Sri Vani Prasanamala Stuti
श्री वाणी प्रश्नावली स्तुतिः
श्री वाणी प्रश्नावली स्तुतिः हिंदी पाठ
Sri Vani Prasanamala Stuti in Hindi
किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतोऽस्य ।
किं मां दूरीकुरुषे देवि गिरां ब्रूहि कारणं तत्र ॥ १ ॥
किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वं ।
औरसतनयं मां तव कस्माद्दूरीकरोषि वद वाणि ॥ २ ॥
आनीय दूरतो मां मातस्त्वत्पादसविधमतिकृपया ।
परिपाल्य च सुचिरं मां कस्माद्दूरीकरोषि वद वाणि ॥ ३ ॥
अतिपरिचयादवज्ञा प्रभवेत्पुत्रेषु किं सवित्रीणां ।
नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरोषि वद वाणि ॥ ४ ॥
कादाचित्कनमस्कृतिकर्तॄणामप्यभीष्टदे तरसा ।
नाहं सकृदपि नन्ता कस्माद्दूरीकरोषि वद वाणि ॥ ५ ॥
गुरुरूपेणाबाल्यात्सोढ्वा मन्तूंश्च मत्कृतान्विविधान् ।
परिरक्ष्य करुणया मां कस्माद्दूरीकरोषि वद वाणि ॥ ६ ॥
जगतां पालनमनिशं कुर्वन्त्यास्ते भवेत्कियान्भारः ।
अहमम्ब दीनवर्यः कस्माद्दूरीकरोषि वद वाणि ॥ ७ ॥
पापान्निवार्य सरणौ विमलायां मे प्रवर्तने तरसा ।
कर्तव्ये सति कृपया कस्माद्दूरीकरोषि वद वाणि ॥ ८ ॥
यद्यप्यन्यानन्यान्देवानाराधयामि न त्वं ते ।
सर्वात्मिकेति चपलः कस्माद्दूरीकरोषि वद वाणि ॥ ९ ॥
यात्राशक्तमिमं मां गलितशरीरं रुजा समाक्रान्तं ।
पात्रमहेतुकदयायाः कस्माद्दूरीकरोषि वद वाणि ॥ १० ॥
तव सद्मनि गुरुसदने विद्यातीर्थालये च बहुसुखतः ।
खेलां कुर्वन्तं मां कस्माद्दूरीकरोषि वद वाणि ॥ ११ ॥
त्वत्क्षेत्रनिकटराजन्नरसिंहाख्याचलॆन्द्र शृङ्गाग्रे ।
स्वैरविहारकृतं मां कस्माद्दूरीकरोषि वद वाणि ॥ १२ ॥
त्वत्पादपूततुङ्गातीरॆ विजने वने चरन्तं मां ।
अनुघस्रं मोदभरात् कस्माद्दूरीकरॊषि वद वाणि ॥ १३ ॥
तुङ्गातीरे दिनकरनिवॆशनिकटस्थले विपुले ।
ध्यायन्तं परतत्वं कस्माद्दूरीकरोषि वद वाणि ॥ १४ ॥
तुङ्गातीरे रघुवरमन्दिरपुरतः सुदीर्घपाषाणे ।
कुतुकाद्विहरन्तं मां कस्माद्दूरीकरोषि वद वाणि ॥ १५ ॥
जातु च नरसिंहपुरे तुङ्गातीरे सुसैकते मोदात् ।
विहृतिं कुर्वाणं मां कस्माद्दूरीकरोषि वद वाणि ॥ १६ ॥
यतिवरकृतात्मविद्याविलासमनिशं पठन्तमतिमोदात् ।
कुहचित्तुङ्गातीरे कस्माद्दूरीकरोषि वद वाणि ॥ १७ ॥
शङ्करभगवत्पादप्रणीतचूडामणिं विवेकादिम् ।
शृण्वन्तं नृहरिवनेकस्माद्दूरीकरोषि वद वाणि ॥ १८ ॥
॥ इति श्री वाणी प्रश्नावली स्तुतिः सम्पूर्णम् ॥