Sri Stuti
श्री स्तुतिः
श्री स्तुतिः हिंदी पाठ
Sri Stuti in Hindi
मानातीतप्रथितविभवां मङ्गलं मङ्गलानां, वक्षःपीठीं मधुविजयिनो भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां, श्रेयोमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्ये ॥ १ ॥
आविर्भावः कलशजलधावध्वरे वापि यस्याः, स्थानं यस्याः सरसिजवनं विष्णुवक्षस्थलं वा ।
भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा, स्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ॥ २ ॥
स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना, तामेव त्वामनितरगतिः स्तोतुमाशंसमानः।
सिद्धारम्भः सकलभुवनश्लाघनीयो भवेयं, सेवापेक्षा तव चरणयो श्रेयसे कस्य न स्यात् ॥ ३ ॥
यत् सङ्कल्पात् भवति कमले यत्र देहिन्यमीषां, जन्मस्थेमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ, पूर्णं तेजः स्फुरति भवती पादलाक्षारसाङ्कम् ॥ ४ ॥
निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं, विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् ।
शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां, संपद्यन्ते विहरणविधौ यस्य शय्याविशेषाः ॥ ५ ॥
उद्देश्यत्वं जननि भजतोरुझितोपाधिगन्धं, प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् ।
पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो, नावच्छेदं भजति महिमा नर्तयन् मानसं नः ॥ ६ ॥
पश्यन्तीषु श्रुतिषु परितः सूरिबृन्देनसार्धं, मध्येकृत्य त्रिगुणफलकं निर्मितस्थानभेदम् ।
विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ, ब्रह्मेशाद्या दधति युवयोरक्षशार प्रचारम् ॥ ७ ॥
अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं, लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरति ।
यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तो, नावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे ॥ ८ ॥
त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं, किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।
त्वत्संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां, भावारूढौ भगवति युवां दैवतं दंपती नः ॥ ९ ॥
आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णो, आचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नां ।
प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसे त्वम्, दूरेक्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥ १० ॥
धत्ते शोभां हरिमरकते तावकीमूर्तिराद्या, तन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।
यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-, विच्छावेगोल्लसितलहरी विभ्रमं व्यक्तयस्ते ॥ ११ ॥
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः, यद्भ्रूभङ्गात् कुसुमधनुषः किङ्करो मेरुधन्वा ।
यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्रः, पद्मे तासां परिणतिरसौ भावलेशैस्त्वदीयैः ॥ १२ ॥
अग्रे भर्तुः सरसिजमये भद्रपीठे निषण्णां, अम्भोराशेरधिगतसुधासंप्लवादुत्थितां त्वाम् ।
पुष्पासार स्थगितभुवनैः पुष्कलावर्तकाद्यैः, कॢप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजेन्द्राः ॥ १३ ॥
आलोक्य त्वाममृतसहजे विष्णुवक्षस्थलस्थाम्, शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः ।
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैः, सर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति ॥ १४ ॥
आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः, अम्भॊजानामुषसिमिषतामन्तरंगैरपांगैः ।
यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया, तस्यां तस्यामहमहमिकां तन्वते संपदोघाः ॥ १५ ॥
यॊगारम्भत्वरितमनसो युष्मदैकान्त्ययुक्तं, धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् ।
तेषां भूमेर्धनपतिगृहादंबरादंबुधेर्वा, धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ १६ ॥
श्रेयस्कामा कमलनिलये चित्रमाम्नायवाचां, चूडापीडं तव पदयुगं चेतसा धारयन्तः ।
छत्रछाया सुभगशिरसश्चामरस्मेरपार्श्वाः, श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥ १७ ॥
ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन्, दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।
अंब स्तंबावधिक जननग्रामसीमान्तरेखां, आलंबन्ते विमलमनसो विष्णुकान्ते दयां ते ॥ १८ ॥
जाताकाङ्क्षा जननि युवयोरेकसेवाधिकारे, मायालीढं विभवमखिलं मन्यमानास्तृणाय ।
प्रीत्यै विष्णोस्तवच कृतिनः प्रीतिमन्तो भजन्ते, वेलाभङ्गप्रशमनफलं वैदिकं धर्मसेतुम् ॥ १९ ॥
सेवे देवि त्रिदशमहिलामौलिमालार्चितं ते, सिद्धिक्षेत्रं शमितविपदां संपदां पादपद्मम् ।
यस्मिन्नीषन्नमितशिरसो यापयित्वा शरीरं, वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ २० ॥
सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैः, अंब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।
घर्मे तापत्रयविरचिते गाढतप्तं क्षणं मां, आकिञ्चन्यग्लपितमनघैरार्द्रयेथाः कटाक्षैः ॥ २१ ॥
संपद्यन्ते भवभयतमोभानवस्त्वत् प्रसादात्, भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः ।
याचे किं त्वामहमिह यतः शीतलोदारशीला, भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥ २२ ॥
माता देवि त्वमसि भगवान् वासुदेवः पिता मे, जातः सोहं जननि युवयोरेकलक्ष्यं दयायाः ।
दत्तो युष्मत् परिजनतया देशिकैरप्यतस्त्वं, किं ते भूयः प्रियमिति किल स्मेरवक्त्रा विभासि ॥ २३ ॥
कल्याणानामविकलनिधिः कापि कारुण्यसीमा, नित्यामोदा निगमवचसां मौलिमन्दारमाला ।
संपद्दिव्या मधुविजयिनः सन्निधत्तां सदा मे, सैषा देवी सकलभुवनप्रार्थना कामधेनुः ॥ २४ ॥
उपचितगुरुभक्तेरुत्थितं वेङ्कटेशात्, कलिकलुषनिवृत्यै कल्प्यमानं प्रजानाम् ।
सरसिजनिलयायाः स्तोत्रमेतत् पठन्तः, सकलकुशलसीमाः सर्वभौमा भवन्ति ॥ २५ ॥
॥ इति श्री स्तुतिः सम्पूर्णम् ॥