Shri Goraksha Sahasranaam Stotram, श्री गोरक्ष सहस्रनाम स्तोत्रम्

Shri Goraksha Sahasranaam Stotram
श्री गोरक्ष सहस्रनाम स्तोत्रम्

श्री गोरक्ष सहस्रनाम स्तोत्रम् हिंदी
Shri Goraksha Sahasranaam Stotram

गोसेवी गोरक्षनाथो गायत्रीधरसम्भवः ।
योगीन्द्रः सिद्धिदो गोप्ता योगिनाथो युगेश्वरः ॥ १ ॥

यतिश्च धार्मिको धीरो लङ्कानाथो दिगम्बरः ।
योगानन्दो योगचरो योगवेत्ता यतिप्रियः ॥ २ ॥

योगराशिर्योगगम्यो योगिराट् योगवित्तमः ।
योगमार्गयुतो याता ब्रह्मचारी बृहत्तपाः ॥ ३ ॥

शङ्करैकस्वरूपश्च शङ्करध्यानतत्परः ॥ ४ ॥

योगानन्दो योगधारी योगमायाप्रसेवकः ।
योगयुक्तो योगधीरो योगज्ञानसमन्वितः ॥ ५ ॥

योगचारो योगविद्यो युक्ताहारसमन्वितः ।
नागहारी नागरूपो नागमालो नगेश्वरः ॥ ६ ॥

नागधारी नागरूपी नानावर्णविभूषितः ।
नानावेषो नराकारो नानारूपो निरञ्जनः ॥ ७ ॥

आदिनाथो सोमनाथो सिद्धिनाथो महेश्वरः ।
नाथनाथो महानाथो सर्वनाथो नरेश्वरः ॥ ८ ॥

क्षेत्रनाथोऽजपानाथो बालनाथो गिराम्पतिः ।
गङ्गाधरः पात्रधरो भस्मभूषितविग्रह ॥ ९ ॥

मृगाजिनधरो मृगयो मृगाक्षो मृगवेषधृक् ।
मेघनादो मेघवर्णो महासत्त्वो महामनाः ॥ १० ॥

दिगीश्वरो दयाकारी दिव्याभरणभूषितः ।
दिगम्बरो दूरदर्शी दिव्यो दिव्यतमो दमः ॥ ११ ॥

जलनाथो जगन्नाथो गङ्गानाथो जनाधिपः ।
भूतनाथो विपन्नाथो कुनाथो भुवनेश्वरः ॥ १२ ॥

ज्ञपतिर्गोपिकाकान्तो गोपी गोपारिमर्दनः ।
गुप्तो गुरुर्गिरां नाथो प्राणायामपरायणः ॥ १३ ॥

यज्ञनाथो यज्ञरूपो नित्यानन्दो महायतिः ।
नियतात्मा महावीर्योद्युतिमान् धृतिमान् वशी ॥ १४ ॥

सिद्धनाथो वृद्धनाथो वृद्धो वृद्धगतिप्रियः ।
खेचरः खेचराध्यक्षो विद्यानन्दो गणाधिपः ॥ १५ ॥

विद्यापतिर्मन्त्रनाथो ध्याननाथो धनाधिपः ।
सर्वाराध्यः पूर्णनाथो द्युतिनाथो द्युतिप्रियः ॥ १६ ॥

सृष्टिकर्ता सृष्टिधर्ता जगत्प्रलयकारकः ।
भैरवो भैरवाकारो भयहर्ता भवापहा ॥ १७ ॥

सृष्टिनाथः स्थितेर्नाथो विश्वाराध्यो महामतिः ।
दिव्यनादो दिशानाथो दिव्यभोगसमन्वितः ॥ १८ ॥

अव्यक्तो वासुदेवश्च शतमूर्तिः सनातनः ।
पूर्णनाथः कान्तिनाथो सर्वेशं हृदयस्थितः ॥ १९ ॥

अङ्गनाथो रङ्गनाथो मङ्गलो मङ्गलेश्वरः ।
अम्बासेवी धैर्यनाथो वपुर्गोप्ता गुहाशयः ॥ २० ॥

अकारोऽनिधनोऽमर्त्यो साधुरात्मपरायणः ।
इकारस्त्विन्द्रनाथश्च यतिर्धन्यो धनेश्वरः ॥ २१ ॥

उकार ऊकारो नित्यो मायानाथो महातपाः ।
एकारस्त्वेक ऐकार एकमूर्तिस्त्रिलोचनः ॥ २२ ॥

ऋकारो लाकृतिर्लोकनाथो ॠसुतमर्दनः ।
ऌकारो ॡसुतो लाभो ललोप्ता लकरो ललः ॥ २३ ॥

खवर्णंः खर्वहस्तश्च खखनाथः खगेश्वरः ।
गौरीनाथो गिरांनाथो गर्गपूज्यो गणेश्वरः ॥ २४ ॥

गंनाथो गणनाथश्च गङ्गासेवी गुरुप्रियः ।
चकारश्चपतिश्चन्द्रश्चं चं शब्दश्चकृच्चरः ॥ २५ ॥

श्री गोरक्ष सहस्रनाम स्तोत्रम्

चोरनाथो दण्डनाथो देवनाथः शिवाकृतिः ।
चम्पानाथः सोमनाथो वृद्धिनाथो विभावसुः ॥ २६ ॥

चिरनाथः चारुरूपः कवीशः कवितापतिः ।
ऋद्धिनाथो विभानाथो विश्वव्यापी चराचरः ॥ २७ ॥

चारुश‍ृङ्गश्चारुनाथश्चित्रनाथश्चिरन्तपाः ।
शक्तिनाथो बुद्धिनाथश्छेत्ता सर्वगुणाश्रयः ॥ २८ ॥

जयाधीशो जयाधारो जयादाता सदाजयः ।
जपाधीशो जपाधारो जपदाता सदाजपः ॥ २९ ॥

शङ्खनाथः शङ्खनादः शङ्खरूपो जनेश्वरः ।
सोऽहं रूपश्च संसारी सुस्वरूपः सदासुखी ॥ ३० ॥

ओङ्कार इन्द्रनाथश्च इन्द्ररूपः शुभः सुधीः ।
जकारो जञ्जपकश्च झाकारो मृत्युजिन्मुनिः ॥ ३१ ॥

टङ्कारः टण्टनाथश्च टोकारो टोपतिष्टरः ।
ठकारो ठण्ठनाथश्च ठन्नाथः ठमयश्च ठ ॥ ३२ ॥

डमयो ढमयो नित्यो डवाद्यो डमरुप्रियः ।
वदप्रदाऽभयो भोगो भवो भीमो भयानकः ॥ ३३ ॥

दण्डधारी दण्डरूपो दण्डसिद्धो गुणाश्रयः ।
दण्डो दण्डमयो दम्यो दरूपो दमनो दमः ॥ ३४ ॥

णकारो नन्दनाथश्च बुधनाथो निरापदः ।
नन्दीभक्तो नमस्कारो सर्वलोकप्रियो नरः ३५ ॥

थकारो थकारः स्तुत्यो जुता जिष्णुर्जितो गतिः ।
थसेवी थन्थशब्दश्च थवासी जित्वरो जयः ॥ ३६ ॥

दानदो दानसिद्धो दः दयोः दीनप्रियोऽदमः ।
अदीनो दिव्यरूपश्च दिव्यो दिव्यासनो द्यूतिः ॥ ३७ ॥

दयालुर्दयितो दान्तोऽदूरो दूरेक्षणो दिनम् ।
दिव्यमाल्यो दिव्यभोगो दिव्यवस्त्रो दिवापतिः ॥ ३८ ॥

धकारो धनदाता च धनदो धर्मदोऽधनः ।
धनी धर्मधरो धीरो धराधीशो धराधरः ॥ ३९ ॥

धीमान् श्रीमान् धरधरो ध्वान्तनाथोऽधमोद्धरः ।
धर्मिष्ठो धार्मिको धुर्योधीरो धीरोगनाशनः ॥ ४० ॥

सिद्धान्तकृतच्छुद्धमतिः शुद्ध शुद्धैकरः कृती ।
अन्धकारहरो हर्षो हर्षवान् हर्षितप्रजः ॥ ४१ ॥

पाण्डुनाथः पीतवर्णः पाण्डुहा पन्नगासनः ।
प्रसन्नास्य प्रपन्नार्तिहरः परमपावनः ॥ ४२ ॥

फङ्कारः फूकारः पाता फणीन्द्रः फलसंस्थितः ।
फणीराजः फलाध्यक्षो फलदाता फली फलः ॥ ४३ ॥

बं बं प्रियो बकारश्च बामनो बारुणो वरः ।
वरदस्तु वराधिशो बालो बालप्रियो बलः ॥ ४४ ॥

वराहो वारुणीनाथो विद्वान् विद्वत्प्रियो बली ।
भवानीपूजको भौमो भद्राकारो भवान्तकः ॥ ४५ ॥

भद्रप्रियोऽर्भकानन्दो भवानीपतिसेवकः ।
भवप्रियो भवाधीशो भवो भव्यो भयापहा ॥ ४६ ॥

महादेवप्रियो मान्यो मननीयो महाशयः ।
महायोगी महाधीरो महासिद्धो महाश्रयः ॥ ४७ ॥

मनोगम्यो मनस्वी च महामोदमयो महः ।
मार्गप्रियो मार्गसेवी महात्मा मुदितोऽमलः ॥ ४८ ॥

मध्यनाथो महाकारो मकारो मखपूजितः ।
मखो मखकरो मोहो मोहनाशो मरुत्प्रियः ॥ ४९ ॥

यकारो यज्ञकर्ता च यमो यागो यमप्रियः ।
यशोधरो यशस्वी च यशोदाता यशःप्रियः ॥ ५० ॥

श्री गोरक्ष सहस्रनाम स्तोत्रम्

नमस्कारप्रियोनाथो नरनाथो निरामयः ।
नित्ययोगरतो नित्यो नन्दिनाथो नरोत्तमः ॥ ५१ ॥

रमणो रामनाथश्च रामभद्रो रमापतिः ।
रांरांरवो रामरामो रामराधनतत्परः ॥ ५२ ॥

राजीवलोचनो रम्यो रागवेत्ता रतीश्वरः ।
राजधर्मप्रियो राजनीतितत्त्वविशारदः ॥ ५३ ॥

रञ्जको रणमूर्तिश्च राज्यभोगप्रदः प्रभुः ।
रमाप्रियो रमादाता रमाभाग्यविवर्धनः ॥ ५४ ॥

रक्तचन्दनलिप्ताङ्गो रक्तगन्घानुलेपनः ।
रक्तवस्त्रविलासी च रक्तभक्तफलप्रदः ॥ ५५ ॥

अतीन्द्रियो विश्वयोनिरमेयात्मा पुनर्वसुः ।
सत्यधर्मो बृहद्रूपो नैकरूपो महीधरः ॥ ५६ ॥

अदृश्योऽव्यक्तरूपश्च विश्वबाहुः प्रतिष्ठितः ।
अतुलो वरदस्तार परर्द्धिस्तु शुभेक्षणः ॥ ५७ ॥

हिरण्यगर्भः प्रणयो धर्मो धर्मविदुत्तमः ।
वत्सलो वीरहा सिंहः स्ववशो भूरिदक्षिणः ॥ ५८ ॥

गङ्गाधर गुरुर्गेयो गतरागो गतस्मयः ।
सिद्धगीतः सिद्धकथो गुणपात्रो गुणाकरः ॥ ५९ ॥

दृष्टः श्रुतो भवद्भूतः समबुद्धिः समप्रभः ।
महावायुर्महावीरो महाभूतस्तनुस्थितः ॥ ६० ॥

नक्षत्रेशः सुधानाथो धवः कल्पान्त भैरवः ।
सुधन्वा सर्वदृग् द्रष्टा वाचस्पतिरयोनिजः ॥ ६१ ॥

शुभाङ्ग श्रीकरः श्रेयः सत्कीर्तिः शाश्वतः स्थिरः ।
विशोकः शोकहा शान्तः कामपालः कलानिधिः ॥ ६२ ॥

विशुद्धात्मा महायज्ञा ब्रह्मज्ञो ब्राह्मणप्रियः ।
पूर्णः पूर्णकरः स्तोता स्तुतिः स्तव्यो मनोजवः ॥ ६३ ॥

ब्रह्मण्यो ब्राह्मणो ब्रह्म सद्भूतिः सत्पराक्रमः ।
प्रकृतिः पुरुषो भोक्ता सुखदः शिशिरः शमः ॥ ६४ ॥

सत्त्वं रजस्तमः सोमो सोमपाः सौम्यदर्शनः ।
त्रिगुणस्त्रिगुणातीतो त्रयीरूपस्त्रिलोकपः ॥ ६५ ॥

दक्षिणः पेशलः स्वास्यो दुर्गो दुःस्वप्ननाशनः ।
जितमन्युर्गम्भीरात्मा प्राणभृत् व्यादिशो दिशः ॥ ६६ ॥

मुकुटी कुण्डली दण्डी कटकी कनकाङ्गदी ।
अहः संवत्सरः कालः ज्ञापको व्यापकः कविः ॥ ६७ ॥

भूर्भुवः स्वः स्वरूपश्च आश्रमः श्रमणः क्षमो ।
क्षमायुक्तो क्षयः क्षान्तः कृशः स्थूलो निरन्तरः ॥ ६८ ॥

सर्वगः सर्ववित् सर्वः सुरेशश्च सुरोत्तमः ।
समात्मा संमितः सत्यः सुपर्वा शुचिरच्युतः ॥ ६९ ॥

सर्वादिः शर्मकृच्छान्तो शरण्यः यशरणार्तिहा ।
शुभलक्षणयुक्ताङ्गः शुभाङ्गः शुभदर्शनः ॥ ७० ॥

पावकः पावनो पूतो महाकालो महापहा ।
लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ॥ ७१ ॥

कपालमालाभरणः कपाली विष्णुवल्लभः ।
कालाधीशः कालकर्ता दुष्टावग्रहकारकः ॥ ७२ ॥

नाट्यकर्ता नटवरो नाट्यशास्त्रविशारदः ।
अतिरागो रागहेतुर्वीतरागो विरागवित् ॥ ७३ ॥

वसन्तकृद् वसन्तात्मा वसन्तेशो वसन्तदः ।
जीवाध्यक्षो जीवरूपो जीवो जीवप्रदः सदा ॥ ७४ ॥

जीवबन्धहरो जीवजीवनम् जीव संश्रयः ।
वज्रात्मावज्रहस्तश्च सुपर्णः सुप्रतापवान् ॥ ७५ ॥

श्री गोरक्ष सहस्रनाम स्तोत्रम्

रुद्राक्षमालाभरणो भुजङ्गाभरणप्रियः ।
रुद्राक्षवक्षा रुद्राक्षशिरः रुद्राक्षभक्षकः ॥ ७६ ॥

भुजङ्गेन्द्रलसत्कण्ठो भुजङ्गवलयावृतः ।
भुजङ्गेन्द्रलसत्कर्णो भुजङ्गकृतभूषणः ॥ ७७ ॥

उग्रोऽनुग्रो भीमकर्मा भोगी भीमपराक्रमः ।
मेध्मोऽवध्योऽमोधशक्तिर्निर्द्वन्दोऽमोधविक्रमः ॥ ७८ ॥

कल्प्योऽकल्प्यो निराकल्पो विकल्पः कल्पनाशनः ।
कल्पाकृतिः कल्पकर्ता कल्पान्तः कल्परक्षकः ॥ ७९ ॥

सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ।
लाभात्मा लाभदो लाभो लोकबन्धुस्त्रयीतनुः ॥ ८० ॥

भूशयोऽन्नमयो भूकृन्कमनीयो महीतनुः ।
विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ ८१ ॥

दयासुधार्द्रनयनो निराशीरपरिग्रहः ।
पदार्थवृत्ति राशास्यो मायावी मूकनाशनः ॥ ८२ ॥

हितैषी हितकृत् युग्यो परार्थैकप्रयोजनः ।
कर्पूरगौर परदो जटा मण्डलमण्डितः ॥ ८३ ॥

निष्प्रपञ्ची निराधारो सत्वेशो सत्त्ववित् सदः ।
समस्तजगदाधारो स्मस्तानन्दकारणः ॥ ८४ ॥

मुनिवन्द्यो वीरभद्रो मुनिवृन्दनिशेवितः ।
मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः ॥ ८५ ॥

उच्चैर्घोषो घोषरूपः पत्तीशः पापमोचनः ।
ओषधीशो गिरिशयः कृत्स्नवीतः शुचिस्मितः ॥ ८६ ॥

अरण्येशो परिचरो मन्त्रात्मा मन्त्रवित्तमः ।
प्रलयानलकृत् पुष्टः सोमसूर्याग्निलोचनः ॥ ८७ ॥

अक्षोभ्यः क्षोभरहितो भस्मोद्धूलितविग्रहः ।
शार्दूलचर्मवसनः सामगः सामगप्रियः ॥ ८८ ॥

कैलाशशिखरावासो स्वर्णकेश सुवर्णदृक ।
स्वतन्त्र सर्वतन्त्रात्मा प्रणतार्तिपभञ्जनः ॥ ८९ ॥

निकटस्थोऽतिदूरस्थो महोत्साहो महोदयः ।
ब्रह्मचारी दृढाचारी सदाचारी सनातनः ॥ ९० ॥

अपधृष्यः पिङ्गलाक्ष्यः सर्वधर्मफलप्रदः ।
अविद्या रहितो विद्यासंश्रयः क्षेत्रपालकः ॥ ९१ ॥

गजारिः करुणासिन्धुः शत्रुघ्नः शत्रुपातनः ।
कमठो भार्गवः कल्कि ऋर्षभः कपिलो भवः ॥ ९२ ॥

शून्य शून्यमयः शून्यजन्मा शून्यलयोऽलयः ।
शून्याकारः शून्यदेवो प्रकाशात्मा निरीश्वरः ॥ ९३ ॥

गोराजो गोगणोपेतो गोदेवो गोपतिप्रियः ।
गवीश्वरो गवा दाता गोरक्षकारको गिरिः ॥ ९४ ॥

चेतनश्चेतनाध्यक्षो महाकाशो निरापदः ।
जडो जडगतो जाड्यनाशनो जडतापहा ॥ ९५ ॥

रामप्रियो लक्ष्मणाढ्यो वितस्तानन्ददायकः ।
काशीवासप्रियो रङ्गो लोकरञ्जनकारकः ॥ ९६ ॥

निर्वेदकारी निर्विण्णो महनीयो महाधनः ।
योगिनीवल्लभो भर्ता भक्तकल्पतरूर्ग्रहीः ॥ ९७ ॥

ऋषभो गौतमः स्त्रग्वी बुद्धो बुद्धिमत्तां गुरुः ।
नीरूपो निर्ममोऽक्रूरो निराग्रहः ॥ ९८ ॥

निर्दम्भो नीरसो नीलो नायको नायकोत्तमः ।
निर्वाणनायको नित्यस्थितो निर्णयकारकः ॥ ९९ ॥

भाविको भावुको भावो भवात्मा भवमोचनः ।
भव्यदाता भवत्राता भगवान् भूतिमान भवः ॥ १०० ॥

श्री गोरक्ष सहस्रनाम स्तोत्रम्

प्रेमी प्रियः प्रेमकरः प्रेमात्माः प्रेमवित्तमः ।
फुल्लारविन्दनयनो नयात्मा नीतिमान् नयी ॥ १०१ ॥

परंतेजः परंधाम परमेष्ठी पुरातनः ।
पुष्करः पुष्कराध्यक्षः पुष्करक्षेत्रसंस्थितः ॥ १०२ ॥

प्रत्यगात्माऽप्रतर्क्यस्तु राजमान्यो जगत्पतिः ।
पुण्यात्मा पुण्यकृत पुण्यप्रियः पुण्यवदाश्रितः ॥ १०३ ॥

वायुदो वायुसेवी च वाताहारो विमत्सरः ।
बिल्वप्रियो बिल्वधारी बिल्वमाल्यो लयाश्रयः ॥ १०४ ॥

बिल्वभक्तो बिल्वनाथो बिल्वभक्तिप्रियो वशी ।
शम्भुमन्त्रधरः शम्भुयोगः शम्भुप्रियो हरः ॥ १०५ ॥

स्कन्दप्रियो निरास्कन्दो सुखयोगः सुखासनः ।
क्षमाप्रियः क्षमादाता क्षमाशीलो निरक्षमः ॥ १०६ ॥

ज्ञानज्ञो ज्ञानदो ज्ञानो ज्ञानगम्यः क्षमापतिः ।
क्षमाचारस्तत्त्वदर्शी तन्त्रज्ञस्तन्त्रकारकः ॥ १०७ ॥

तन्त्रसाधन तत्त्वज्ञस्तन्त्रमार्गप्रवर्तकः ।
तन्त्रात्मा बालतन्त्रज्ञो यन्त्रमन्त्रफलप्रदः ॥ १०८ ॥

गोरसो गोरसाधीशो गोसिद्धा गोमतीप्रियः ।
गोरक्षकारको गोमी गोराङ्गोपपिर्गुरुः ॥ १०९ ॥

सम्पूर्णकामः सर्वेष्ठ दाता सर्वात्मकः शमी ।
शुद्धोऽरुद्धोऽविरुद्धश्च प्रबुद्धः सिद्धसेवितः ॥ ११० ॥

धर्मो धर्मविदां श्रेष्ठो धर्मज्ञो धर्मधारकः ।
धर्मसेतुर्धर्मराजो धर्ममार्गप्रवर्तकः ॥ १११ ॥

धर्माचार्यो धर्मकर्ता धर्म्यो धर्मविदग्रणीः ।
धर्मात्मा धर्ममर्मज्ञो धर्मशास्त्रविशारदः ॥ ११२ ॥

कर्ता धर्ता जगद्भर्ताऽपहर्तासुर रक्षसाम् ।
वेत्ता छेत्ता भवापत्तेर्भेंता पापस्य पुण्यकृत् ॥ ११३ ॥

गुणवान् गुणस्मपन्नो गुण्यो गण्यो गुणप्रियः ।
गुणज्ञो गुणसम्पूज्यो गुणानन्दितमानसः ॥ ११४ ॥

गुणाधारो गुणाधीशो गुणिगीतो गुणिप्रियः ।
गुणाकारो गुणश्रेष्ठो गुणदाता गुणोज्वलः ॥ ११५ ॥

गर्गप्रियो गर्गदेवो गर्गदेवनमस्कृतः ।
गर्गनन्दकरो गर्ग गीतो गर्गवरप्रदः ॥ ११६ ॥

वेदवेद्यो वेदविदो वेदवन्द्यो विदाम्पतिः ।
वेदान्तवेद्यो वेदान्तकर्ता वेदान्तपारगः ॥ ११७ ॥

हिरण्यरेता हुतभुक् हिमवर्णो हिमालयः ।
हयग्रीवो हिरण्यस्त्रक् हयनाथो हिरण्यमयः ॥ ११८ ॥

शक्तिमान् शक्तिदाता च शक्तिनाथः सुशक्तिकः ।
शक्तिऽशक्तः शक्तिसाध्य शक्तिहृत् शक्तिकारणम् ॥ ११९ ॥

सर्वाशास्यगुणोपेतः सर्व सौभाग्यदायकः ।
त्रिपुण्ड्रधारी संन्यासी गजचर्मपरिवृतः ॥ १२० ॥

गजासुरविमर्दी च भूतवैतालशोभितः ।
श्मशानारण्यसंवासी कर्परालङ्कृतः शिवः ॥ १२१ ॥

कर्मसाक्षी कर्मकर्ता कर्मा कर्मफलप्रदः ।
कर्मण्यः कर्मदः कर्मी कर्महा कर्मकृद् गुरुः ॥ १२२ ॥

गोसङ्कष्टसन्त्राता गोसन्तापनिवर्तकः ।
गोवर्धनो गवांदाता गोसौभाग्यविवर्धनः ॥ १२३ ॥

इदं गोरक्षनाथस्य स्तोत्रमुक्तम् मया प्रभो ।
नाम्नां सहस्रमेतद्धि गुह्याद्गुह्यतमं परम् ॥ १२४ ॥

एतस्य पठनं नित्यं सर्वाभीष्टप्रदं नृणाम् ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ १२५ ॥

श्री गोरक्ष सहस्रनाम स्तोत्रम्

पुत्रार्थी लभते पुत्रान् मोक्षार्थी मुक्तिमाप्नुयात् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ १२६ ॥

राज्यार्थी लभते राज्यं योगार्थी योगवान् भवेत् ।
भोगार्थी लभते भोगान् गोरक्षस्य प्रसादतः ॥ १२७ ॥

अरण्ये विषमे घेरे शत्रुभिः परिवेष्टितः ।
सहस्रनाम पठनान्नरो मुच्येत् तत्क्षणम् ॥ १२८ ॥

राजद्वारे महामारी रोगे च भयदे नृणाम् ।
सर्वेष्वपि च रोगेषु गोरक्ष स्मरणं हितम् ॥ १२९ ॥

नाम्नां सहस्रं यत्रस्याद् गृहे गृहवतां शुभम् ।
धनधान्यादिकं तत्र पुत्रपौत्रादिकं तथा ॥ १३० ॥।

आरोग्यं पशुवृद्धिश्च शुभकर्माणि भूरिशः ।
न भयं तत्र रोगाणां सत्यं सत्यं वदाम्यहम् ॥ १३१ ॥

सहस्रनाम श्रवणात् पठनाच्च भवेद् ध्रुवम् ।
कन्यादान सहस्रस्य वाजपेय शतस्य च ॥ १३२ ॥

गवां कोटि प्रदानस्य ज्योतिष्टोमस्य यत् फलम् ।
दशाश्वमेध यज्ञस्य फलं प्राप्नोति मानवः ॥ १३३ ॥

सहस्रनामस्तोत्रस्य पुस्तकानि ददाति तः ।
ब्राह्मणेभ्यस्तु सम्पूज्य तस्य लक्ष्मी स्थिरो भवेत् ॥ १३४ ॥

लभते राजसम्मानं व्यापारस्य फलं लभेत् ।
प्राप्नुयाच्च गतां लक्ष्मी सर्वज्ञविजयी भवेत् ॥ १३५ ॥

चतुर्दश्यां प्रदोषे च शिवं गोरक्ष संज्ञितम् ।
पूजयेद्विविधाचारैर्गन्धपूष्पादिभिर्नरः ॥ १३६ ॥

संस्थाप्य पार्थिवं लिङ्गं गोरक्ष जगद्गुरोः ।
भक्तया समर्चयेन् नित्यं साधकः शुद्ध मानसः ॥ १३७ ॥

स्तोत्रपाठं प्रकुर्वीत कारयेद् ब्राह्मणैस्तथा ।
सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ १३८ ॥

ध्यायेदन्ते महेशानं पूजयित्वा यथाविधि ।
ब्राह्मणान् पूजयेत्तत्र धनवस्त्रादिभिः शुभैः ॥ १३९ ॥

यस्मादुद्भवती दमद्भ त तमं येनैव तत्पाल्यते यस्मिन् विश्वमिदं चराचरमयं संलोयते सर्वथा ।
ब्रह्माविष्णुशिवादयोऽपि न पर पारं गता यस्य ते गोरक्षप्रभवं परात्परतरं शून्यं परं धीमहि ॥ १४० ॥

॥ इति श्रीकल्पद्रुमतन्त्रे महासिद्धिसारे महर्षि गर्गप्रोक्तं निरञ्जनात्मकं श्री गोरक्ष सहस्रनाम स्तोत्रम् सम्पूर्णम् ॥

Shri Goraksha Sahasranaam Stotram
श्री गोरक्ष सहस्रनाम स्तोत्रम्

gosevi goraksanatho gayatridharasambhavah ।
yogindrah siddhido gopta yoginatho yugesvarah ॥ 1 ॥

yatisca dharmiko dhiro lankanatho digambarah ।
yoganando yogacaro yogavetta yatipriyah ॥ 2 ॥

yogarasiryogagamyo yogirat yogavittamah ।
yogamargayuto yata brahmacari brhattapah ॥ 3 ॥

sankaraikasvarupasca sankaradhyanatatparah ॥ 4 ॥

yoganando yogadhari yogamayaprasevakah ।
yogayukto yogadhiro yogajnanasamanvitah ॥ 5 ॥

yogacaro yogavidyo yuktaharasamanvitah ।
nagahari nagarupo nagamalo nagesvarah ॥ 6 ॥

nagadhari nagarupi nanavarnavibhusitah ।
nanaveso narakaro nanarupo niranjanah ॥ 7 ॥

adinatho somanatho siddhinatho mahesvarah ।
nathanatho mahanatho sarvanatho naresvarah ॥ 8 ॥

ksetranatho’japanatho balanatho girampatih ।
gangadharah patradharo bhasmabhusitavigraha ॥ 9 ॥

mrgajinadharo mrgayo mrgakso mrgavesadhrk ।
meghanado meghavarno mahasattvo mahamanah ॥ 10 ॥

digisvaro dayakari divyabharanabhusitah ।
digambaro duradarsi divyo divyatamo damah ॥ 11 ॥

jalanatho jagannatho ganganatho janadhipah ।
bhutanatho vipannatho kunatho bhuvanesvarah ॥ 12 ॥

jnapatirgopikakanto gopi goparimardanah ।
gupto gururgiram natho pranayamaparayanah ॥ 13 ॥

yajnanatho yajnarupo nityanando mahayatih ।
niyatatma mahaviryodyutiman dhrtiman vasi ॥ 14 ॥

siddhanatho vrddhanatho vrddho vrddhagatipriyah ।
khecarah khecaradhyakso vidyanando ganadhipah ॥ 15 ॥

vidyapatirmantranatho dhyananatho dhanadhipah ।
sarvaradhyah purnanatho dyutinatho dyutipriyah ॥ 16 ॥

srstikarta srstidharta jagatpralayakarakah ।
bhairavo bhairavakaro bhayaharta bhavapaha ॥ 17 ॥

srstinathah sthiternatho visvaradhyo mahamatih ।
divyanado disanatho divyabhogasamanvitah ॥ 18 ॥

avyakto vasudevasca satamurtih sanatanah ।
purnanathah kantinatho sarvesam hrdayasthitah ॥ 19 ॥

anganatho ranganatho mangalo mangalesvarah ।
ambasevi dhairyanatho vapurgopta guhasayah ॥ 20 ॥

akaro’nidhano’martyo sadhuratmaparayanah ।
ikarastvindranathasca yatirdhanyo dhanesvarah ॥ 21 ॥

ukara ukaro nityo mayanatho mahatapah ।
ekarastveka aikara ekamurtistrilocanah ॥ 22 ॥

rkaro lakrtirlokanatho ṝsutamardanah ।
ḷkaro ḹsuto labho lalopta lakaro lalah ॥ 23 ॥

khavarnamh kharvahastasca khakhanathah khagesvarah ।
gaurinatho giramnatho gargapujyo ganesvarah ॥ 24 ॥

gamnatho gananathasca gangasevi gurupriyah ।
cakarascapatiscandrascam cam sabdascakrccarah ॥ 25 ॥

Shri Goraksha Sahasranaam Stotram

coranatho danḍanatho devanathah sivakrtih ।
campanathah somanatho vrddhinatho vibhavasuh ॥ 26 ॥

ciranathah carurupah kavisah kavitapatih ।
rddhinatho vibhanatho visvavyapi caracarah ॥ 27 ॥

carusrngascarunathascitranathascirantapah ।
saktinatho buddhinathaschetta sarvagunasrayah ॥ 28 ॥

jayadhiso jayadharo jayadata sadajayah ।
japadhiso japadharo japadata sadajapah ॥ 29 ॥

sankhanathah sankhanadah sankharupo janesvarah ।
so’ham rupasca samsari susvarupah sadasukhi ॥ 30 ॥

onkara indranathasca indrarupah subhah sudhih ।
jakaro janjapakasca jhakaro mrtyujinmunih ॥ 31 ॥

tankarah tantanathasca tokaro topatistarah ।
thakaro thanthanathasca thannathah thamayasca tha ॥ 32 ॥

ḍamayo ḍhamayo nityo ḍavadyo ḍamarupriyah ।
vadaprada’bhayo bhogo bhavo bhimo bhayanakah ॥ 33 ॥

danḍadhari danḍarupo danḍasiddho gunasrayah ।
danḍo danḍamayo damyo darupo damano damah ॥ 34 ॥

nakaro nandanathasca budhanatho nirapadah ।
nandibhakto namaskaro sarvalokapriyo narah 35 ॥

thakaro thakarah stutyo juta jisnurjito gatih ।
thasevi thanthasabdasca thavasi jitvaro jayah ॥ 36 ॥

danado danasiddho dah dayoh dinapriyo’damah ।
adino divyarupasca divyo divyasano dyutih ॥ 37 ॥

dayalurdayito danto’duro dureksano dinam ।
divyamalyo divyabhogo divyavastro divapatih ॥ 38 ॥

dhakaro dhanadata ca dhanado dharmado’dhanah ।
dhani dharmadharo dhiro dharadhiso dharadharah ॥ 39 ॥

dhiman sriman dharadharo dhvantanatho’dhamoddharah ।
dharmistho dharmiko dhuryodhiro dhiroganasanah ॥ 40 ॥

siddhantakrtacchuddhamatih suddha suddhaikarah krti ।
andhakaraharo harso harsavan harsitaprajah ॥ 41 ॥

panḍunathah pitavarnah panḍuha pannagasanah ।
prasannasya prapannartiharah paramapavanah ॥ 42 ॥

phankarah phukarah pata phanindrah phalasamsthitah ।
phanirajah phaladhyakso phaladata phali phalah ॥ 43 ॥

bam bam priyo bakarasca bamano baruno varah ।
varadastu varadhiso balo balapriyo balah ॥ 44 ॥

varaho varuninatho vidvan vidvatpriyo bali ।
bhavanipujako bhaumo bhadrakaro bhavantakah ॥ 45 ॥

bhadrapriyo’rbhakanando bhavanipatisevakah ।
bhavapriyo bhavadhiso bhavo bhavyo bhayapaha ॥ 46 ॥

mahadevapriyo manyo mananiyo mahasayah ।
mahayogi mahadhiro mahasiddho mahasrayah ॥ 47 ॥

manogamyo manasvi ca mahamodamayo mahah ।
margapriyo margasevi mahatma mudito’malah ॥ 48 ॥

madhyanatho mahakaro makaro makhapujitah ।
makho makhakaro moho mohanaso marutpriyah ॥ 49 ॥

yakaro yajnakarta ca yamo yago yamapriyah ।
yasodharo yasasvi ca yasodata yasahpriyah ॥ 50 ॥

Shri Goraksha Sahasranaam Stotram

namaskarapriyonatho naranatho niramayah ।
nityayogarato nityo nandinatho narottamah ॥ 51 ॥

ramano ramanathasca ramabhadro ramapatih ।
ramramravo ramaramo ramaradhanatatparah ॥ 52 ॥

rajivalocano ramyo ragavetta ratisvarah ।
rajadharmapriyo rajanititattvavisaradah ॥ 53 ॥

ranjako ranamurtisca rajyabhogapradah prabhuh ।
ramapriyo ramadata ramabhagyavivardhanah ॥ 54 ॥

raktacandanaliptango raktaganghanulepanah ।
raktavastravilasi ca raktabhaktaphalapradah ॥ 55 ॥

atindriyo visvayonirameyatma punarvasuh ।
satyadharmo brhadrupo naikarupo mahidharah ॥ 56 ॥

adrsyo’vyaktarupasca visvabahuh pratisthitah ।
atulo varadastara pararddhistu subheksanah ॥ 57 ॥

hiranyagarbhah pranayo dharmo dharmaviduttamah ।
vatsalo viraha simhah svavaso bhuridaksinah ॥ 58 ॥

gangadhara gururgeyo gatarago gatasmayah ।
siddhagitah siddhakatho gunapatro gunakarah ॥ 59 ॥

drstah sruto bhavadbhutah samabuddhih samaprabhah ।
mahavayurmahaviro mahabhutastanusthitah ॥ 60 ॥

naksatresah sudhanatho dhavah kalpanta bhairavah ।
sudhanva sarvadrg drasta vacaspatirayonijah ॥ 61 ॥

subhanga srikarah sreyah satkirtih sasvatah sthirah ।
visokah sokaha santah kamapalah kalanidhih ॥ 62 ॥

visuddhatma mahayajna brahmajno brahmanapriyah ।
purnah purnakarah stota stutih stavyo manojavah ॥ 63 ॥

brahmanyo brahmano brahma sadbhutih satparakramah ।
prakrtih puruso bhokta sukhadah sisirah samah ॥ 64 ॥

sattvam rajastamah somo somapah saumyadarsanah ।
trigunastrigunatito trayirupastrilokapah ॥ 65 ॥

daksinah pesalah svasyo durgo duhsvapnanasanah ।
jitamanyurgambhiratma pranabhrt vyadiso disah ॥ 66 ॥

mukuti kunḍali danḍi kataki kanakangadi ।
ahah samvatsarah kalah jnapako vyapakah kavih ॥ 67 ॥

bhurbhuvah svah svarupasca asramah sramanah ksamo ।
ksamayukto ksayah ksantah krsah sthulo nirantarah ॥ 68 ॥

sarvagah sarvavit sarvah suresasca surottamah ।
samatma sammitah satyah suparva suciracyutah ॥ 69 ॥

sarvadih sarmakrcchanto saranyah yasaranartiha ।
subhalaksanayuktangah subhangah subhadarsanah ॥ 70 ॥

pavakah pavano puto mahakalo mahapaha ।
lingamurtiralingatma lingalingatmavigrahah ॥ 71 ॥

kapalamalabharanah kapali visnuvallabhah ।
kaladhisah kalakarta dustavagrahakarakah ॥ 72 ॥

natyakarta natavaro natyasastravisaradah ।
atirago ragaheturvitarago viragavit ॥ 73 ॥

vasantakrd vasantatma vasanteso vasantadah ।
jivadhyakso jivarupo jivo jivapradah sada ॥ 74 ॥

jivabandhaharo jivajivanam jiva samsrayah ।
vajratmavajrahastasca suparnah supratapavan ॥ 75 ॥

Shri Goraksha Sahasranaam Stotram

rudraksamalabharano bhujangabharanapriyah ।
rudraksavaksa rudraksasirah rudraksabhaksakah ॥ 76 ॥

bhujangendralasatkantho bhujangavalayavrtah ।
bhujangendralasatkarno bhujangakrtabhusanah ॥ 77 ॥

ugro’nugro bhimakarma bhogi bhimaparakramah ।
medhmo’vadhyo’modhasaktirnirdvando’modhavikramah ॥ 78 ॥

kalpyo’kalpyo nirakalpo vikalpah kalpanasanah ।
kalpakrtih kalpakarta kalpantah kalparaksakah ॥ 79 ॥

sulabho’sulabho labhyo’labhyo labhapravardhakah ।
labhatma labhado labho lokabandhustrayitanuh ॥ 80 ॥

bhusayo’nnamayo bhukrnkamaniyo mahitanuh ।
vijnanamaya anandamayah pranamayo’nnadah ॥ 81 ॥

dayasudhardranayano nirasiraparigrahah ।
padarthavrtti rasasyo mayavi mukanasanah ॥ 82 ॥

hitaisi hitakrt yugyo pararthaikaprayojanah ।
karpuragaura parado jata manḍalamanḍitah ॥ 83 ॥

nisprapanci niradharo satveso sattvavit sadah ।
samastajagadadharo smastanandakaranah ॥ 84 ॥

munivandyo virabhadro munivrndanisevitah ।
munihrtpunḍarikastho munisanghaikajivanah ॥ 85 ॥

uccairghoso ghosarupah pattisah papamocanah ।
osadhiso girisayah krtsnavitah sucismitah ॥ 86 ॥

aranyeso paricaro mantratma mantravittamah ।
pralayanalakrt pustah somasuryagnilocanah ॥ 87 ॥

aksobhyah ksobharahito bhasmoddhulitavigrahah ।
sardulacarmavasanah samagah samagapriyah ॥ 88 ॥

kailasasikharavaso svarnakesa suvarnadrka ।
svatantra sarvatantratma pranatartipabhanjanah ॥ 89 ॥

nikatastho’tidurastho mahotsaho mahodayah ।
brahmacari drḍhacari sadacari sanatanah ॥ 90 ॥

apadhrsyah pingalaksyah sarvadharmaphalapradah ।
avidya rahito vidyasamsrayah ksetrapalakah ॥ 91 ॥

gajarih karunasindhuh satrughnah satrupatanah ।
kamatho bhargavah kalki rrsabhah kapilo bhavah ॥ 92 ॥

sunya sunyamayah sunyajanma sunyalayo’layah ।
sunyakarah sunyadevo prakasatma nirisvarah ॥ 93 ॥

gorajo goganopeto godevo gopatipriyah ।
gavisvaro gava data goraksakarako girih ॥ 94 ॥

cetanascetanadhyakso mahakaso nirapadah ।
jaḍo jaḍagato jaḍyanasano jaḍatapaha ॥ 95 ॥

ramapriyo laksmanaḍhyo vitastanandadayakah ।
kasivasapriyo rango lokaranjanakarakah ॥ 96 ॥

nirvedakari nirvinno mahaniyo mahadhanah ।
yoginivallabho bharta bhaktakalpatarurgrahih ॥ 97 ॥

rsabho gautamah stragvi buddho buddhimattam guruh ।
nirupo nirmamo’kruro niragrahah ॥ 98 ॥

nirdambho niraso nilo nayako nayakottamah ।
nirvananayako nityasthito nirnayakarakah ॥ 99 ॥

bhaviko bhavuko bhavo bhavatma bhavamocanah ।
bhavyadata bhavatrata bhagavan bhutimana bhavah ॥ 100 ॥

Shri Goraksha Sahasranaam Stotram

premi priyah premakarah prematmah premavittamah ।
phullaravindanayano nayatma nitiman nayi ॥ 101 ॥

paramtejah paramdhama paramesthi puratanah ।
puskarah puskaradhyaksah puskaraksetrasamsthitah ॥ 102 ॥

pratyagatma’pratarkyastu rajamanyo jagatpatih ।
punyatma punyakrta punyapriyah punyavadasritah ॥ 103 ॥

vayudo vayusevi ca vataharo vimatsarah ।
bilvapriyo bilvadhari bilvamalyo layasrayah ॥ 104 ॥

bilvabhakto bilvanatho bilvabhaktipriyo vasi ।
sambhumantradharah sambhuyogah sambhupriyo harah ॥ 105 ॥

skandapriyo niraskando sukhayogah sukhasanah ।
ksamapriyah ksamadata ksamasilo niraksamah ॥ 106 ॥

jnanajno jnanado jnano jnanagamyah ksamapatih ।
ksamacarastattvadarsi tantrajnastantrakarakah ॥ 107 ॥

tantrasadhana tattvajnastantramargapravartakah ।
tantratma balatantrajno yantramantraphalapradah ॥ 108 ॥

goraso gorasadhiso gosiddha gomatipriyah ।
goraksakarako gomi gorangopapirguruh ॥ 109 ॥

sampurnakamah sarvestha data sarvatmakah sami ।
suddho’ruddho’viruddhasca prabuddhah siddhasevitah ॥ 110 ॥

dharmo dharmavidam srestho dharmajno dharmadharakah ।
dharmaseturdharmarajo dharmamargapravartakah ॥ 111 ॥

dharmacaryo dharmakarta dharmyo dharmavidagranih ।
dharmatma dharmamarmajno dharmasastravisaradah ॥ 112 ॥

karta dharta jagadbharta’pahartasura raksasam ।
vetta chetta bhavapatterbhemta papasya punyakrt ॥ 113 ॥

gunavan gunasmapanno gunyo ganyo gunapriyah ।
gunajno gunasampujyo gunananditamanasah ॥ 114 ॥

gunadharo gunadhiso gunigito gunipriyah ।
gunakaro gunasrestho gunadata gunojvalah ॥ 115 ॥

gargapriyo gargadevo gargadevanamaskrtah ।
garganandakaro garga gito gargavarapradah ॥ 116 ॥

vedavedyo vedavido vedavandyo vidampatih ।
vedantavedyo vedantakarta vedantaparagah ॥ 117 ॥

hiranyareta hutabhuk himavarno himalayah ।
hayagrivo hiranyastrak hayanatho hiranyamayah ॥ 118 ॥

saktiman saktidata ca saktinathah susaktikah ।
sakti’saktah saktisadhya saktihrt saktikaranam ॥ 119 ॥

sarvasasyagunopetah sarva saubhagyadayakah ।
tripunḍradhari samnyasi gajacarmaparivrtah ॥ 120 ॥

gajasuravimardi ca bhutavaitalasobhitah ।
smasanaranyasamvasi karparalankrtah sivah ॥ 121 ॥

karmasaksi karmakarta karma karmaphalapradah ।
karmanyah karmadah karmi karmaha karmakrd guruh ॥ 122 ॥

gosankastasantrata gosantapanivartakah ।
govardhano gavamdata gosaubhagyavivardhanah ॥ 123 ॥

idam goraksanathasya stotramuktam maya prabho ।
namnam sahasrametaddhi guhyadguhyatamam param ॥ 124 ॥

etasya pathanam nityam sarvabhistapradam nrnam ।
vidyarthi labhate vidyam dhanarthi labhate dhanam ॥ 125 ॥

Shri Goraksha Sahasranaam Stotram

putrarthi labhate putran moksarthi muktimapnuyat ।
yam yam cintayate kamam tam tam prapnoti niscitam ॥ 126 ॥

rajyarthi labhate rajyam yogarthi yogavan bhavet ।
bhogarthi labhate bhogan goraksasya prasadatah ॥ 127 ॥

aranye visame ghere satrubhih parivestitah ।
sahasranama pathanannaro mucyet tatksanam ॥ 128 ॥

rajadvare mahamari roge ca bhayade nrnam ।
sarvesvapi ca rogesu goraksa smaranam hitam ॥ 129 ॥

namnam sahasram yatrasyad grhe grhavatam subham ।
dhanadhanyadikam tatra putrapautradikam tatha ॥ 130 ॥।

arogyam pasuvrddhisca subhakarmani bhurisah ।
na bhayam tatra roganam satyam satyam vadamyaham ॥ 131 ॥

sahasranama sravanat pathanacca bhaved dhruvam ।
kanyadana sahasrasya vajapeya satasya ca ॥ 132 ॥

gavam koti pradanasya jyotistomasya yat phalam ।
dasasvamedha yajnasya phalam prapnoti manavah ॥ 133 ॥

sahasranamastotrasya pustakani dadati tah ।
brahmanebhyastu sampujya tasya laksmi sthiro bhavet ॥ 134 ॥

labhate rajasammanam vyaparasya phalam labhet ।
prapnuyacca gatam laksmi sarvajnavijayi bhavet ॥ 135 ॥

caturdasyam pradose ca sivam goraksa samjnitam ।
pujayedvividhacarairgandhapuspadibhirnarah ॥ 136 ॥

samsthapya parthivam lingam goraksa jagadguroh ।
bhaktaya samarcayen nityam sadhakah suddha manasah ॥ 137 ॥

stotrapatham prakurvita karayed brahmanaistatha ।
sarvasiddhimavapnoti natra karya vicarana ॥ 138 ॥

dhyayedante mahesanam pujayitva yathavidhi ।
brahmanan pujayettatra dhanavastradibhih subhaih ॥ 139 ॥

yasmadudbhavati damadbha ta tamam yenaiva tatpalyate yasmin visvamidam caracaramayam samloyate sarvatha ।
brahmavisnusivadayo’pi na para param gata yasya te goraksaprabhavam paratparataram sunyam param dhimahi ॥ 140 ॥

॥ Iti srikalpadrumatantre mahasiddhisare maharsi gargaproktam niranjanatmakam Shri Goraksha Sahasranaam Stotram Sampurna ॥