Srilakshmi Hayavadana Ratnamala Stotram, श्रीलक्ष्मी हयवदन रत्नमाला स्तोत्रम्

श्रीलक्ष्मी हयवदन रत्नमाला स्तोत्रम्/Srilakshmi Hayavadana Ratnamala Stotram

श्रीलक्ष्मी हयवदन रत्नमाला स्तोत्रम्/Srilakshmi Hayavadana Ratnamala Stotram

 श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ।

श्रीमते श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रमहादेशिकाय नमः ।

श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मे नारायणाख्याने हयशिर।

उपाख्यानस्य व्याख्याने हयशिरोरत्नभूषणे तद्विवरणदीधितौ च।

परिशीलितानां श्रुतीनामर्थस्य सङ्ग्राहक श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम् ।

वागीशाख्या श्रुतिस्मृत्युदितशुभतनोवसुदेवस्य मूर्तिः, ज्ञाता यद्वागुपज्ञं भुवि मनुजवेरैर्वाजिवक्त्रप्रसादात् ।

प्रख्याताश्चर्यशक्तिः कविकथकहरिः सर्वतन्त्रस्वतन्त्रः, त्रय्यन्ताचार्यनामा मम हृदि सततं देशिकेन्द्रः स इन्धाम् ॥ १॥

सत्वस्थं नाभिपद्मे विधिमथ दितिजं राजसं तामसं चा-, ब्बिन्द्वोरुत्पाद्य ताभ्यामपहृतमखिलं वेदमादाय धात्रे ।

दत्त्वा द्राक्तौ च हत्वा वरगणमदिशद्वेधसे सत्र आदौ, तन्त्रं चोपादिशद्यस्स मम हयशिरा मानसे सन्निधत्ताम् ॥ २॥

अध्यास्तेऽङ्कं परावाग् वरहयशिरसो भर्तुराचार्यके या, वाञ्छावानैतरेयोपनिषदि चरमात्प्राक्तने खण्ड आदौ ।

यस्या वीणां च दैवीं मनसि विनिदधत्ख्यातिमेत्यन्त्यमन्त्रे, सेशाना सर्ववाचो मम हृदयगता चारु मां वादयेद्वाक् ॥ ३॥

कृष्णं विप्रा यमेकं विदुरपि बहुधा वेदयो (रैतरेये) रादिमान्ते, स्रष्टा विस्रंसमानस्स्वमथ समदधाच्छन्दसां येन दानात् ।

कृष्ण विष्णुं च जिष्णुं कलयितुरपि यत्संहितामायुरुक्तं, वाक्श्लिष्टं प्राणमेनं हयमुखमनुसन्दध्महे किं वृथाऽन्यैः ॥ ४॥

प्रख्याता याऽऽश्वलायन्यधिकफलदशश्लोक्यभिख्या तदन्तः, श्रुत्युक्ता वाक् सरस्वत्यपि हयमुख ते शक्तिरन्या न युक्ता ।

पूर्णा त्वच्छक्तिरर्धं भवति विधिवधूर्या नदी सा कलास्या, इत्युक्ते ब्रह्मवैवर्त इह समुदिता स्यात्परा निम्नगाऽन्या ॥ ५॥

श्रीहर्षों विष्णुपत्नीं वदति कविरिमा नैषधे मल्लिनाथः, ख्यातामेतां पुराणे हयमुख भुवि च स्थापितां विष्णुपार्श्वे ।

धीवाग्मित्वार्थजप्यं दिनमुखसमये शौनकस्सूक्तमत्याः, श्रीयुक्तं बह्वृचस्स स्मृतिकृदपि तदा चिन्तनीयं तथैनाम् ॥ ६॥

वागाम्भृण्यादिसूक्ते निरवधिमहिमा या श्रुता वाक् च देवी, पूर्वे सूक्तेऽपि हंसस्त्वमधिकमहिमा विश्रुतो बह्वृचैर्यः ।

युक्तावारण्यके तौ कथितबहुगुणौ सामनी संहितेत्य-, प्याराध्यो व्यूहरूपी हयमुखविदितो ज्ञानिनां कर्मभिस्त्वम् ॥ ७॥

इन्द्रो वृत्रं हनिष्यन् सखिवर वितरं विक्रमस्वेति विष्णुं, सम्प्रार्थ्यातो हतारिस्तत उपजनितब्रह्महत्त्यापनुत्त्यै ।

सूक्ताभ्यामाहुतिं यं प्रति परमजुहोन्मूर्ध्नि गन्धर्व एको, देवानां नामधारी स मम दृढमतावद्य वाचस्पतिस्तात् ॥ ८॥

वेदे चाथर्वणाख्ये प्रथमत उदितं यत्त्रिषप्तीयसूक्तं, तन्मेधाजन्मकर्माङ्गमिति निगदितं कौशिकेन स्वसूत्रे ।

मेधाकामः पुमान् यस्तुरगमुख ततस्सर्वलोकाधिनाथं, ध्यायेद्वाचस्पतिं त्वां प्रभवति सकलस्तच्छृतार्थोऽप्रकम्प्यः ॥ ९॥

नासन्नो सत्तदानीमपि तु कमलयाऽवातमेकं तदानीत्, तस्माद्धान्यत्परं किञ्चिदपि न तमसा गूढमग्रे प्रकेतम् ।

अद्धा को वेद हेतुं द्विविधमविगुणं वासुदेवाभिधानं, व्यूहं त्वां प्रातरर्च्यं हयमुख भगमाहुः क्रमात्तैत्तिरीयाः ॥ १०॥

प्रातःपूज्यं भगाख्यं प्रथममकथयन् बह्वृचाः पञ्चमेऽथो, नासत्सूक्तेऽष्टमे प्राग्वदपि समवदन् तैतिरीयक्रमात्त्वाम् ।- श्रीलक्ष्मी हयवदन रत्नमाला स्तोत्रम्

पाराशर्योऽवतीर्णं वदति हयमुखाथर्वणः कौशिकस्त्वाम्, मेधार्थं प्रातरर्च्यं भगमनुमनुते संहिताऽप्याह साधु ॥ ११॥

प्रद्युम्नान्तं त्रिपाद्भास्वरवपुरमृतं वासुदेवादिबृन्दे, पादस्तत्रानिरुद्धो भुवि तत उदभूदात्मभूऋग्विधिज्ञाः ।

हुत्वा त्वां यज्ञरूपं हयवदन जितन्ते स्तुतिं तन्वतेऽतः, निर्णीतं सर्ववेदेष्वनुपममिति तत्पौरुष सूक्तमाप्तैः ॥ १२॥

सर्वे वेदाः प्रजाश्च प्रचुरबहुभिदाः संश्रयन्ते यमेकम् , शास्ता योऽन्तःप्रविष्टस्स्वयमपि दशधात्माचरत्यर्णवे यम् ।

ब्रह्मा चैकोन्वविन्दद्धरिमिह दशहोतारमन्तश्च चन्द्रे, देवास्सन्तं सहैनं न हि विदुरवतात्सोऽद्य वाचस्पतिर्माम् ॥ १३॥

यस्माद्ब्रह्मा च रुद्रस्सकलजगदिदं जायतेऽन्तर्बहिर्यत्, व्याप्त्या सत्तां च यस्मिन् लयमपि लभते यश्चतुर्वेदमूर्तिः ।

विष्णुर्नारायणोऽष्टाक्षरपदविदितो देवकीपुत्र एको, योथार्वाङ्गे मधोः सूदन उपनिषदि ज्ञायते मे स इन्धाम् ॥ १४॥

शक्तिः स्वाभाविकी सात्र च विविधपरा श्रूयते ज्ञानमेवं, त्रेधा तत्र क्रियेत्थं बलमपि तदसौ वासुदेवः स हंसः ।

यो ब्रह्माणं विधाय प्रथममथ परान् प्राहिणोत्सर्ववेदान्, तस्मै देवं प्रपद्ये शरणमहमिमं चामृतस्यैष सेतुः ॥ १५॥

वम्र्यो विष्णोर्धनुर्ज्यां हयवदन वरान्नेच्छया चिच्छिदुस्तत् , कोट्या च्छिन्नं च विष्णोः शिर इति गदितं यत्प्रवर्ग्यार्थवादे ।- श्रीलक्ष्मी हयवदन रत्नमाला स्तोत्रम्

तच्छीर्षं याजमानं श्रुतिमुखत इदं स्थापित युक्तितोऽपि, प्रादुर्भावः स गौणो बहुमुखहरिवंशादिनिर्धारितो वा ॥ १६॥

शुक्लं वेदं विवस्वानुपदिशसि परं याज्ञवल्क्याय वाजी, वेदैकार्थैर्वचोभिर्मितमिदमखिलाम्नायधीकारिणीं याम् ।

वाग्देवीं मोक्षधर्मे कथयति मुनिराट् तत्कृपालब्धभूमा, त्वच्छक्तिस्सेत्यकम्प्यं हयमुख गदितं ब्रह्मवैवर्तवाग्भिः ॥ १७॥

तस्माद्वेदेऽपि तत्रोपनिषदि बृहदारण्यके काण्ड आत्मा, त्वं वाग्देव्या सहादौ जनयसि मिथुनीभूय सर्वांश्च वेदान् ।

धातारं तस्य पत्नीं तदनु तदुभयद्वारिकां व्यष्टिसृष्टिं, तद्यज्ञाराधितोऽस्मै हयवदन वरान्यच्छसीति प्रतीमः ॥ १८॥

तुर्येऽध्याये द्वितीयं तुरगमुख शिशुब्राह्मण व्यूहरूपम्, प्राण स्थूणां शिशुं त्वां चमसमपि शिरोऽर्वाग्बिलं चोर्ध्वबुध्नम् ।

सप्तानां देवतानामधिकरणममित्रेन्द्रियाणां जयार्थं, वाचाष्टम्या युतं त्वां परिकलयति तद्ब्रह्म भक्तार्तिहारि ॥ १९॥

दध्यङ्ङाथर्वणोश्वित्रिदशकृतशिरोधारणादश्वमूर्ध्ना, ताभ्यां प्रावर्ग्यतत्त्वं हयमुख समुपादिक्षदेतद्यथार्थम् ।

एतावत्येव तत्त्वे कलिबलवशतस्तामसाश्शक्त्यधीनं, भावत्कं शीर्षमाहुर्भुवि जनिसमये त्वत्कटाक्षातिदूराः ॥ २०॥

दध्यङ्ङाथर्वणो यो हयमुख बृहदारण्यके काण्ड आदौ, आह प्रावर्ग्यतत्त्वं यदपि शतपथे दीक्षणीयार्थवादे ।

विष्ण्वाख्यं तत्त्वमुक्तं पुनरुपनिषदि ब्रह्म वागीशरूपं, यच्च प्रोक्तं तृतीये तदपि च स मधुब्राह्मणे वक्ति तुर्ये ॥ २१॥

वाचा देव्यानिरुद्धेन च सृजति जगत्सर्वमित्यग्र उक्तो, वाहास्यो वासुदेवः स पर इति मधुब्राह्मणं स्थापयित्वा ।

दध्यङ्ङाथर्वणोश्वित्रिदशहितमधुत्वाष्ट्रकक्ष्योपदेष्टा, तत्त्वं जानाति चेत्यप्यखिलशुभतनुं वक्ति वागीश्वरं त्वाम् ॥ २२॥

दध्यङ्ङाथर्वणोऽसावुपदिशति मधुब्राह्मणं त्वाष्ट्रकक्ष्यं, यत्तन्नारायणाख्यं कवचमिति समाधुष्यते सात्विकाग्र्यैः ।

वृत्रस्येदं वधायालमिति हयमुख ब्रह्मविद्येति तत्त्वं, वागीशैते न जानन्त्यनघ तव कृपाबाह्यतां ये प्रयाताः ॥ २३॥

तत्त्वं नारायणाख्योपनिषदि कथितं पञ्चरात्रोक्तरीत्या, तन्नामाख्यान आहाश्वमुख विशदमाद्यं च धर्मं मुनीन्द्रः ।

गीतायां सङ्गृहीतं विशदयितुमनाः कृष्ण वाहाननैक्यं, ब्रूते वेदोदितत्वं स्थिरयति च तदत्रोक्त एकान्तिधर्मे ॥ २४॥

आदौ नारायणं तं वदति मधुजितं देवकीपुत्रमन्ते, वेदान्तो मोक्षधर्मे वरहयशिरसं प्राह कृष्णस्स्वमेव ।

इत्यालोच्यैव योगी कलिजिदभिजगौ तत्क्रमात् स्तौति मध्ये, वाहास्य त्वां शठारिर्मुनिरपि मनुतेऽश्वं पुरः कृष्णमन्ते ॥ २५॥

जन्मादीनां निदानं कतिचिदकथयन् देवमेकं तथाऽन्ये, देवीमेकां विदुस्तन्मिथुनमविकलं ब्रह्म वेदान्तवेद्यम् ।

इत्येवं स्थापयित्वा चिदचिदवियुतं श्रीमदेकं तदित्य-, प्याचख्यौ मोक्षधर्मे हयमुखजनिवृत्तापदेशान्मुनीन्द्रः ॥ २६॥

श्रावण्यां तेऽवतारे हयमुख निगमोद्धारणार्थत्वबुद्धेः, ऋग्वेदोपक्रमस्तच्छ्रवणभ इति निश्चिन्वते बह्वृचाग्र्याः ।

प्रारम्भो पौर्णमास्यां यजुष इति परे याजुषाः सङ्गिरन्ते, तद्वेदोपक्रमान्ते भुवि विधिवशगास्त्वां समाराधयन्ति ॥ २७॥

विष्णोः पत्नी परा वागिति बहुमनुते भारती यां यदींशः, पत्युः प्राक्पञ्चरात्रं श्रुतिमपि समुपादिक्षदित्यादरेण ।

तद्वागाश्लिष्टमूर्तिं हयशिरस उपाराधयन्ती निशम्य, श्रीभाष्यं लक्ष्मणाय स्वपतिविदित यत्याकृतिं बिभ्रतेऽदात् ॥ २८॥

वागीशानस्य मन्त्रं श्रुतिशिखरगुरुस्तार्क्ष्यलक्षं जपित्वा, प्राप्तं तत्काललालामृतमपिबदहीन्द्राख्यपुर्यां यतीन्दोः ।

मातुर्भ्रातुस्तनूजोत्तमगुणकुरुकाधीशवंश्यार्चितां त-,न्मूर्ति सम्प्राप्य काञ्चयां स्वयमपि चिरमाराधयद्भक्तिभूम्ना ॥ २९॥

काले वेदान्तसूरिस्स्वपदमुपगतं ब्रह्मतन्त्रस्वतन्त्रं, शिष्याग्र्यं मूर्तिमेनां समनयदथ तच्छात्रपारम्परीतः ।

सेयं वागीशमूर्तिर्गुरुवरपरकालादिभिः सेव्यमाना, रम्यास्थान्यां त्रिकालं विलसति विहितार्चाद्य कर्णाटदेशे ॥ ३०॥

धर्मं पूर्वाश्रमोक्तं सुकरमपि न कृत्वाऽन्तिमोक्तस्य तस्या-, नुष्ठानेऽशक्तिभीतं यमुखकृपणं लम्भयित्वाऽऽश्रमं तम् ।

शोभोद्रेकादिनाऽर्चाविशय उपगते लक्ष(कोटि)पूजां तुलस्या, स्वोपाख्या व्याकृतिं चाकलयसि कियती मय्यनर्घा दया ते ॥ ३१॥

इत्थं वागीशपादूयुगलसततसंसेवनार्चादिदीक्षः, तत्रैतां नव्यरङ्गेश्वरयतिरनघामार्पयद्रत्नमालाम् ।

एनां नित्यं पठन्तो भुवि मनुजवरा भक्तिभूनेप्सितार्थान्, सर्वान् विन्दन्ति वाहाननवरकरुणापाङ्गधाराभिषेकात् ॥ ३२॥

इति श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रं समाप्तम् ।

Srilakshmi Hayavadana Ratnamala Stotram/श्रीलक्ष्मी हयवदन रत्नमाला स्तोत्रम्

vAgISAkhyA Sruti-smrti udita-SubhatanoH vAsudevasya mUrtiH
j~nAtA yadvAgupaj~nam bhuvi manujavarair-vAjivaktra-prasAdAt |
prakhyAtAScarya-SaktiH kavikathakahariH sarvatantra svatantraH
trayyanta AcAryanAmA mama hrdi satatam deSikendraH sa indhAm ||

satvastham nAbhipadme vidhimatha ditijam rAjasam tAmasam ca
abbindvorutpAdya tAbhyAm apahrtam akhilam vedamAdAya dhAtre |
dattvA drAktau ca hatvA varagaNa madiSat vedhaSe satra Adau
tantram copAdiSat yassa mama hayaSirA mAnase sannidhattAm ||

adhyAste angam parAvAk varahayaSiraso bharturAcAryake yA
vAnchAvAn aitareyopanishadi caramAtprAktane khaNDa Adau |
yasyA vINAm ca daivIm manasi vinidadhatkhyAtim eti atyantyamantre
seSAnA sarvavAco mama hrdayagatA cAru mAm vAdayet vAk ||

krshNam viprA yamekam vidurapi bahudhA vedayorAdimAnte
srashTA visramsamAnaH svamatha samadadhAt chandasAm yena dAnAt |
krshNam vishNum ca jishNum kalayiturapi yat samhitAmAyuruktam
vAkSlishTam prANamenam hayamukhamanusandadhmahe kim vrthA anyaiH ||

prakhyAtA yA ASvalAyanyadhikaphala daSaSlokyabhikhyA tadantaH
SrutyuktA vAk sarasvatyapi hayamukha te SaktiranyA na yuktA |
pUrNA tvat Saktirardham bhavati vidhivadhUryA nadI sA kalAsyA
ityukterbrahmavaivarte iha samuditA syAtparA nimnagAnyA ||

SrIharsho vishNupatnIm vadati kavirimAm naishadhe mallinAthaH
khyAtAmetAm purANe hayamukha bhuvi ca sthApitAm vishNu pArSve |
dhI vAgmitvArtha japyam dinamukhasamaye SaunakaH sUktamasyAH
SrIyuktam bahvrcasya smrti krdapi tadA cintanIyam tathainAm ||-Srilakshmi Hayavadana Ratnamala Stotram

vAgAmbhrNyAdi sUkte niravadhi mahimA yA SrutA vAk ca devI
pUrve sUkte api hamsastvam adhika mahimA viSruto bahvrcairyaH |
yuktA vAraNyake tau kathitabahuguNau sAmanI samhitetya api
ArAdhyo vyUharUpi hayamukha vidito j~nAninAm karmabhistvam ||

indro vrtram hanishyan sakhivara vitaram vikramasveti vishNum
samprArthyAto hatAristata upajanita brahmahatyA panutyai |
sUktAbhyAmAhUtim yam prati paramajuhonmUrdhni gandharva eko
devAnAm nAmadhAri sa mama drDhamatAvadya vAcaspatiH stAt ||

vede ca atharvaNAkhye prathamata uditam yat trishaptIya sUktam
tanmedhA janmakarmAngamiti nigaditam kauSikena svasUtre |
medhAkAmaH pumAn yasturagamukha tataH sarvalokAdhinAtham
dhyAyet vAcaspatim tvAm prabhavati sakalaH tat SrutArtho’prakampyaH ||

nAsanno sattadAnImapi tu kamalayAvAtamekam tadAnIt
tasmAddhAnyatparam kincidapi na tamasA gUDhamagre praketam |
addhA ko veda hetum dvividhamaviguNam vAsudevAbhidhAnam
vyUham tvAm prAtararcyam hayamukha bhagamAhuH kramAt taittirIyAH ||

prAtaH pUjyam bhagAkhyam prathamamakathayan bhahvrcAH pancame atho
nAsat-sUkte-ashTame prAgvadapi samavadan taittirIyakramAt tvAm |
pArASaryaH avatIrNam vadati hayamukhAtharvarNaH kauSikastvAm
medhArtham prAtarcyam bhagamanumanute samhitApyAha sAdhu ||-Srilakshmi Hayavadana Ratnamala Stotram

pradyumnAntam tripAt bhAsvara vapuramrtam vAsudevAdi brnde
pAdaH tatra aniruddho bhuvi tata udabhUdAtmabhU Rgvidhij~nAH |
hutvA tvAm yaj~narUpam hayavadana jitante stutim tanvate ataH
nirNItam sarvavedeshvanupamamiti tatpaurusham sUktamAptaiH ||

sarve vedAH prajASca pracurabahubhidAH samSrayante yamekam
SAstA yo antaH pravishTas-svayamapi daSadhAtmAcaratyarNave yam |
brahmA caikonvavindat dharimiha daSahotAram antaSca candre
devAH santam sahainam na hi viduravatAt so adya vAcaspatiH mAm ||

viSuddha vij~nAna ghana svarUpam
vij~nAna viSrANana baddha dIksham |
dayAnidhim dehabhrtAm SaraNyam
devam hayagrIvam aham prapadye ||

hastairdadhAnam daracakrakoSaH
vyAkhyAanamudrAH sitapadmapITham |
vidyAkhya lakshmyancita vAmabhAgam
devam hayagrIvam aham prapadye ||

yasmAt brahmA ca rudraH sakalajagadidam jAyate antarbarhiryat
vyAptyA sattAm ca yasmin layamapi labhate yaH caturvedamUrtiH |
vishNurnArAyaNaH ashTAkshara padavidito devakIputra eko
yotharvAnge madhoH sUdana upanishadi j~nAyate me sa indhAm ||

diSantu me deva! sadA tvadIyAH
dayAtarangAnucarAH kaTAkshAH |
Srotreshu pumsAm amrtam ksharantIm
sarasvatIm samSrita kAmadhenum ||

viSeshavit pArishadeshu nAtha!
vidagdha goshThI samarAngaNeshu |
jigIshato me kavitArki kendrAn
jihvAgra simhAsanamabhyupeyAH ||

SaktiH svabhAvikI sAtra ca vividhaparA SrUyate j~nAnamevam
tredhA tatra kriyettham balamapi tadasau vAsudevaH sa hamsaH |
yo brahmANam vidhAya prathamamatha parAn prAhiNot sarvavedAn
tasmai devam prapadye SaraNam ahamimam cAmrtasyaisha setuH ||

yo brahmANam vidadhAti pUrvam
yo vai vedAmSca prahiNoti tasmai |
tam ha devam Atma-buddhi prakASam
mumukshurvai SaraNam aham prapadye ||

vamryo vishNurdhanurjyAm hayavadAna varAn necchayA cicchidustat
koTyA cchinnam ca vishNoH Sira iti gaditam yat pravargyArthavAde |
tat SIrsham yAjamAnam Srutimukhata idam sthApitam yuktitaH api
prAdurbhAvaH sa gauNau bahumukha harivamSAdi nirdhArito vA ||

Suklam vedam vivasvAnupAdiSasi param yAjn~avalkyAya vAji
vedaikArthairvacobhirmitamidamakhilAmnAyadhIkAriNIm yAm |
vAgdevim mokshadharme kathayati munirAT tat krpA labdhabhUmA
tvat Saktissetyakampyam hayamukha gaditam brahma vaivarta vAgbhiH ||

tasmat vede api tatropanishadi brhadAraNyake kANDa AtmA
tvam vagdevyA sahAdau janayasi mithunIbhUya sarvAmSca vedAn |
dhAtAram tasya patnIm tadanu tadubhayadvArikAm vyashTi srshTim
tat yaj~nArAdhitaH asmai hayavadana varAn yacchasIti pratImaH ||- Srilakshmi Hayavadana Ratnamala Stotram

turyo adhyAye dvitIyam turagamukha SiSu-brAhmaNam vyUharUpam
prANam sthUNAm SiSum tvAm camasamapi Siro’rvAgbilam ca Urdhva budhnam |
saptAnAm devatAnAm adhikaraNam amitrendriyANAm jayArtham
vAcAshTamyA yutam tvAm parikalayati tadbrahma bhaktArtihAri ||

dadhyang AtharvaNoSvi tridaSakrta SirodhAraNAt aSvamUrdhnA
tAbhyAm prAvargya tattvam hayamukha samupAdikshedat yathArtham |
etAvatyeva tattve kalibalavaSataH tAmasAH SaktyadhInam
tAvatkam SIrshamAhurbhuvi janisamaye tvat kaTAkshAtidUrAH ||

dadhyang AtharvaNo yo hayamukha brhadAraNyake kANDa Adau
Aha prAvargya tattvam yadapi Satapathe dIkshaNIyArthavAde |
vishNvAkhyam tattvam uktam punarupanishadi brahma vAgISarUpam
yacca proktam trtIye tadapi ca sa madhubrAhmaNe vakti turye ||

vAcA devyAniruddhena ca srjati jagatsarvamityagra ukto
vAhAsyo vAsudevaH sa para iti madhubrAhmaNam sthApayitvA |
dadhyang AtharvaNoSvi tridaSa hita madhutvAshTra kakshyopadeshTA
tattvam jAnAti cetyapyakhila Subhatanum vakti vAgISvaram tvAm || 22 ||

dadhyang AtharvaNo asAvupadiSati madhubrAhmaNam tvAshTrakakshyam
yat tat nArAyaNAkhyam kavacamiti samAghushyate sAtvikAgryaiH ||
vrtrasyedam vadhAyAlamiti hayamukha brahmavidyeti tattvam
vAgISaite na jAnantyanagha tava krpA bAhyatAm ye prayAtAH || 23 ||

tattvam nArAyaNAkhyopanishadi kathitam pancarAtroktarItyA
tannAmAkhyAna AhASvamukha viSadamAdyam ca dharmam munIdraH |
gItAyAm sangrhItam viSadayitumanAH krshNavAhAnanaikyam
brUte vedodita-tatvam sthirayati ca tadatrokta ekAntidharme ||

Adau nArAyaNam tam vadati madhujitam devakIputramante
vedAnto mokshadharme varahayaSirasam prAha krshNassvameva |
iti Alocyaiva yogI kalijidabhijagau tatkramAt staiti madhye
vAhAsya tvAm SaThAriH muniH api manute aSvam puraH krshNamante ||

mun ivvulakEzhum iruLmaNDi uNNa
munivarODu dAnavarkaL tikaippa, vantu
pannukalai nAlvEdap poruLai ellAm
parimukamAi aruLiya en paraman kANmin.

janmAdInAm nidAnam katicidakathayan devamekam tathA anye
devImekAm vidustanmithunamavikalam brahma vedAntavedyam |
iti evam sthApayitvA cidacidviyutam SrImadekam tadityapyAcakhyau mokshadharme hayamukha janivrttApadeSAnmunIndraH ||

SrAvaNyAm te avatAre hayamukha nigamoddhAraNArthatvabuddheH
RgvedopakramaH tat SravaNabha iti niScinvate bahvrcAgryAH |
prArambhaH paurNamAsyAm yajusha iti pare yAjushAH sangirante
tat vedopakramAnte bhuvi vidhivaSagAstvAm samArAdhayanti ||

bhadram karNebhiH SruNuyAma devAH |
bhadram paSyema akshabhiryajatrAH |
sthirairangaistushTuvAgum sa tanubhi |
vyaSema devahitam yadAyuH |

vishNoH patnI parA vAgiti bahumanute bhAratI yAm yadISaH
patyuH prAk-pancarAtram Srutimapi samupAdikshadityAdareNa |
tat vAgASlishTamUrtim hayaSirasa upArAdhayantI niSamya
SribhAshyam lakshmaNAya svapatividita yatyAkrtim bibhrate adAt ||

vAgISAnasya mantram Sruti Sikhara guruH tArkshya laksham japitvA
tatkAla prApta lAlAmrtam apibadahIndrAkhya-puryAm yatIndroH |
mAthuH bhrAtuH tanujottama guNa kurukAdhISa vamSyArcitam tan
mUrtim samprApya kAncyAm svayamapi ciramArAdhayat bhaktibhUmnA ||

kAle vedAntasUriH svapadam upagatam brahmatantra svatantram
SishyAgryam mUrtimenAm samanayadatha tat SAtrpAramparItaH |
seyam vAgISamUrtiH guruvara parakAlAdibhiH sevyamAnA
ramyAsthAnyAm trikAlam vilasati vihitArcAdya karNATadeSe ||

dharmam pUrvASramoktam sukaramapi na krtvA antimoktasya tasya
anushThAne aSaktibhItam hayamukha krpaNam lambhayitvA ASramam tam |
SobhodrekAdinA arcAviSaya upagate koTipUjyAm tuLasyA
svopAkhyA vyAkrtim cAkalayasi kiyatI mayyanarghA dayA te ||

ittham vAgISa pAdUyugaLa satata samsevanArcAdi dIkshaH
tatraitAm navya rangeSvara yatiH anaghAm arpayat ratnamAlAm |
enAm nityam paThanto bhuvi manujavarA bhaktibhUmnepsitArthAn
sarvAn vindanti vAhAnanavara karuNApAngadhArAbhishekAt ||