Dhruva suktam, ध्रुव सूक्तम्

ध्रुव सूक्तम्
Dhruva suktam

(ध्रुव सूक्तम्/Dhruva suktam)

आ त्वाहार्षमन्त रेधि ध्रुवस्तिष्ठाविचाचलिः ।
विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥

इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः ।
इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥

इममिन्द्रो अदीधरद् ध्रुवं ध्रुवेण हविषा ।
तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥

ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वतो इमे ।
ध्रुवं विश्वमिदं जगद् ध्रुवो राजा विशामयम् ॥

ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।
ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥

ध्रुवं ध्रुवेण हविषा ऽभि सो मं मृशामसि ।
अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥

अभीवर्तेन हविषा येनेन्द्रो अभिवावृते ।
तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ॥

अभिवृत्य सपत्नानभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥

अभि त्वा देवः सविताभिऽ सोमो अवीवृतत् ।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥

येनेन्द्रो हविषा कृत्व्यभवद् द्युम्न्युत्तमः ।
इदं तदक्रि देवा असपत्नः किलाभुवम् ॥

असपत्नः सपत्नहा ऽभिराष्ट्रो विषासहिः ।
यथाहमेषां भूतानां विराजानि जनस्य च ॥

॥ इति ध्रुव सूक्तम् संपूर्ण ॥