Shri Radha Kund Ashtakam
श्री राधा कुण्ड अष्टकम
श्री राधा कुण्ड अष्टकम हिंदी पाठ
Shri Radha Kund Ashtakam in Hindi
वृषभदनुजनाशात् नर्मधर्मोक्तिरङ्गैः, निखिलनिजतनूभिर्यत्स्वहस्तेन पूर्णम् ।
प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदैः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ १ ॥
व्रजभुवि मुरशत्रोः प्रेयसीनां निकामैः, असुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् ।
जनयति हृदि भूमौ स्नातुरुच्चैः प्रियं यत्, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ २ ॥
अघरिपुरपि यत्नादत्र देव्याः प्रसाद-, प्रसरकृतकटाक्षप्राप्तिकामः प्रकामम् ।
अनुसरति यदुच्चैः स्नानसेवानुबन्धैः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ३ ॥
व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं, व्रजमधुरकिशोरीमौलिरत्नप्रियेव ।
परिचितमपि नाम्ना यच्च तेनैव तस्याः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ४ ॥
अपि जन इह कश्चिद्यस्य सेवाप्रसादैः, प्रणयसुरलता स्यात्तस्य गोष्ठेन्द्रसूनोः ।
सपदि किल मदीशा दास्यपुष्पप्रशस्या, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ५ ॥
ततमधुरनिकुञ्जाः क्लृप्तनामान उच्चैः, निजपरिजनवर्गैः संविभज्याश्रितास्तैः ।
मधुकररुतरम्या यस्य राजन्ति काम्याः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ६ ॥
ततभुवि वरवेद्यं यस्य नर्मातिहृद्यं, मधुरमधुरवार्तां गोष्ठचन्द्रस्य भङ्ग्या ।
प्रथयितुमित ईशप्राणसख्यालिभिः सा, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ७ ॥
अनुदिनमतिरङ्गैः प्रेममत्तालिसङ्घैः, वरसरसिजगन्धैः हारिवारिप्रपूर्णे ।
विहरत इह यस्मन् दम्पती तौ प्रमत्तौ, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ८ ॥
॥ इति श्रीपरशुरामाष्टकं सम्पूर्णम् ॥