Vighna Nashak Ganesh Stuti, विघ्न नाशक गणेश स्तुति:

विघ्न नाशक गणेश स्तुति | Vighna Nashak Ganesh Stuti

Vighna Nashak Ganesh Stuti/विघ्न नाशक गणेश स्तुति

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥

भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥

नमस्ते ब्रह्मरूपायविष्णुरूपाय ते नमः नमस्ते रुद्ररूपाय करिरूपाय ते नमः ।
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे भक्तप्रियाय देवाय नमस्तुभ्यंविनायक ॥

त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति ।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव ॥

त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया
सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नम:
प्रार्थनापूर्वकं नमस्कारान् समर्पयामि ।
गणेशपूजने कर्म यन्न्यूनमधिकं कृतम् ।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम।

Vighna Nashak Mantra | विघ्न नाशक मंत्र