Radhika Dipa Ashtakam
राधिकाधिपाष्टकम्
Radhika Dipa Ashtakam in Hindi
राधिकाधिपाष्टकम् हिंदी पाठ
कुङ्कुमाक्तकाञ्चनाब्ज गर्वहारि गौरभा,
पीतनाञ्चिताब्जगन्धकीर्तिनिन्दसौरभा ।
वल्लवेशसूनु सर्ववाञ्छितार्थसाधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ १ ॥
कौरविन्दकान्तनिन्दचित्रपत्रशाटिका,
कृष्णमत्तभृङ्गकेलि फुल्लपुष्पवाटिका ।
कृष्णनित्यसङ्गमार्थपद्मबन्धुराधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ २ ॥
सौकुमार्यसृष्टपल्लवालिकीर्तिनिग्रहा,
चन्द्रचन्दनोत्पलेन्दुसेव्यशीतविग्रहा ।
स्वाभिमर्शवल्लवीशकामतापबाधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ३ ॥
विश्ववन्द्ययौवताभिवन्दतापि या रमा,
रूपनव्ययौवनादिसम्पदा न यत्समा ।
शीलहार्दलीलया च सा यतोऽस्ति नाधिका,
मह्यमात्मपादपद्मदास्यदास्तु राधिका ॥ ४ ॥
रासलास्यगीतनर्मसत्कलालिपण्डिता,
प्रेमरम्यरूपवेशसद्गुणालिमण्डिता ।
विश्वनव्यगोपयोषिदालितोपि याऽधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ५ ॥
नित्यनव्यरूपकेलिकृष्णभावसम्पदा,
कृष्णरागबन्धगोपयौवतेषु कम्पदा ।
कृष्णरूपवेशकेलिलग्नसत्समाधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ६ ॥
स्वेदकम्पकण्टकाश्रुगद्गदादिसञ्चिता,
मर्षहर्षवामतादि भावभूषणाञ्चिता ।
कृष्णनेत्रतोषिरत्नमण्डनालिदाधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ७ ॥
या क्षणार्धकृष्णविप्रयोगसन्ततोदिता-,
नेकदैन्यचापलादिभाववृन्दमोदिता ।
यत्नलब्धकृष्णसङ्गनिर्गताखिलाधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ८ ॥
अष्टकेन यस्त्वनेन नौति कृष्णवल्लभां,
दर्शनेऽपि शैलजादियोषिदालिदुर्लभाम् ।
कृष्णसङ्गनन्दतात्मदास्यसीधुभाजनं,
तं करोति नन्दतालिसञ्चयाशु सा जनम् ॥ ९ ॥
॥ इति राधिकाधिपाष्टकम् सम्पूर्णम् ॥