॒ सर॑स्वति ।
अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ॥ २७ ॥
त्वे विश्वा सरस्वति श्रि॒तायूंषि दे॒व्याम् ।
शु॒नहोत्रेषु मत्स्व प्र॒जां देवि दिदिड्ढि नः ॥ २८ ॥
इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति ।
या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥ २९ ॥
पा॒व॒का न॒: सर॑स्वती॒ वाजेभिर्वा॒जिनीवती ।
य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥ ३० ॥
चो॒द॒यि॒त्री सू॒नृतानां॒ चेतन्ती सुमती॒नाम् ।
य॒ज्ञं द॑धे॒ सर॑स्वती ॥ ३१ ॥
म॒हो अर्ण॒: सर॑स्वती॒ प्र चेतयति के॒तुना ।
धियो॒ विश्वा॒ वि राजति ॥ ३२ ॥
सर॑स्वतीं देव॒यन्तो हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमाने ।
सर॑स्वतीं सु॒कृतो अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं दात् ॥ ३३ ॥
सर॑स्वति॒ या स॒रथं य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मदन्ती ।
आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धेह्य॒स्मे ॥ ३४ ॥
सर॑स्वतीं॒ यां पि॒तरो॒ हवन्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः ।
स॒ह॒स्रा॒र्घमि॒लो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥ ३५ ॥
आ नो दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता गन्तु य॒ज्ञम् ।
हवं दे॒वी जु॑जुषा॒णा घृ॒ताची श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥ ३६ ॥
रा॒काम॒हं सु॒हवां सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना ।
सीव्य॒त्वप॑: सू॒च्याच्छि॑द्यमानया॒ ददातु वी॒रं श॒तदायमु॒क्थ्यम् ॥ ३७ ॥
यास्ते राके सुम॒तय॑: सु॒पेश॑सो॒ याभि॒र्ददासि दा॒शुषे॒ वसूनि ।
ताभिर्नो अ॒द्य सु॒मना उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ रराणा ॥ ३८ ॥
सिनीवालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा ।
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां देवि दिदिड्ढि नः ॥ ३९ ॥
या सु॑बा॒हुः स्वङ्गु॒रिः सु॒षूमा बहु॒सूव॑री ।
तस्यै वि॒श्पत्न्यै ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥ ४० ॥
या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती ।
इ॒न्द्रा॒णीम॑ह्व ऊ॒तये वरुणा॒नीं स्व॒स्तये ॥ ४१ ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥
॥ इति श्री सरस्वती सूक्तं संपूर्ण ॥