Shodashi Ashtottar Shatnam Stotram, षोडशी अष्टोत्तर शतनाम स्तोत्रम्

षोडशी अष्टोत्तर शतनाम स्तोत्रम् | Shodashi Ashtottar Shatnam Stotram

षोडशी अष्टोत्तर शतनाम स्तोत्रम्/Shodashi Ashtottar Shatnam Stotram

॥भृगुरुवाच॥

चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो
यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ १ ॥

॥ब्रह्मोवाच॥

सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।
गुह्याद्गुह्यतरं गुह्यं सुन्दर्याः परिकीर्तितम् ॥ २ ॥

॥विनियोगः॥

अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुरृषिः अनुष्टुप् छन्दः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्ध्यर्थे जपे विनियोगः ।

॥षोडशी अष्टोत्तरशतनाम स्तोत्रम्॥

त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।
सुन्दरी सुमुखी सेव्या सामवेदपरायणा ॥ ३ ॥

शारदा शब्दनिलया सागरा सरिदम्बरा ।
शुद्धा शुद्धतनुः साध्वी शिवध्यानपरायणा ॥ ४ ॥

स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती ।
समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ ५ ॥

साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा ।
खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ॥ ६ ॥

षड्वर्गभावरहिता षड्वर्गपरिचारिका ।
षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी ॥ ७ ॥

क्रतुरूपा क्रतुमती ऋभुक्षक्रतुमण्डिता ।
कवर्गादिपवर्गान्ता अन्तस्थाऽनन्तरूपिणी ॥ ८ ॥

अकाराकाररहिता कालमृत्युजरापहा ।
तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ ९ ॥

काली कराली कामेशी छाया सञ्ज्ञाप्यरुन्धती ।
निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ १० ॥

मेघा बलाका विमला विमलज्ञानदायिनी ।
गौरी वसुन्धरा गोप्त्री गवां पतिनिषेविता ॥ ११ ॥

भगाङ्गा भगरूपा च भक्तिभावपरायणा ।
छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ १२ ॥

धर्मकर्मादिरहिता धर्मकर्मपरायणा ।
सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी ॥ १३ ॥

भैरवी भुवना माताऽभयदा भवसुन्दरी ।
भावुका बगला कृत्या बाला त्रिपुरसुन्दरी ॥ १४ ॥

रोहिणी रेवती रम्या रम्भा रावणवन्दिता ।
शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ १५ ॥

शतचन्द्रानना देवी सहस्रादित्यसन्निभा ।
सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता ॥ १६ ॥

अर्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा ।
इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ १७ ॥

सुन्दर्याः सर्वदं सेव्यं महापातकनाशनम् ।
गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ १८ ॥

सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।
तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ १९ ॥

पठेत्सदा भक्तियुतो नरो यो
निशीथकालेऽप्यरुणोदये वा ।
प्रदोषकाले नवमीदिनेऽथवा
लभेत भोगान्परमाद्भुतान्प्रियान् ॥ २० ॥

॥इति ब्रह्मयामले पूर्वखण्डे षोडशी अष्टोत्तर शतनाम स्तोत्रम्॥