Srilakshmi Hayavadana Ratnamala Stotram, श्रीलक्ष्मी हयवदन रत्नमाला स्तोत्रम्

Srilakshmi Hayavadana Ratnamala Stotram
श्रीलक्ष्मी हयवदन रत्नमाला स्तोत्रम्

श्रीलक्ष्मी हयवदन रत्नमाला स्तोत्रम् हिंदी पाठ
Srilakshmi Hayavadana Ratnamala Stotram in Hindi

।। श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ।।

श्रीमते श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रमहादेशिकाय नमः ।
श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मे नारायणाख्याने हयशिर
उपाख्यानस्य व्याख्याने हयशिरोरत्नभूषणे तद्विवरणदीधितौ च
परिशीलितानां श्रुतीनामर्थस्य सङ्ग्राहक श्रीलक्ष्मीहयवदनरत्नमालास्तोत्रम् ।

वागीशाख्या श्रुतिस्मृत्युदितशुभतनोवसुदेवस्य मूर्तिः,
ज्ञाता यद्वागुपज्ञं भुवि मनुजवेरैर्वाजिवक्त्रप्रसादात् ।
प्रख्याताश्चर्यशक्तिः कविकथकहरिः सर्वतन्त्रस्वतन्त्रः,
त्रय्यन्ताचार्यनामा मम हृदि सततं देशिकेन्द्रः स इन्धाम् ॥ १ ॥

सत्वस्थं नाभिपद्मे विधिमथ दितिजं राजसं तामसं चा-,
ब्बिन्द्वोरुत्पाद्य ताभ्यामपहृतमखिलं वेदमादाय धात्रे ।
दत्त्वा द्राक्तौ च हत्वा वरगणमदिशद्वेधसे सत्र आदौ,
तन्त्रं चोपादिशद्यस्स मम हयशिरा मानसे सन्निधत्ताम् ॥ २ ॥

अध्यास्तेऽङ्कं परावाग् वरहयशिरसो भर्तुराचार्यके या,
वाञ्छावानैतरेयोपनिषदि चरमात्प्राक्तने खण्ड आदौ ।
यस्या वीणां च दैवीं मनसि विनिदधत्ख्यातिमेत्यन्त्यमन्त्रे,
सेशाना सर्ववाचो मम हृदयगता चारु मां वादयेद्वाक् ॥ ३ ॥

कृष्णं विप्रा यमेकं विदुरपि बहुधा वेदयो (रैतरेये) रादिमान्ते,
स्रष्टा विस्रंसमानस्स्वमथ समदधाच्छन्दसां येन दानात् ।
कृष्ण विष्णुं च जिष्णुं कलयितुरपि यत्संहितामायुरुक्तं,
वाक्श्लिष्टं प्राणमेनं हयमुखमनुसन्दध्महे किं वृथाऽन्यैः ॥ ४ ॥

प्रख्याता याऽऽश्वलायन्यधिकफलदशश्लोक्यभिख्या तदन्तः,
श्रुत्युक्ता वाक् सरस्वत्यपि हयमुख ते शक्तिरन्या न युक्ता ।
पूर्णा त्वच्छक्तिरर्धं भवति विधिवधूर्या नदी सा कलास्या,
इत्युक्ते ब्रह्मवैवर्त इह समुदिता स्यात्परा निम्नगाऽन्या ॥ ५ ॥

श्रीहर्षों विष्णुपत्नीं वदति कविरिमा नैषधे मल्लिनाथः,
ख्यातामेतां पुराणे हयमुख भुवि च स्थापितां विष्णुपार्श्वे ।
धीवाग्मित्वार्थजप्यं दिनमुखसमये शौनकस्सूक्तमत्याः,
श्रीयुक्तं बह्वृचस्स स्मृतिकृदपि तदा चिन्तनीयं तथैनाम् ॥ ६ ॥

वागाम्भृण्यादिसूक्ते निरवधिमहिमा या श्रुता वाक् च देवी,
पूर्वे सूक्तेऽपि हंसस्त्वमधिकमहिमा विश्रुतो बह्वृचैर्यः ।
युक्तावारण्यके तौ कथितबहुगुणौ सामनी संहितेत्य-,
प्याराध्यो व्यूहरूपी हयमुखविदितो ज्ञानिनां कर्मभिस्त्वम् ॥ ७ ॥

इन्द्रो वृत्रं हनिष्यन् सखिवर वितरं विक्रमस्वेति विष्णुं,
सम्प्रार्थ्यातो हतारिस्तत उपजनितब्रह्महत्त्यापनुत्त्यै ।
सूक्ताभ्यामाहुतिं यं प्रति परमजुहोन्मूर्ध्नि गन्धर्व एको,
देवानां नामधारी स मम दृढमतावद्य वाचस्पतिस्तात् ॥ ८ ॥

वेदे चाथर्वणाख्ये प्रथमत उदितं यत्त्रिषप्तीयसूक्तं,
तन्मेधाजन्मकर्माङ्गमिति निगदितं कौशिकेन स्वसूत्रे ।
मेधाकामः पुमान् यस्तुरगमुख ततस्सर्वलोकाधिनाथं,
ध्यायेद्वाचस्पतिं त्वां प्रभवति सकलस्तच्छृतार्थोऽप्रकम्प्यः ॥ ९ ॥

नासन्नो सत्तदानीमपि तु कमलयाऽवातमेकं तदानीत्,
तस्माद्धान्यत्परं किञ्चिदपि न तमसा गूढमग्रे प्रकेतम् ।
अद्धा को वेद हेतुं द्विविधमविगुणं वासुदेवाभिधानं,
व्यूहं त्वां प्रातरर्च्यं हयमुख भगमाहुः क्रमात्तैत्तिरीयाः ॥ १० ॥

प्रातःपूज्यं भगाख्यं प्रथममकथयन् बह्वृचाः पञ्चमेऽथो,
नासत्सूक्तेऽष्टमे प्राग्वदपि समवदन् तैतिरीयक्रमात्त्वाम् ।
पाराशर्योऽवतीर्णं वदति हयमुखाथर्वणः कौशिकस्त्वाम्,
मेधार्थं प्रातरर्च्यं भगमनुमनुते संहिताऽप्याह साधु ॥ ११ ॥

प्रद्युम्नान्तं त्रिपाद्भास्वरवपुरमृतं वासुदेवादिबृन्दे,
पादस्तत्रानिरुद्धो भुवि तत उदभूदात्मभूऋग्विधिज्ञाः ।
हुत्वा त्वां यज्ञरूपं हयवदन जितन्ते स्तुतिं तन्वतेऽतः,
निर्णीतं सर्ववेदेष्वनुपममिति तत्पौरुष सूक्तमाप्तैः ॥ १२ ॥

सर्वे वेदाः प्रजाश्च प्रचुरबहुभिदाः संश्रयन्ते यमेकम् ,
शास्ता योऽन्तःप्रविष्टस्स्वयमपि दशधात्माचरत्यर्णवे यम् ।
ब्रह्मा चैकोन्वविन्दद्धरिमिह दशहोतारमन्तश्च चन्द्रे,
देवास्सन्तं सहैनं न हि विदुरवतात्सोऽद्य वाचस्पतिर्माम् ॥ १३ ॥

यस्माद्ब्रह्मा च रुद्रस्सकलजगदिदं जायतेऽन्तर्बहिर्यत्,
व्याप्त्या सत्तां च यस्मिन् लयमपि लभते यश्चतुर्वेदमूर्तिः ।
विष्णुर्नारायणोऽष्टाक्षरपदविदितो देवकीपुत्र एको,
योथार्वाङ्गे मधोः सूदन उपनिषदि ज्ञायते मे स इन्धाम् ॥ १४ ॥

शक्तिः स्वाभाविकी सात्र च विविधपरा श्रूयते ज्ञानमेवं,
त्रेधा तत्र क्रियेत्थं बलमपि तदसौ वासुदेवः स हंसः ।
यो ब्रह्माणं विधाय प्रथममथ परान् प्राहिणोत्सर्ववेदान्,
तस्मै देवं प्रपद्ये शरणमहमिमं चामृतस्यैष सेतुः ॥ १५ ॥

वम्र्यो विष्णोर्धनुर्ज्यां हयवदन वरान्नेच्छया चिच्छिदुस्तत् ,
कोट्या च्छिन्नं च विष्णोः शिर इति गदितं यत्प्रवर्ग्यार्थवादे ।
तच्छीर्षं याजमानं श्रुतिमुखत इदं स्थापित युक्तितोऽपि,
प्रादुर्भावः स गौणो बहुमुखहरिवंशादिनिर्धारितो वा ॥ १६ ॥

शुक्लं वेदं विवस्वानुपदिशसि परं याज्ञवल्क्याय वाजी,
वेदैकार्थैर्वचोभिर्मितमिदमखिलाम्नायधीकारिणीं याम् ।
वाग्देवीं मोक्षधर्मे कथयति मुनिराट् तत्कृपालब्धभूमा,
त्वच्छक्तिस्सेत्यकम्प्यं हयमुख गदितं ब्रह्मवैवर्तवाग्भिः ॥ १७ ॥

तस्माद्वेदेऽपि तत्रोपनिषदि बृहदारण्यके काण्ड आत्मा,
त्वं वाग्देव्या सहादौ जनयसि मिथुनीभूय सर्वांश्च वेदान् ।
धातारं तस्य पत्नीं तदनु तदुभयद्वारिकां व्यष्टिसृष्टिं,
तद्यज्ञाराधितोऽस्मै हयवदन वरान्यच्छसीति प्रतीमः ॥ १८ ॥

तुर्येऽध्याये द्वितीयं तुरगमुख शिशुब्राह्मण व्यूहरूपम्,
प्राण स्थूणां शिशुं त्वां चमसमपि शिरोऽर्वाग्बिलं चोर्ध्वबुध्नम् ।
सप्तानां देवतानामधिकरणममित्रेन्द्रियाणां जयार्थं,
वाचाष्टम्या युतं त्वां परिकलयति तद्ब्रह्म भक्तार्तिहारि ॥ १९ ॥

दध्यङ्ङाथर्वणोश्वित्रिदशकृतशिरोधारणादश्वमूर्ध्ना,
ताभ्यां प्रावर्ग्यतत्त्वं हयमुख समुपादिक्षदेतद्यथार्थम् ।
एतावत्येव तत्त्वे कलिबलवशतस्तामसाश्शक्त्यधीनं,
भावत्कं शीर्षमाहुर्भुवि जनिसमये त्वत्कटाक्षातिदूराः ॥ २० ॥

दध्यङ्ङाथर्वणो यो हयमुख बृहदारण्यके काण्ड आदौ,
आह प्रावर्ग्यतत्त्वं यदपि शतपथे दीक्षणीयार्थवादे ।
विष्ण्वाख्यं तत्त्वमुक्तं पुनरुपनिषदि ब्रह्म वागीशरूपं,
यच्च प्रोक्तं तृतीये तदपि च स मधुबराह्मणे वक्ति तुर्ये ॥ २१ ॥

वाचा देव्यानिरुद्धेन च सृजति जगत्सर्वमित्यग्र उक्तो,
वाहास्यो वासुदेवः स पर इति मधुब्राह्मणं स्थापयित्वा ।
दध्यङ्ङाथर्वणोश्वित्रिदशहितमधुत्वाष्ट्रकक्ष्योपदेष्टा,
तत्त्वं जानाति चेत्यप्यखिलशुभतनुं वक्ति वागीश्वरं त्वाम् ॥ २२ ॥

दध्यङ्ङाथर्वणोऽसावुपदिशति मधुब्राह्मणं त्वाष्ट्रकक्ष्यं,
यत्तन्नारायणाख्यं कवचमिति समाधुष्यते सात्विकाग्र्यैः ।
वृत्रस्येदं वधायालमिति हयमुख ब्रह्मविद्येति तत्त्वं,
वागीशैते न जानन्त्यनघ तव कृपाबाह्यतां ये प्रयाताः ॥ २३ ॥

तत्त्वं नारायणाख्योपनिषदि कथितं पञ्चरात्रोक्तरीत्या,
तन्नामाख्यान आहाश्वमुख विशदमाद्यं च धर्मं मुनीन्द्रः ।
गीतायां सङ्गृहीतं विशदयितुमनाः कृष्ण वाहाननैक्यं,
ब्रूते वेदोदितत्वं स्थिरयति च तदत्रोक्त एकान्तिधर्मे ॥ २४ ॥

आदौ नारायणं तं वदति मधुजितं देवकीपुत्रमन्ते,
वेदान्तो मोक्षधर्मे वरहयशिरसं प्राह कृष्णस्स्वमेव ।
इत्यालोच्यैव योगी कलिजिदभिजगौ तत्क्रमात् स्तौति मध्ये,
वाहास्य त्वां शठारिर्मुनिरपि मनुतेऽश्वं पुरः कृष्णमन्ते ॥ २५ ॥

जन्मादीनां निदानं कतिचिदकथयन् देवमेकं तथाऽन्ये,
देवीमेकां विदुस्तन्मिथुनमविकलं ब्रह्म वेदान्तवेद्यम् ।
इत्येवं स्थापयित्वा चिदचिदवियुतं श्रीमदेकं तदित्य-,
प्याचख्यौ मोक्षधर्मे हयमुखजनिवृत्तापदेशान्मुनीन्द्रः ॥ २६ ॥

श्रावण्यां तेऽवतारे हयमुख निगमोद्धारणार्थत्वबुद्धेः,
ऋग्वेदोपक्रमस्तच्छ्रवणभ इति निश्चिन्वते बह्वृचाग्र्याः ।
प्रारम्भो पौर्णमास्यां यजुष इति परे याजुषाः सङ्गिरन्ते,
तद्वेदोपक्रमान्ते भुवि विधिवशगास्त्वां समाराधयन्ति ॥ २७ ॥

विष्णोः पत्नी परा वागिति बहुमनुते भारती यां यदींशः,
पत्युः प्राक्पञ्चरात्रं श्रुतिमपि समुपादिक्षदित्यादरेण ।
तद्वागाश्लिष्टमूर्तिं हयशिरस उपाराधयन्ती निशम्य,
श्रीभाष्यं लक्ष्मणाय स्वपतिविदित यत्याकृतिं बिभ्रतेऽदात् ॥ २८ ॥

वागीशानस्य मन्त्रं श्रुतिशिखरगुरुस्तार्क्ष्यलक्षं जपित्वा,
प्राप्तं तत्काललालामृतमपिबदहीन्द्राख्यपुर्यां यतीन्दोः ।
मातुर्भ्रातुस्तनूजोत्तमगुणकुरुकाधीशवंश्यार्चितां त-,
न्मूर्ति सम्प्राप्य काञ्चयां स्वयमपि चिरमाराधयद्भक्तिभूम्ना ॥ २९ ॥

काले वेदान्तसूरिस्स्वपदमुपगतं ब्रह्मतन्त्रस्वतन्त्रं,
शिष्याग्र्यं मूर्तिमेनां समनयदथ तच्छात्रपारम्परीतः ।
सेयं वागीशमूर्तिर्गुरुवरपरकालादिभिः सेव्यमाना,
रम्यास्थान्यां त्रिकालं विलसति विहितार्चाद्य कर्णाटदेशे ॥ ३०॥

धर्मं पूर्वाश्रमोक्तं सुकरमपि न कृत्वाऽन्तिमोक्तस्य तस्या-,
नुष्ठानेऽशक्तिभीतं यमुखकृपणं लम्भयित्वाऽऽश्रमं तम् ।
शोभोद्रेकादिनाऽर्चाविशय उपगते लक्ष(कोटि)पूजां तुलस्या,
स्वोपाख्या व्याकृतिं चाकलयसि कियती मय्यनर्घा दया ते ॥ ३१ ॥

इत्थं वागीशपादूयुगलसततसंसेवनार्चादिदीक्षः,
तत्रैतां नव्यरङ्गेश्वरयतिरनघामार्पयद्रत्नमालाम् ।
एनां नित्यं पठन्तो भुवि मनुजवरा भक्तिभूनेप्सितार्थान्,
सर्वान् विन्दन्ति वाहाननवरकरुणापाङ्गधाराभिषेकात् ॥ ३२ ॥

॥ इति श्रीलक्ष्मी हयवदन रत्नमाला स्तोत्रम् सम्पूर्णम् ॥

BUY RELIGIOUS BOOKS