Sita Sahasranaam stotram, सीता सहस्रनाम स्तोत्रम

Sita Sahasranaam stotram
सीता सहस्रनाम स्तोत्रम

सीता सहस्रनाम स्तोत्रम हिंदी
Sita Sahasranaam stotram

वाल्मीकिविरचिते अद्भुतरामायणे पञ्चविंशति सर्गान्तर्गतं

॥ श्रीरामकृतं सीतासहस्रनामस्तोत्रम् ॥

ब्रह्मणो वचनं श्रुत्वा रामः कमललोचनः ।
प्रोन्मील्य शनकैरक्षी वेपमानो महाभुजः ॥ १ ॥

प्रणम्य शिरसा भूमौ तेजसा चापि विह्वलः ।
भीतः कृताञ्जलिपुटः प्रोवाच परमेश्वरीम् ॥ २ ॥

का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते ।
न जाने त्वां महादेवि यथावद्ब्रूहि पृच्छते ॥ ३ ॥

रामस्य वचनं श्रुत्वा ततः सा परमेश्वरी ।
व्याजहार रघुव्याघ्रं योगिनामभयप्रदा ॥ ४ ॥

मां विद्धि परमां शक्तिं महेश्वरसमाश्रयाम् ।
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ५ ॥

अहं वै सर्वभावानामात्मा सर्वान्तरा शिवा ।
शाश्वती सर्वविज्ञाना सर्वमूर्तिप्रवर्तिका ॥ ६ ॥

अनन्तानन्तमहिमा संसारार्णवतारिणी ।
दिव्यं ददामि ते चक्षुः पश्य मे पदमैश्वरम् ॥ ७ ॥

इत्युक्त्वा विररामैषा रामोऽपश्यच्च तत्पदम् ।
कोटिसूर्यप्रतीकाशं विश्वक्तेजोनिराकुलम् ॥ ८ ॥

ज्वालावलीसहस्राढ्यं कालानलशतोपमम् ।
दंष्ट्राकरालं दुर्धर्षं जटामण्डलमण्डितम् ॥ ९ ॥

त्रिशूलवरहस्तं च घोररूपं भयावहम् ।
प्रशाम्यत्सौम्यवदनमनन्तैश्वर्यसंयुतम् ॥ १० ॥

चन्द्रावयवलक्ष्माढ्यं चन्द्रकोटिसमप्रभम् ।
किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ॥ ११ ॥

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
शङ्खचक्रकरं काम्यं त्रिनेत्रं कृत्तिवाससम् ॥ १२ ॥

अन्तःस्थं चाण्डबाह्यस्थं बाह्याभ्यन्तरतःपरम् ।
सर्वशक्तिमयं शान्तं सर्वाकारं सनातनम् ॥ १३ ॥

ब्रह्मेन्द्रोपेन्द्रयोगीन्द्रैरीड्यमानपदाम्बुजम् ।
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ १४ ॥

सर्वमावृत्य तिष्ठन्तं ददर्श पदमैश्वरम् ।
दृष्ट्वा च तादृशं रूपं दिव्यं माहेश्वरं पदम् ॥ १५ ॥

तथैव च समाविष्टः स रामो हृतमानसः ।
आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् ॥ १६ ॥

नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ।
ॐ सीतोमा परमा शक्तिरनन्ता निष्कलामला ॥ १७ ॥

शान्ता माहेश्वरी चैव शाश्वती १० परमाक्षरा ।
अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ॥ १८ ॥

अनादिरव्यया शुद्धा देवात्मा २० सर्वगोचरा ।
एकानेकविभागस्था मायातीता सुनिर्मला ॥ १९ ॥

महामाहेश्वरी शक्ता महादेवी निरञ्जना ।
काष्ठा ३० सर्वान्तरस्था च चिच्छक्तिरतिलालसा ॥ २० ॥

जानकी मिथिलानन्दा राक्षसान्तविधायिनी ।
रावणान्तरकरी रम्या रामवक्षःस्थलालया ॥ २१ ॥

उमा सर्वात्मिका ४० विद्या ज्योतिरूपायुताक्षरा ।
शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा ॥ २२ ॥

व्योममूर्तिर्व्योममयी व्योमधाराऽच्युता ५१ लता ।
अनादिनिधना योषा कारणात्मा कलाकुला ॥ २३ ॥

नन्दप्रथमजा नाभिरमृतस्यान्तसंश्रया ।
प्राणेश्वरप्रिया ६० मातामही महिषवाहना ॥ २४ ॥

सीता सहस्रनाम स्तोत्रम

प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ।
सर्वशक्तिः कला काष्ठा ज्योत्स्नेन्दोर्महिमाऽऽस्पदा ॥ २५ ॥ ७२

सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ।
अनादिरव्यक्तगुणा महानन्दा सनातनी ॥ २६ ॥

आकाशयोनिर्योगस्था सर्वयोगेश्वरेश्वरी ८० ।
शवासना चितान्तःस्था महेशी वृषवाहना ॥ २७ ॥

बालिका तरुणी वृद्धा वृद्धमाता जरातुरा ।
महामाया ६० सुदुष्पूरा मूलप्रकृतिरीश्वरी ॥ २८ ॥

संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।
संसारसारा दुर्वारा दुर्निरीक्ष्या दुरासदा १०० ॥ २९ ॥

प्राणशक्तिः प्राणविद्या योगिनी परमा कला ।
महाविभूतिर्दुर्धर्षा मूलप्रकृतिसम्भवा ॥ ३० ॥

अनाद्यनन्तविभवा परात्मा पुरुषो बली ११० ।
सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया ॥ ३१ ॥

शब्दयोनिश्शब्दमयी नादाख्या नादविग्रहा ।
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ ३२ ॥

सीता सहस्रनाम स्तोत्रम

पुराणी १२० चिन्मयी पुंसामादिः पुरुषरूपिणी ।
भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥ ३३ ॥

जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ।
व्यापिनी चानवच्छिन्ना १३० प्रधाना सुप्रवेशिनी ॥ ३४ ॥

क्षेत्रज्ञा शक्तिरव्यक्तलक्षणा मलवर्जिता ।
अनादिमायासम्भिन्ना त्रितत्त्वा प्रकृतिर्गुणः १४० ॥ ३५ ॥

महामाया समुत्पन्ना तामसी पौरुषं ध्रुवा ।
व्यक्ताव्यक्तात्मिका कृष्णा रक्तशुक्लाप्रसूतिका ॥ ३६ ॥

स्वकार्या १५० कार्यजननी ब्रह्मास्या ब्रह्मसंश्रया ।
व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ॥ ३७ ॥

वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता । १६१
जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी ॥ ३८ ॥

सीता सहस्रनाम स्तोत्रम

सुखदा शुभदा सत्या शुभा १७० सङ्क्षोभकारिणी ।
अपां योनिः स्वयम्भूतिर्मानसी तत्त्वसम्भवा ॥ ३९ ॥

ईश्वराणी च सर्वाणी शङ्करार्द्धशरीरिणी ।
भवानी चैव रुद्राणी १८० महालक्ष्मीरथाम्बिका ॥ ४० ॥

माहेश्वरी समुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
सर्वेश्वरी सर्ववर्णा नित्या मुदितमानसा ॥ ४१ ॥

ब्रह्मेन्द्रोपेन्द्रनमिता शङ्करेच्छानुवर्तिनी १९० ।
ईश्वरार्द्धासनगता रघूत्तमपतिव्रता ॥ ४२ ॥

सकृद्विभाविता सर्वा समुद्रपरिशोषिणी ।
पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ ४३ ॥

गुणाढ्या योगदा २०० योग्या ज्ञानमूर्तिर्विकासिनी ।
सावित्री कमला लक्ष्मी श्रीरनन्तोरसि स्थिता ॥ ४४ ॥

सरोजनिलया शुभ्रा योगनिद्रा २१० सुदर्शना ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ ४५ ॥

वासवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका २२० ।
वागीश्वरी सर्वविद्या महाविद्या सुशोभना ॥ ४६ ॥

सीता सहस्रनाम स्तोत्रम

गुह्यविद्याऽऽत्मविद्या च सर्वविद्याऽऽत्मभाविता ।
स्वाहा विश्वम्भरी २३० सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ ४७ ॥

नाभिः सुनाभिः सुकृतिर्माधवी नरवाहिनी २४० ।
पूजा विभावरी सौम्या भगिनी भोगदायिनी ॥ ४८ ॥

शोभा वंशकरी लीला मानिनी परमेष्ठिनी २५० ।
त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ ४९ ॥

महानुभावमध्यस्था महामहिषमर्दिनी ।
पद्ममाला पापहरा विचित्रमुकुटानना ॥ ५० ॥

कान्ता २६० चित्राम्बरधरा दिव्याभरणभूषिता ।
हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी ॥ ५१ ॥

निर्यन्त्रा मन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा २७० कौमारी मयूरवरवाहिनी ॥ ५२ ॥

वृषासनगता गौरी महाकाली सुरार्चिता ।
अदितिर्नियता रौद्री पद्मगर्भा २८० विवाहना ॥ ५३ ॥

विरूपाक्षी लेलिहाना महासुरविनाशिनी ।
महाफलानवद्याङ्गी कामपूरा विभावरी ॥ ५४ ॥

कौशिकी कर्षिणी रात्रिस्त्रिदशार्त्तिविनाशनी ॥ ५५ ॥

विरूपा च सरूपा च भीमा मोक्षप्रदायिनी ।
भक्तार्त्तिनाशिनी भव्या ३०० भवभावविनाशिनी ॥ ५६ ॥

निर्गुणा नित्यविभवा निःसारा निरपत्रपा ।
यशस्विनी सामगीतिर्भावाङ्गनिलयालया ॥ ५७ ॥

दीक्षा ३१० विद्याधरी दीप्ता महेन्द्रविनिपातिनी ।
सर्वातिशायिनी विद्या सर्वशक्तिप्रदायिनी ॥ ५८ ॥

सर्वेश्वरप्रिया तार्क्षी समुद्रान्तरवासिनी ।
अकलङ्का निराधारा ३२० नित्यसिद्धा निरामया ॥ ५९ ॥

कामधेनुर्वेदगर्भा धीमती मोहनाशिनी ।
निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ३२० ॥ ६० ॥

ज्वालामालासहस्राढ्या देवदेवी मनोन्मनी ।
उर्वी गुर्वी गुरुः श्रेष्ठा सगुणा षड्गुणात्मिका ॥ ६१ ॥

महाभगवती ३४० भव्या वसुदेवसमुद्भवा ।
महेन्द्रोपेन्द्रभगिनी भक्तिगम्यपरायणा ॥ ६२ ॥

सीता सहस्रनाम स्तोत्रम

ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ।
दक्षिणा ३५० दहना बाह्या सर्वभूतनमस्कृता ॥ ६३ ॥

योगमाया विभावज्ञा महामोहा महीयसी ।
सत्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रया ३६० मतिः ॥ ६४ ॥

बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ।
ख्यातिः प्रतिज्ञा चित्संविन्महायोगेन्द्रशायिनी ॥ ६५ ॥

विकृतिः ३७० शङ्करी शास्त्री गन्धर्वा यक्षसेविता ।
वैश्वानरी महाशाला देवसेना गुहप्रिया ॥ ६६ ॥

महारात्री शिवानन्दा शची ३८० दुःस्वप्ननाशिनी ।
पूज्यापूज्या जगद्धात्री दुर्विज्ञेयस्वरूपिणी ॥ ६७ ॥

गुहाम्बिका गुहोत्पत्तिर्महापीठा मरुत्सुता ।
हव्यवाहान्तरा ३६० गार्गी हव्यवाहसमुद्भवा ॥ ६८ ॥

जगद्योनिर्जगन्माता जगन्मृत्युर्जरातिगा ।
बुद्धिर्माता बुद्धिमती पुरुषान्तरवासिनी ४०० ॥ ६९ ॥

तपस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ।

सर्वेन्द्रियमनोमाता सर्वभूतहृदिस्थिता ॥ ७० ॥

ब्रह्माणी बृहती ४१० ब्राह्मी ब्रह्मभूता भयावनी ॥ ७१ ॥

हिरण्यमयी महारात्रिः संसारपरिवर्तिका ।
सुमालिनी सुरूपा च तारिणी भाविनी ४२० प्रभा ॥ ७२ ॥

उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ।
तपिनी तापिनी विश्वा भोगदा धारिणी धरा ४३० ॥ ७३ ॥

सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥ ७४ ॥

सीता सहस्रनाम स्तोत्रम

जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ४४० ।
निराश्रया निराहारा निरङ्कुशरणोद्भभवा ॥ ७५ ॥

चक्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी ।
परापरविधानज्ञा महापुरुषपूर्वजा ॥ ७६ ॥

विद्येश्वरप्रियाऽविद्या विदुज्जिह्वा जितश्रमा । ४५३
विद्यामयी सहस्राक्षी सहस्रश्रवणात्मजा ॥ ७७ ॥

ज्वालिनी ४६० सद्मना व्याप्ता तैजसी पद्मरोधिका ॥ ७८ ॥

महादेवाश्रया मान्या महादेवमनोरमा ।
व्योमलक्ष्मीश्च सिंहस्था चेकितान्यमितप्रभा ४७० ॥ ७९ ॥

विश्वेश्वरी विमानस्था विशोका शोकनाशिनी ।
अनाहता कुण्डलिनी नलिनी पद्मवासिनी ॥ ८० ॥

शतानन्दा सतां कीर्तिः ४८० सर्वभूताशयस्थिता ।
वाग्देवता ब्रह्मकला कलातीता कलावती ॥ ८१ ॥

ब्रह्मर्षिर्ब्रह्महृदया ब्रहाविष्णुशिवप्रिया ।
व्योमशक्तिः क्रियाशक्तिर्जनशक्तिः परागतिः ॥ ८२ ॥ ४९२

क्षोभिका रौद्रिका भेद्या भेदाभेदविवर्जिता ।
अभिन्ना भिन्नसंस्थाना वंशिनी वंशहारिणी ५०० ॥ ८३ ॥

गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ।
भगिनी भगवत्पत्नीं सकला कालकारिणी ॥ ८४ ॥

सर्ववित्सर्वतोभद्रा ५१० गुह्यातीता गुहाबलिः ।
प्रक्रिया योगमाता च गन्धा विश्वेश्वरेश्वरी ॥ ८५ ॥

कपिला कपिलाकान्ता कनकाभा कलान्तरा ५२० ।
पुण्या पुष्करिणी भोक्त्री पुरन्दरपुरःसरा ॥ ८६ ॥

पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ।
पञ्चब्रह्मसमुत्पत्तिः परमात्मात्ऽऽमविग्रहा ॥ ८७ ॥

नर्मोदया ५३० भानुमती योगिज्ञेया मनोजवा ।
बीजरूपा रजोरूपा वशिनी योगरूपिणी ॥ ८८ ॥

सुमन्त्रा मन्त्रिणी पूर्णा ५४० ह्लादिनी क्लेशनाशिनी ।
मनोहरिर्मनोरक्षी तापसी वेदरूपिणी ॥ ८९ ॥

वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी ५५० माला महाशक्तिर्मनोमयी ॥ ९० ॥

विश्वावस्था वीरमुक्तिर्विद्युन्माला विहायसी ।
पीवरी सुरभी वन्द्या ५६० नन्दिनी नन्दवल्लभा ॥ ९१ ॥

भारती परमानन्दा परापरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ ९२ ॥

अचिन्त्याचिन्त्यमहिमा ५७० दुर्लेखा कनकप्रभा ।
कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥ ९३ ॥

त्रिविक्रमपदोद्भूता धनुष्पाणिः शिरोहया ।
सुदुर्लभा ५८० धनाध्यक्षा धन्या पिङ्गललोचना ॥ ९४ ॥

भ्रान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ।
आद्या हृत्कमलोद्भूता परामाता ५६० रणप्रिया ॥ ९५ ॥

सत्क्रिया गिरिजा नित्यशुद्धा पुष्पनिरन्तरा ।
दुर्गा कात्यायनी चण्डी चर्चिका शान्तविग्रहा ६०० ॥ ९६ ॥

हिरण्यवर्णा रजनी जगन्मन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ ९७ ॥

रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ६१० ।
पद्मासना पद्मनिभा नित्यतुष्टामृतोद्भवा ॥ ९८ ॥

धुन्वती दुष्प्रकम्पा च सूर्यमाता दृषद्वती ।
महेन्द्रभगिनी माया ६२० वरेण्या वरदर्पिता ॥ ९९ ॥

कल्याणी कमला रामा पञ्चभूतवरप्रदा ।
वाच्या वरेश्वरी नन्द्या दुर्जया ६३० दुरतिक्रमा ॥ १०० ॥

कालरात्रिर्महावेगा वीरभद्रहितप्रिया ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ १०१ ॥

कराला पिङ्गलाकारा नामवेदा ६४० महानदा ।
तपस्विनी यशोदा च यथाध्वपरिवर्तिनी ॥ १०२ ॥

शङ्खिनी पद्मिनी साङ्ख्या साङ्ख्ययोगप्रवर्तिका ।
चैत्री संवत्सरा ६५० रुद्रा जगत्सम्पूरणीन्द्रजा ॥ १०३ ॥

शुम्भारिः खेचरी खस्था कम्बुग्रीवा कलिप्रिया ।
खरध्वजा खरारूढा ६६० परार्ध्या परमालिनी ॥ १०४ ॥

ऐश्वर्यरत्ननिलया विरक्ता गरुडासना ।
जयन्ती हृद्गुहा रम्या सत्त्ववेगा गणाग्रणीः ॥ १०५ ॥

सङ्कल्पसिद्धा ६७० साम्यस्था सर्वविज्ञानदायिनी ।
कलिकल्मषहन्त्री च गुह्योपनिषदुत्तमा ॥ १०६ ॥

नित्यदृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः ६८० क्रियावती ।
विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवामृता ॥ १०७ ॥

लोहिता सर्वमाता च भीषणा वनमालिनी ६९० ।
अनन्तशयनानाद्या नरनारायणोद्भवा ॥ १०८ ॥

सीता सहस्रनाम स्तोत्रम

नृसिंही दैत्यमथिनी शङ्खचक्रगदाधरा ।
सङ्कर्षणसमुत्पत्तिरम्बिकोपात्तसंश्रया ॥ १०९ ॥

महाज्वाला महामूर्तिः ७०० सुमूर्तिः सर्वकामधुक् ।
सुप्रभा सुतरां गौरी धर्मकामार्थमोक्षदा ॥ ११० ॥

भ्रूमध्यनिलयाऽपूर्वा प्रधानपुरुषा बली ।
महाविभूतिदा ७१० मध्या सरोजनयनासना ॥ १११ ॥

अष्टादशभुजा नाट्या नीलोत्पलदलप्रभा ।
सर्वशक्ता समारूढा धर्माधर्मानुवर्जिता ॥ ११२ ॥

वैराग्यज्ञाननिरता निरालोका ७२० निरिन्द्रिया ।
विचित्रगहना धीरा शाश्वतस्थानवासिनी ॥ ११३ ॥

स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ।
अशेषदेवतामूर्तिदेवता परदेवता ७३० ॥ ११४ ॥

गणात्मिका गिरेः पुत्री निशुम्भविनिपातिनि ।
अवर्णा वर्णरहिता निर्वर्णा बीजसम्भवा ॥ ११५ ॥

अनन्तवर्णानन्यस्था शङ्करी ७४० शान्तमानसा ।
अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणान्तरा ॥ ११६ ॥

गोश्रीर्गव्यप्रिया गौरी गणेश्वरनमस्कृता ।
सत्यमात्रा ७५० सत्यसन्धा त्रिसन्ध्या सन्धिवर्जिता ॥ ११७ ॥

सर्ववादाश्रया साङ्ख्या साङ्ख्ययोगसमुद्भवा ।
असङ्ख्येयाप्रमेयाख्या शून्या शुद्धकुलोद्भवा ७६० ॥ ११८ ॥

बिन्दुनादसमुत्पत्तिः शम्भुवामा शशिप्रभा ।
विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी ॥ ११९ ॥

महाश्रीः श्रीसमुत्पत्ति ७७० स्तमःपारे प्रतिष्ठिता ।
त्रतत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया ॥ १२० ॥

शान्त्यातीता मलातीता निर्विकारा निराश्रया ।
शिवाख्या चित्रनिलया ७८० शिवज्ञानस्वरूपिणी ॥ १२१ ॥

दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ।
शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका ॥ १२२ ॥

नारायणी नवोद्भूता कौमुदी ७६० लिङ्गधारिणी ।
कामुकी ललिता तारा परापरविभूतिदा ॥ १२३ ॥

परान्तजातमहिमा वाडवा वामलोचना ।
सुभद्रा देवकी ८०० सीता वेदवेदाङ्गपारगा ॥ १२४ ॥

मनस्विनी मन्युमाता महामन्युसमुद्भवा ।
अमृत्युरमृतास्वादा पुरुहूता पुरुप्लुता ॥ १२५ ॥

अशोच्या ८१० भिन्नविषया हिरण्यरजतप्रिया ।
हिरण्या राजती हैमी हेमाभरणभूषिता ॥ १२६ ॥

विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ।
महानिद्रा ८२० समुद्भूतिर्बलीन्द्रा सत्यदेवता ॥ १२७ ॥

दीर्घा ककुद्मिनी विद्या शान्तिदा शान्तिवर्द्धिनी ।
लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ॥ १२८ ॥

त्रिशक्तिजननी ८३० जन्या षडूर्मिपरिवर्जिता ।
स्वाहा च कर्मकरणी युगान्तदलनात्मिका ॥ १२९ ॥

सङ्कर्षणा जगद्धात्री कामयोनिः किरीटिनी ।
ऐन्द्री ८४० त्रैलोक्यनमिता वैष्णवी परमेश्वरी ॥ १३० ॥

प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ।
महोत्कटा हंसगतिः प्रचण्डा ८५० चण्डविक्रमा ॥ १३१ ॥

वृषावेशा वियन्मात्रा विन्ध्यपर्वतवासिनी ।
हिमवन्मेरुनिलया कैलासगिरिवासिनी ॥ १३२ ॥

चाणूरहन्त्री तनया नीतिज्ञा कामरूपिणी ८६० ।
वेदविद्या व्रतरता धर्मशीलानिलाशना ॥ १३३ ॥

अयोध्यानिलया वीरा महाकालसमुद्भवा ।
विद्याधरक्रिया सिद्धा विद्याधरनिराकृतिः ॥ १३४ ॥

आप्यायन्ती ८७० वहन्ती च पावनी पोषणी खिला ।
मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ॥ १३५ ॥

करीषिणी स्वधा वाणी ८८० वीणावादनतत्परा ।
सेविता सेविका सेवा सिनीवाली गरुत्मती ॥ १३६ ॥

अरुन्धती हिरण्याक्षी मणिदा श्रीवसुप्रदा ८९० ।
वसुमती वसोर्धारा वसुन्धरासमुद्भवा ॥ १३७ ॥

वरारोहा वरार्हा च वपुःसङ्गसमुद्भवा ।
श्रीफली श्रीमती श्रीशा श्रीनिवासा ९०० हरिप्रिया ॥ १३८ ॥

श्रीधरी श्रीकरी कम्पा श्रीधरा ईशवीरणी ।
अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया ९१० ॥ १३९ ॥

निहन्त्री दैत्यसिंहानां सिंहिका सिंहवाहिनी ।
सुसेना चन्द्रनिलया सुकीर्तिश्छिन्नसंशया ॥ १४० ॥

बलज्ञा बलदा वामा ९२० लेलिहानामृताश्रवा ।
नित्योदिता स्वयञ्ज्योतिरुत्सुकामृतजीविनी ॥ १४१ ॥

वज्रदंष्ट्रा वज्रजिह्वा वैदेही वज्रविग्रहा ९३० ।
मङ्गल्या मङ्गला माला मलिना मलहारिणी ॥ १४२ ॥

गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ।
सौदामिनी ९४० जनानन्दा भ्रुकुटीकुटिलानना ॥ १४३ ॥

कर्णिकारकरा कक्षा कंसप्राणापहारिणी ।
युगन्धरा युगावर्त्ता त्रिसन्ध्याहर्षवर्धिनी ॥ १४४ ॥

प्रत्यक्षदेवता ९५० दिव्या दिव्यगन्धा दिवापरा ।
शक्रासनगता शाक्री साध्वी नारी शवासना ॥ १४५ ॥

इष्टा विशिष्टा ९६० शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ।
शतरूपा शतावर्त्ता विनीता सुरभिः सुरा ॥ १४६ ॥

सुरेन्द्रमाता सुद्युम्ना ९७० सुषुम्ना सूर्यसंस्थिता ।
समीक्षा सत्प्रतिष्ठा च निर्वृत्तिर्ज्ञानपारगा ॥ १४७ ॥

धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ।
धर्माधर्मविनिर्मात्री ९८० धार्मिकाणां शिवप्रदा ॥ १४८ ॥

धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ।
धर्मान्तरा धर्ममध्या धर्मपूर्वी धनप्रिया ॥ १४९ ॥

धर्मोपदेशा ९९० धर्मात्मा धर्मलभ्या धराधरा ।
कपाली शाकलामूर्तिः कलाकलितविग्रहा ॥ १५० ॥

धर्मशक्तिविनिर्मुक्ता सर्वशक्त्याश्रया तथा ।
सर्वा सर्वेश्वरी १००० सूक्ष्मा सुसूक्ष्मज्ञानरूपिणी ॥ १५१ ॥

प्रधानपुरुषेशाना महापुरुषसाक्षिणी ।
सदाशिवा वियन्मूर्तिर्देवमूर्तिरमूर्तिका १००८ ॥ १५२ ॥

एवं नान्मां सहस्रेण तुष्टाव रघुनन्दनः ।
कृताञ्जलिपुटो भूत्वा सीतां हृष्टतनूरुहाम् ॥ १५३ ॥

भारद्वाज महाभाग यश्चैतस्तोत्रमद्भुतम् ।
श‍ृणुयाद्वा पठेद्वापि स याति परमं पदम् ॥ १५४ ॥

ब्रह्मक्षत्रियविड्योनिर्ब्रह्म प्राप्नोति शाश्वतम् ।
शूद्रः सद्गतिमाप्नोति धनधान्यविभूतयः ॥ १५४ ॥

भवन्ति स्तोत्रमहात्म्यादेतत्स्वस्त्ययनं महत् ।
मारीभये राजभये तथा चोराग्निजे भये ॥ १५६ ॥

व्याधीनां प्रभवे घोरे शत्रूत्थाने च सङ्कटे ।
अनावृष्टिभये विप्र सर्वशान्तिकरं परम् ॥ १५७ ॥

यद्यदिष्टतमं यस्य तत्सर्वं स्तोत्रतो भवेत् ।
यत्रैतत्पठ्यते सम्यक् सीतानामसहस्रकम् ॥ १५८ ॥

रामेण सहिता देवी तत्र तिष्ठत्यसंशयम् ।
महापापातिपापानि विलयं यान्ति सुव्रत ॥ १५९ ॥

॥ इति सीता सहस्रनाम स्तोत्रम संपूर्ण ॥

Sita Sahasranaam stotram
सीता सहस्रनाम स्तोत्रम

valmikiviracite adbhutaramayane pancavimsati sargantargatam

॥ sriramakrtam sitasahasranamastotram ॥

brahmano vacanam srutva ramah kamalalocanah ।
pronmilya sanakairaksi vepamano mahabhujah ॥

pranamya sirasa bhumau tejasa capi vihvalah ।
bhitah krtanjaliputah provaca paramesvarim ॥

ka tvam devi visalaksi sasaṅkavayavaṅkite ।
na jane tvam mahadevi yathavadbruhi prcchate ॥

ramasya vacanam srutva tatah sa paramesvari ।
vyajahara raghuvyaghram yoginamabhayaprada ॥

mam viddhi paramam saktim mahesvarasamasrayam ।
ananyamavyayamekam yam pasyanti mumuksavah ॥

aham vai sarvabhavanamatma sarvantara siva ।
sasvati sarvavijnana sarvamurtipravartika ॥

anantanantamahima samsararnavatarini ।
divyam dadami te caksuh pasya me padamaisvaram ॥

ityuktva viraramaisa ramo’pasyacca tatpadam ।
kotisuryapratikasam visvaktejonirakulam ॥

jvalavalisahasradhyam kalanalasatopamam ।
damstrakaralam durdharsam jatamandalamanditam ॥

trisulavarahastam ca ghorarupam bhayavaham ।
prasamyatsaumyavadanamanantaisvaryasamyutam ॥

candravayavalaksmadhyam candrakotisamaprabham ।
kiritinam gadahastam nupurairupasobhitam ॥

divyamalyambaradharam divyagandhanulepanam ।
saṅkhacakrakaram kamyam trinetram krttivasasam ॥

antahstham candabahyastham bahyabhyantaratahparam ।
sarvasaktimayam santam sarvakaram sanatanam ॥

brahmendropendrayogindrairidyamanapadambujam ।
sarvatah panipadam tatsarvato’ksisiromukham ॥

sarvamavrtya tisthantam dadarsa padamaisvaram ।
drstva ca tadrsam rupam divyam mahesvaram padam ॥

tathaiva ca samavistah sa ramo hrtamanasah ।
atmanyadhaya catmanamoṅkaram samanusmaran ॥

namnamastasahasrena tustava paramesvarim ।
Om̃ sitoma parama saktirananta niskalamala ॥

santa mahesvari caiva sasvati 10 paramaksara ।
acintya kevalananta sivatma paramatmika ॥

anadiravyaya suddha devatma 20 sarvagocara ।
ekanekavibhagastha mayatita sunirmala ॥ 19 ॥

mahamahesvari sakta mahadevi niranjana ।
kastha 30 sarvantarastha ca cicchaktiratilalasa ॥

janaki mithilananda raksasantavidhayini ।
ravanantarakari ramya ramavaksahsthalalaya ॥

uma sarvatmika 40 vidya jyotirupayutaksara ।
santih pratistha sarvesam nivrttiramrtaprada ॥

vyomamurtirvyomamayi vyomadhara’cyuta 51 lata ।
anadinidhana yosa karanatma kalakula ॥ 23 ॥

nandaprathamaja nabhiramrtasyantasamsraya ।
pranesvarapriya 60 matamahi mahisavahana ॥

pranesvari pranarupa pradhanapurusesvari ।
sarvasaktih kala kastha jyotsnendormahima”spada ॥

sarvakaryaniyantri ca sarvabhutesvaresvari ।
anadiravyaktaguna mahananda sanatani ॥

akasayoniryogastha sarvayogesvaresvari 80 ।
savasana citantahstha mahesi vrsavahana ॥

balika taruni vrddha vrddhamata jaratura ।
mahamaya 60 suduspura mulaprakrtirisvari ॥

samsarayonih sakala sarvasaktisamudbhava ।
samsarasara durvara durniriksya durasada 100 ॥

pranasaktih pranavidya yogini parama kala ।
mahavibhutirdurdharsa mulaprakrtisambhava ॥

anadyanantavibhava paratma puruso bali 110 ।
sargasthityantakarani sudurvacya duratyaya ॥

sabdayonissabdamayi nadakhya nadavigraha ।
pradhanapurusatita pradhanapurusatmika ॥

purani 120 cinmayi pumsamadih purusarupini ।
bhutantaratma kutastha mahapurusasamjnita ॥

janmamrtyujaratita sarvasaktisamanvita ।
vyapini canavacchinna 130 pradhana supravesini ॥

ksetrajna saktiravyaktalaksana malavarjita ।
anadimayasambhinna tritattva prakrtirgunah 140 ॥

mahamaya samutpanna tamasi paurusam dhruva ।
vyaktavyaktatmika krsna raktasuklaprasutika ॥

svakarya 150 karyajanani brahmasya brahmasamsraya ।
vyakta prathamaja brahmi mahati jnanarupini ॥

vairagyaisvaryadharmatma brahmamurtirhrdisthita । 161
jayada jitvari jaitri jayasrirjayasalini ॥

sukhada subhada satya subha 170 saṅksobhakarini ।
apam yonih svayambhutirmanasi tattvasambhava ॥

isvarani ca sarvani saṅkararddhasaririni ।
bhavani caiva rudrani 180 mahalaksmirathambika ॥

mahesvari samutpanna bhuktimuktiphalaprada ।
sarvesvari sarvavarna nitya muditamanasa ॥

brahmendropendranamita saṅkarecchanuvartini 190 ।
isvararddhasanagata raghuttamapativrata ॥

sakrdvibhavita sarva samudraparisosini ।
parvati himavatputri paramanandadayini ॥

gunadhya yogada 200 yogya jnanamurtirvikasini ।
savitri kamala laksmi sriranantorasi sthita ॥

sarojanilaya subhra yoganidra 210 sudarsana ।
sarasvati sarvavidya jagajjyestha sumaṅgala ॥

vasavi varada vacya kirtih sarvarthasadhika 220 ।
vagisvari sarvavidya mahavidya susobhana ॥

guhyavidya”tmavidya ca sarvavidya”tmabhavita ।
svaha visvambhari 230 siddhih svadha medha dhrtih srutih ॥

nabhih sunabhih sukrtirmadhavi naravahini 240 ।
puja vibhavari saumya bhagini bhogadayini ॥

sobha vamsakari lila manini paramesthini 250 ।

trailokyasundari ramya sundari kamacarini ॥

mahanubhavamadhyastha mahamahisamardini ।
padmamala papahara vicitramukutanana ॥

kanta 260 citrambaradhara divyabharanabhusita ।
hamsakhya vyomanilaya jagatsrstivivarddhini ॥

niryantra mantravahastha nandini bhadrakalika ।
adityavarna 270 kaumari mayuravaravahini ॥

vrsasanagata gauri mahakali surarcita ।
aditirniyata raudri padmagarbha 280 vivahana ॥

virupaksi lelihana mahasuravinasini ।
mahaphalanavadyaṅgi kamapura vibhavari ॥

kausiki karsini ratristridasarttivinasani ॥

virupa ca sarupa ca bhima moksapradayini ।
bhaktarttinasini bhavya 300 bhavabhavavinasini ॥

nirguna nityavibhava nihsara nirapatrapa ।
yasasvini samagitirbhavaṅganilayalaya ॥

diksa 310 vidyadhari dipta mahendravinipatini ।
sarvatisayini vidya sarvasaktipradayini ॥

sarvesvarapriya tarksi samudrantaravasini ।
akalaṅka niradhara 320 nityasiddha niramaya ॥

kamadhenurvedagarbha dhimati mohanasini ।
nihsaṅkalpa nirataṅka vinaya vinayaprada 320 ॥

jvalamalasahasradhya devadevi manonmani ।
urvi gurvi guruh srestha saguna sadgunatmika ॥

mahabhagavati 340 bhavya vasudevasamudbhava ।
mahendropendrabhagini bhaktigamyaparayana ॥

jnanajneya jaratita vedantavisaya gatih ।
daksina 350 dahana bahya sarvabhutanamaskrta ॥

yogamaya vibhavajna mahamoha mahiyasi ।
satya sarvasamudbhutirbrahmavrksasraya 360 matih ॥

bijaṅkurasamudbhutirmahasaktirmahamatih ।
khyatih pratijna citsamvinmahayogendrasayini ॥

vikrtih 370 saṅkari sastri gandharva yaksasevita ।
vaisvanari mahasala devasena guhapriya ॥

maharatri sivananda saci 380 duhsvapnanasini ।
pujyapujya jagaddhatri durvijneyasvarupini ॥

guhambika guhotpattirmahapitha marutsuta ।
havyavahantara 360 gargi havyavahasamudbhava ॥

jagadyonirjaganmata jaganmrtyurjaratiga ।
buddhirmata buddhimati purusantaravasini 400 ॥

tapasvini samadhistha trinetra divisamsthita ।
sarvendriyamanomata sarvabhutahrdisthita ॥

brahmani brhati 410 brahmi brahmabhuta bhayavani ॥

hiranyamayi maharatrih samsaraparivartika ।
sumalini surupa ca tarini bhavini 420 prabha ॥

unmilani sarvasaha sarvapratyayasaksini ।
tapini tapini visva bhogada dharini dhara 430 ॥

susaumya candravadana tandavasaktamanasa ।
sattvasuddhikari suddhirmalatrayavinasini ॥

jagatpriya jaganmurtistrimurtiramrtasraya 440 ।
nirasraya nirahara niraṅkusaranodbhabhava ॥

cakrahasta vicitraṅgi sragvini padmadharini ।
paraparavidhanajna mahapurusapurvaja ॥

vidyesvarapriya’vidya vidujjihva jitasrama । 453
vidyamayi sahasraksi sahasrasravanatmaja ॥

jvalini 460 sadmana vyapta taijasi padmarodhika ॥

mahadevasraya manya mahadevamanorama ।
vyomalaksmisca simhastha cekitanyamitaprabha 470 ॥

Sita Sahasranaam stotram

visvesvari vimanastha visoka sokanasini ।
anahata kundalini nalini padmavasini ॥

satananda satam kirtih 480 sarvabhutasayasthita ।
vagdevata brahmakala kalatita kalavati ॥

brahmarsirbrahmahrdaya brahavisnusivapriya ।
vyomasaktih kriyasaktirjanasaktih paragatih ॥ 492

ksobhika raudrika bhedya bhedabhedavivarjita ।
abhinna bhinnasamsthana vamsini vamsaharini 500 ॥

guhyasaktirgunatita sarvada sarvatomukhi ।
bhagini bhagavatpatnim sakala kalakarini ॥

sarvavitsarvatobhadra 510 guhyatita guhabalih ।
prakriya yogamata ca gandha visvesvaresvari ॥

kapila kapilakanta kanakabha kalantara 520 ।
punya puskarini bhoktri purandarapurahsara ॥

posani paramaisvaryabhutida bhutibhusana ।
pancabrahmasamutpattih paramatmat”mavigraha ॥

narmodaya 530 bhanumati yogijneya manojava ।
bijarupa rajorupa vasini yogarupini ॥

sumantra mantrini purna 540 hladini klesanasini ।
manoharirmanoraksi tapasi vedarupini ॥

vedasaktirvedamata vedavidyaprakasini ।
yogesvaresvari 550 mala mahasaktirmanomayi ॥

visvavastha viramuktirvidyunmala vihayasi ।
pivari surabhi vandya 560 nandini nandavallabha ॥

bharati paramananda paraparavibhedika ।
sarvapraharanopeta kamya kamesvaresvari ॥

acintyacintyamahima 570 durlekha kanakaprabha ।
kusmandi dhanaratnadhya sugandha gandhadayini ॥

trivikramapadodbhuta dhanuspanih sirohaya ।
sudurlabha 580 dhanadhyaksa dhanya piṅgalalocana ॥

bhrantih prabhavati diptih paṅkajayatalocana ।
adya hrtkamalodbhuta paramata 560 ranapriya ॥

satkriya girija nityasuddha puspanirantara ।
durga katyayani candi carcika santavigraha 600 ॥

hiranyavarna rajani jaganmantrapravartika ।
mandaradrinivasa ca sarada svarnamalini ॥

ratnamala ratnagarbha prthvi visvapramathini 610 ।
padmasana padmanibha nityatustamrtodbhava ॥

dhunvati dusprakampa ca suryamata drsadvati ।
mahendrabhagini maya 620 varenya varadarpita ॥

kalyani kamala rama pancabhutavaraprada ।
vacya varesvari nandya durjaya 630 duratikrama ॥

kalaratrirmahavega virabhadrahitapriya ।
bhadrakali jaganmata bhaktanam bhadradayini ॥

karala piṅgalakara namaveda 640 mahanada ।
tapasvini yasoda ca yathadhvaparivartini ॥

saṅkhini padmini saṅkhya saṅkhyayogapravartika ।
caitri samvatsara 650 rudra jagatsampuranindraja ॥

sumbharih khecari khastha kambugriva kalipriya ।
kharadhvaja khararudha 660 parardhya paramalini ॥

aisvaryaratnanilaya virakta garudasana ।
jayanti hrdguha ramya sattvavega ganagranih ॥

saṅkalpasiddha 670 samyastha sarvavijnanadayini ।
kalikalmasahantri ca guhyopanisaduttama ॥

nityadrstih smrtirvyaptih pustistustih 680 kriyavati ।
visvamaresvaresana bhuktirmuktih sivamrta ॥

lohita sarvamata ca bhisana vanamalini 690 ।
anantasayananadya naranarayanodbhava ॥

nrsimhi daityamathini saṅkhacakragadadhara ।
saṅkarsanasamutpattirambikopattasamsraya ॥

mahajvala mahamurtih 700 sumurtih sarvakamadhuk ।
suprabha sutaram gauri dharmakamarthamoksada ॥

bhrumadhyanilaya’purva pradhanapurusa bali ।
mahavibhutida 710 madhya sarojanayanasana ॥

astadasabhuja natya nilotpaladalaprabha ।
sarvasakta samarudha dharmadharmanuvarjita ॥

vairagyajnananirata niraloka 720 nirindriya ।
vicitragahana dhira sasvatasthanavasini ॥

sthanesvari nirananda trisulavaradharini ।
asesadevatamurtidevata paradevata 730 ॥

Sita Sahasranaam stotram

ganatmika gireh putri nisumbhavinipatini ।
avarna varnarahita nirvarna bijasambhava ॥

anantavarnananyastha saṅkari 740 santamanasa ।
agotra gomati goptri guhyarupa gunantara ॥

gosrirgavyapriya gauri ganesvaranamaskrta ।
satyamatra 750 satyasandha trisandhya sandhivarjita ॥

sarvavadasraya saṅkhya saṅkhyayogasamudbhava ।
asaṅkhyeyaprameyakhya sunya suddhakulodbhava 760 ॥

bindunadasamutpattih sambhuvama sasiprabha ।
visaṅga bhedarahita manojna madhusudani ॥

mahasrih srisamutpatti 770 stamahpare pratisthita ।
tritattvamata trividha susuksmapadasamsraya ॥

santyatita malatita nirvikara nirasraya ।
sivakhya citranilaya 780 sivajnanasvarupini ॥

daityadanavanirmatri kasyapi kalakarnika ।
sastrayonih kriyamurtiscaturvargapradarsika ॥

narayani navodbhuta kaumudi 760 liṅgadharini ।
kamuki lalita tara paraparavibhutida ॥

parantajatamahima vadava vamalocana ।
subhadra devaki 800 sita vedavedaṅgaparaga ॥

Sita Sahasranaam stotram

manasvini manyumata mahamanyusamudbhava ।
amrtyuramrtasvada puruhuta purupluta ॥

asocya 810 bhinnavisaya hiranyarajatapriya ।
hiranya rajati haimi hemabharanabhusita ॥

vibhrajamana durjneya jyotistomaphalaprada ।
mahanidra 820 samudbhutirbalindra satyadevata ॥

dirgha kakudmini vidya santida santivarddhini ।
laksmyadisaktijanani sakticakrapravartika ॥

trisaktijanani 830 janya sadurmiparivarjita ।
svaha ca karmakarani yugantadalanatmika ॥

saṅkarsana jagaddhatri kamayonih kiritini ।
aindri 840 trailokyanamita vaisnavi paramesvari ॥

pradyumnadayita danta yugmadrstistrilocana ।
mahotkata hamsagatih pracanda 850 candavikrama ॥

vrsavesa viyanmatra vindhyaparvatavasini ।
himavanmerunilaya kailasagirivasini ॥

Sita Sahasranaam stotram

canurahantri tanaya nitijna kamarupini 860 ।
vedavidya vratarata dharmasilanilasana ॥

ayodhyanilaya vira mahakalasamudbhava ।
vidyadharakriya siddha vidyadharanirakrtih ॥

apyayanti 870 vahanti ca pavani posani khila ।
matrka manmathodbhuta varija vahanapriya ॥

karisini svadha vani 880 vinavadanatatpara ।
sevita sevika seva sinivali garutmati ॥

arundhati hiranyaksi manida srivasuprada 890 ।
vasumati vasordhara vasundharasamudbhava ॥

vararoha vararha ca vapuhsaṅgasamudbhava ।
sriphali srimati srisa srinivasa 900 haripriya ॥

sridhari srikari kampa sridhara isavirani ।
anantadrstiraksudra dhatrisa dhanadapriya 910 ॥

Sita Sahasranaam stotram

nihantri daityasimhanam simhika simhavahini ।
susena candranilaya sukirtischinnasamsaya ॥

balajna balada vama 920 lelihanamrtasrava ।
nityodita svayanjyotirutsukamrtajivini ॥

vajradamstra vajrajihva vaidehi vajravigraha 930 ।
maṅgalya maṅgala mala malina malaharini ॥

gandharvi garudi candri kambalasvatarapriya ।
saudamini 940 janananda bhrukutikutilanana ॥

karnikarakara kaksa kamsapranapaharini ।
yugandhara yugavartta trisandhyaharsavardhini ॥

pratyaksadevata 950 divya divyagandha divapara ।
sakrasanagata sakri sadhvi nari savasana ॥

Sita Sahasranaam stotram

ista visista 960 sistesta sistasistaprapujita ।
satarupa satavartta vinita surabhih sura ॥

surendramata sudyumna 970 susumna suryasamsthita ।
samiksa satpratistha ca nirvrttirjnanaparaga ॥

dharmasastrarthakusala dharmajna dharmavahana ।
dharmadharmavinirmatri 980 dharmikanam sivaprada ॥

dharmasaktirdharmamayi vidharma visvadharmini ।
dharmantara dharmamadhya dharmapurvi dhanapriya ॥

dharmopadesa 990 dharmatma dharmalabhya dharadhara ।
kapali sakalamurtih kalakalitavigraha ॥

Sita Sahasranaam stotram

dharmasaktivinirmukta sarvasaktyasraya tatha ।
sarva sarvesvari 1000 suksma susuksmajnanarupini ॥

pradhanapurusesana mahapurusasaksini ।
sadasiva viyanmurtirdevamurtiramurtika 1008 ॥

evam nanmam sahasrena tustava raghunandanah ।
krtanjaliputo bhutva sitam hrstatanuruham ॥

bharadvaja mahabhaga yascaitastotramadbhutam ।
srnuyadva pathedvapi sa yati paramam padam ॥

brahmaksatriyavidyonirbrahma prapnoti sasvatam ।
sudrah sadgatimapnoti dhanadhanyavibhutayah ॥

bhavanti stotramahatmyadetatsvastyayanam mahat ।
maribhaye rajabhaye tatha coragnije bhaye ॥

vyadhinam prabhave ghore satrutthane ca saṅkate ।
anavrstibhaye vipra sarvasantikaram param ॥

yadyadistatamam yasya tatsarvam stotrato bhavet ।
yatraitatpathyate samyak sitanamasahasrakam ॥ 158 ॥

ramena sahita devi tatra tisthatyasamsayam ।
mahapapatipapani vilayam yanti suvrata ॥ 159 ॥

॥ Iti Sita Sahasranaam Stotram Sampurna ॥

Buy Religious Books