Sri Parvati Sahasranama Stotram, श्री पारवती सहस्रनाम स्तोत्रं

श्री पारवती सहस्रनाम स्तोत्रं/Sri Parvati Sahasranama Stotram

श्री पारवती सहस्रनाम स्तोत्रं/Sri Parvati Sahasranama Stotram

श्री पार्वती सहस्रनाम स्तोत्रम्

हिमवानुवाच ।

का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते ।
न जाने त्वामहं वत्से यथावद् ब्रूहि पृच्छते ॥ १ ॥

गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी ।
व्याजहार महाशैलं योगिनामभयप्रदा ॥ २ ॥

देव्युवाच ।

मां विद्धि परमां शक्तिं परमेश्वरसमाश्रयाम् ।
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ३ ॥

अहं वै सर्वभावानामात्मा सर्वान्तरा शिवा ।
शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका ॥ ४ ॥

अनन्ताऽनन्तमहिमा संसारार्णवतारिणी ।
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ ५ ॥ श्री पारवती सहस्रनाम स्तोत्रं

एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ।
स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम् ॥ ६ ॥

कोटिसूर्यप्रतीकाशं तेजोबिम्बं निराकुलम् ।
ज्वालामालासहस्राढ्यं कालानलशतोपमम् ॥ ७ ॥

दंष्ट्राकरालं दुर्द्धर्षं जटामण्डलमण्डितम् ।
त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ ८ ॥

प्रशान्तं सौम्यवदनमनन्ताश्चर्यसंयुतम् ।
चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ ९ ॥

किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ १० ॥ श्री पारवती सहस्रनाम स्तोत्रं

शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् ।
अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ ११ ॥

सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् ।
ब्रह्मेन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ १२ ॥

सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।
सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ १३ ॥

दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् ।
भयेन च समाविष्टः स राजा हृष्टमानसः ॥ १४ ॥

आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् ।
नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ॥ १५ ॥

हिमवानुवाच ।

शिवोमा परमा शक्तिरनन्ता निष्कलाऽमला ।
शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ १ ॥

अचिन्त्या केवलाऽनन्त्या शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा देवात्मा सर्वगाऽचला ॥ २ ॥ श्री पारवती सहस्रनाम स्तोत्रं

एकानेकविभागस्था मायातीता सुनिर्मला ।
महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ३ ॥

काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा ।
नन्दा सर्वात्मिका विद्या ज्योतीरूपाऽमृताक्षरा ॥ ४ ॥

शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा ।
व्योममूर्त्तिर्व्योमलया व्योमाधाराऽच्युताऽमरा ॥ ५ ॥

अनादिनिधनाऽमोघा कारणात्मा कलाऽकला ।
क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया ॥ ६ ॥

प्राणेश्वरप्रिया माता महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ७ ॥

सर्वशक्तिकलाकारा ज्योत्स्ना द्यौर्महिमास्पदा ।
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ ८ ॥ श्री पारवती सहस्रनाम स्तोत्रं

अनादिरव्यक्तगुहा महानन्दा सनातनी ।
आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ ९ ॥

महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी ।
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ १० ॥

संसारपारा दुर्वारा दुर्निरीक्ष्या दुरासदा ।
प्राणशक्तिः प्राणविद्या योगिनी परमा कला ॥ ११ ॥

महाविभूतिर्दुर्द्धर्षा मूलप्रकृतिसंभवा ।
अनाद्यनन्तविभवा परार्था पुरुषारणिः ॥ १२ ॥

सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया ।
शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ १३ ॥

प्रधानपुरुषातीता प्रधानपुरुषात्मिका ।
पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ॥ १४ ॥

भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ।
जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ॥ १५ ॥ श्री पारवती सहस्रनाम स्तोत्रं

व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ।
क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता ॥ १६ ॥

अनादिमायासंभिन्ना त्रितत्त्वा प्रकृतिर्गुहा ।
महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा ॥ १७ ॥

व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला प्रसूतिका ।
अकार्या कार्यजननी नित्यं प्रसवधर्मिणी ॥ १८ ॥

सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ।
ब्रह्मगर्भा चतुर्विंशा पद्मनाभाऽच्युतात्मिका ॥ १९ ॥

वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ।
सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता ॥ २० ॥

विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ।
महीयसी ब्रह्मयोनिर्महालक्ष्मीसमुद्भवा ॥ २१ ॥

महाविमानमध्यस्था महानिद्रात्महेतुका ।
सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका ॥ २२ ॥

अनन्तरूपाऽनन्तस्था देवी पुरुषमोहिनी ।
अनेकाकारसंस्थाना कालत्रयविवर्जिता ॥ २३ ॥

ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका ।
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ॥ २४ ॥ श्री पारवती सहस्रनाम स्तोत्रं

व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ।
वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता ।
अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥ २५ ॥

ईश्वराणी च शर्वाणी शंकरार्द्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ २६ ॥

महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ २७ ॥

ब्रह्मेन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी ।
ईश्वरार्द्धासनगता महेश्वरपतिव्रता ॥ २८ ॥

सकृद्विभाविता सर्वा समुद्रपरिशोषिणी ।
पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ २९ ॥

गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी ।
सावित्री कमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ ३० ॥

सरोजनिलया मुद्रा योगनिद्रा सुरार्दिनी ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ ३१ ॥

वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका ।
योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ ३२ ॥ श्री पारवती सहस्रनाम स्तोत्रं

गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता ।
स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ ३३ ॥

नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी ।
अजा विभावरी सौम्या भोगिनी भोगदायिनी ॥ ३४ ॥

शोभा वंशकरी लोला मालिनी परमेष्ठिनी ।
त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ ३५ ॥

महानुभावा सत्त्वस्था महामहिषमर्दनी ।
पद्ममाला पापहरा विचित्रा मुकुटानना ॥ ३६ ॥

कान्ता चित्राम्बरधरा दिव्याभरणभूषिता ।
हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी ॥ ३७ ॥

निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ ३८ ॥

वृषासनगता गौरी महाकाली सुरार्चिता ।
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥ ३९ ॥

विरूपाक्षी लेलिहाना महापुरनिवासिनी ।
महाफलाऽनवद्याङ्गी कामपूरा विभावरी ॥ ४० ॥

विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी ।
कौशिकी कर्षणी रात्रिस्त्रिदशार्त्तिविनाशिनी ॥ ४१ ॥

बहुरूपा सुरूपा च विरूपा रूपवर्जिता ।
भक्तार्तिशमनी भव्या भवभावविनाशिनी ॥ ४२ ॥ श्री पारवती सहस्रनाम स्तोत्रं

निर्गुणा नित्यविभवा निःसारा निरपत्रपा ।
यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ ४३ ॥

दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी ।
सर्वातिशायिनी विद्या सर्वसिद्धिप्रदायिनी ॥ ४४ ॥

सर्वेश्वरप्रिया तार्क्ष्या समुद्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ ४५ ॥

कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी ।
निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ ४६ ॥

ज्वालामाला सहस्राढ्या देवदेवी मनोन्मनी ।
महाभगवती दुर्गा वासुदेवसमुद्भवा ॥ ४७ ॥

महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ ४८ ॥

दक्षिणा दहना दाह्या सर्वभूतनमस्कृता ।
योगमाया विभावज्ञा महामाया महीयसी ॥ ४९ ॥

संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः ।
बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ ५० ॥

ख्यातिः प्रज्ञा चितिः संवित् महाभोगीन्द्रशायिनी ।
विकृतिः शांकरी शास्त्री गणगन्धर्वसेविता ॥ ५१ ॥

वैश्वानरी महाशाला देवसेना गुहप्रिया ।
महारात्रिः शिवानन्दा शची दुःस्वप्ननाशिनी ॥ ५२ ॥ श्री पारवती सहस्रनाम स्तोत्रं

इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी ।
गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता ॥ ५३ ॥

हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा ।
जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा ॥ ५४ ॥

बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ।
तरस्विनी समाधिस्था त्रिनेत्रा दिवि संस्थिता ॥ ५५ ॥

सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता ।
संसारतारिणी विद्या ब्रह्मवादिमनोलया ॥ ५६ ॥

ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणिः ।
हिरण्मयी महारात्रिः संसारपरिवर्त्तिका ॥ ५७ ॥

सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ।
उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ॥ ५८ ॥

सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥ ५९ ॥

जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
निराश्रया निराहारा निरङ्कुरवनोद्भवा ॥ ६० ॥ श्री पारवती सहस्रनाम स्तोत्रं

चन्द्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी ।
परावरविधानज्ञा महापुरुषपूर्वजा ॥ ६१ ॥

विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ।
विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ॥ ६२ ॥

सहस्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ।
क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका ॥ ६३ ॥

महामायाश्रया मान्या महादेवमनोरमा ।
व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ॥ ६४ ॥

वीरेश्वरी विमानस्था विशोका शोकनाशिनी ।
अनाहता कुण्डलिनी नलिनी पद्मवासिनी ॥ ६५ ॥

सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ।
वाग्देवता ब्रह्मकला कलातीता कलारणिः ॥ ६६ ॥

ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ।
व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः ॥ ६७ ॥

क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ।
अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी ॥ ६८ ॥

गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ।
भगिनी भगवत्पत्नी सकला कालकारिणी ॥ ६९ ॥ श्री पारवती सहस्रनाम स्तोत्रं

सर्ववित् सर्वतोभद्रा गुह्यातीता गुहारणिः ।
प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी ॥ ७० ॥

कपिला कापिला कान्ता कनकाभा कलान्तरा ।
पुण्या पुष्करिणी भोक्त्री पुरंदरपुरस्सरा ॥ ७१ ॥

पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ।
पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा ॥ ७२ ॥

धर्मोदया भानुमती योगिज्ञेया मनोजवा ।
मनोहरा मनोरक्षा तापसी वेदरूपिणी ॥ ७३ ॥

वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी ॥ ७४ ॥

विश्वावस्था वियन्मूर्त्तिर्विद्युन्माला विहायसी ।
किंनरी सुरभी वन्द्या नन्दिनी नन्दिवल्लभा ॥ ७५ ॥

भारती परमानन्दा परापरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ ७६ ॥

अचिन्त्याऽचिन्त्यविभवा हृल्लेखा कनकप्रभा ।
कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥ ७७ ॥

त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ।
सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥ ७८ ॥

शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ।
आद्या हृत्कमलोद्भूता गवां माता रणप्रिया ॥ ७९ ॥ श्री पारवती सहस्रनाम स्तोत्रं

सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा ।
दुर्गाकात्यायनी चण्डी चर्चिका शान्तविग्रहा ॥ ८० ॥

हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ ८१ ॥

रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ।
पद्मानना पद्मनिभा नित्यतुष्टाऽमृतोद्भवा ॥ ८२ ॥

धुन्वती दुःप्रकम्प्या च सूर्यमाता दृषद्वती ।
महेन्द्रभगिनी मान्या वरेण्या वरदर्पिता ॥ ८३ ॥

कल्याणी कमला रामा पञ्चभूता वरप्रदा ।
वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा ॥ ८४ ॥

कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ ८५ ॥

कराला पिङ्गलाकारा नामभेदाऽमहामदा ।
यशस्विनी यशोदा च षडध्वपरिवर्त्तिका ॥ ८६ ॥

शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ।
चैत्रा संवत्सरारूढा जगत्संपूरणीन्द्रजा ॥ ८७ ॥

शुम्भारिः खेचरी स्वस्था कम्बुग्रीवा कलिप्रिया ।
खगध्वजा खगारूढा परार्ध्या परमालिनी ॥ ८८ ॥

ऐश्वर्यवर्त्मनिलया विरक्ता गरुडासना ।
जयन्ती हृद्गुहा रम्या गह्वरेष्ठा गणाग्रणीः ॥ ८९ ॥ श्री पारवती सहस्रनाम स्तोत्रं

संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ।
कलिकल्मषहन्त्री च गुह्योपनिषदुत्तमा ॥ ९० ॥

निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ।
विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवाऽमृता ॥ ९१ ॥

लोहिता सर्पमाला च भीषणी वनमालिनी ।
अनन्तशयनाऽनन्या नरनारायणोद्भवा ॥ ९२ ॥

नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ।
संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया ॥ ९३ ॥

महाज्वाला महामूर्त्तिः सुमूर्त्तिः सर्वकामधुक् ।
सुप्रभा सुस्तना गौरी धर्मकामार्थमोक्षदा ॥ ९४ ॥

भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ।
महाविभूतिदा मध्या सरोजनयना समा ॥ ९५ ॥

अष्टादशभुजाऽनाद्या नीलोत्पलदलप्रभा ।
सर्वशक्त्यासनारूढा धर्माधर्मार्थवर्जिता ॥ ९६ ॥

वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।
विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ ९७ ॥

स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ।
अशेषदेवतामूर्त्तिर्देवता वरदेवता ।
गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ ९८ ॥ श्री पारवती सहस्रनाम स्तोत्रं

अवर्णा वर्णरहिता निवर्णा बीजसंभवा ।
अनन्तवर्णाऽनन्यस्था शंकरी शान्तमानसा ॥ ९९ ॥

अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा ।
गौर्गीर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १०० ॥

सत्यमात्रा सत्यसंधा त्रिसंध्या संधिवर्जिता ।
सर्ववादाश्रया संख्या सांख्ययोगसमुद्भवा ॥ १०१ ॥

असंख्येयाऽप्रमेयाख्या शून्या शुद्धकुलोद्भवा ।
बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥ १०२ ॥

विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी ।
महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ॥ १०३ ॥

त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया ।
शान्त्यतीता मलातीता निर्विकारा निराश्रया ॥ १०४ ॥

शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी ।
दैत्यदानवनिर्मात्री काश्यपी कालकल्पिका ॥ १०५ ॥

शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका ।
नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १०६ ॥

कामुकी ललिता भावा परापरविभूतिदा ।
परान्तजातमहिमा बडवा वामलोचना ॥ १०७ ॥

सुभद्रा देवकी सीता वेदवेदाङ्गपारगा ।
मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १०८ ॥ श्री पारवती सहस्रनाम स्तोत्रं

अमृत्युरमृता स्वाहा पुरुहूता पुरुष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १०९ ॥

हिरण्या राजती हैमी हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ ११० ॥

महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता ।
दीर्घा ककुद्मिनी हृद्या शान्तिदा शान्तिवर्द्धिनी ॥ १११ ॥

लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ॥ ११२ ॥

सुधामा कर्मकरणी युगान्तदहनात्मिका ।
संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ ११३ ॥

ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ॥ ११४ ॥

मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।
वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ ११५ ॥

हिमवन्मेरुनिलया कैलासगिरिवासिनी ।
चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ ११६ ॥

वेदविद्याव्रतस्नाता धर्मशीलाऽनिलाशना ।
वीरभद्रप्रिया वीरा महाकालसमुद्भवा ॥ ११७ ॥ श्री पारवती सहस्रनाम स्तोत्रं

विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः ।
आप्यायनी हरन्ती च पावनी पोषणी खिला ॥ ११८ ॥

मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ।
करीषिणी सुधावाणी वीणावादनतत्परा ॥ ११९ ॥

सेविता सेविका सेव्या सिनीवाली गुरुत्मती ।
अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी ॥ १२० ॥

वसुप्रदा वसुमती वसोर्द्धारा वसुंधरा ।
धाराधरा वरारोहा वरावरसहस्रदा ॥ १२१ ॥

श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया ।
श्रीधरा श्रीकरी कल्या श्रीधरार्द्धशरीरिणी ॥ १२२ ॥

अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया ।
निहन्त्री दैत्यसङ्घानां सिंहिका सिंहवाहना ॥ १२३ ॥

सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया ।
रसज्ञा रसदा रामा लेलिहानाऽमृतस्रवा ॥ १२४ ॥

नित्योदिता स्वयंज्योतिरुत्सुका मृतजीवनी ।
वज्रदण्डा वज्रजिह्वा वैदेही वज्रविग्रहा ॥ १२५ ॥

मङ्गल्या मङ्गला माला मलिना मलहारिणी ।
गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ १२६ ॥

सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना ।
कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ १२७ ॥

युगंधरा युगावर्त्ता त्रिसंध्या हर्षवर्द्धनी ।
प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥ १२८ ॥

शक्रासनगता शाक्री साध्वी नारी शवासना ।
इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ १२९ ॥

शतरूपा शतावर्त्ता विनता सुरभिः सुरा ।
सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥ १३० ॥

समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा ।
धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ १३१ ॥

धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा ।
धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ १३२ ॥

धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा ।
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ॥ १३३ ॥

कापाली शाकला मूर्त्तिः कला कलितविग्रहा ।
सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ १३४ ॥

सर्वा सर्वेश्वरी सूक्ष्मा सुसूक्ष्मा ज्ञानरूपिणी ।
प्रधानपुरुषेशेशा महादेवैकसाक्षिणी ।
सदाशिवा वियन्मूर्त्तिर्विश्वमूर्त्तिरमूर्त्तिका ॥ १३५ ॥

एवं नाम्नां सहस्रेण स्तुत्वाऽसौ हिमवान् गिरिः ।
भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः ॥ १ ॥

यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ।
भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय ॥ २ ॥

एवमुक्ताऽथ सा देवी तेन शैलेन पार्वती ।
संहृत्य दर्शयामास स्वरूपमपरं पुनः ॥ ३ ॥

नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ।
द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥ ४ ॥

रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ।
श्रीमद् विशालसंवृत्तललाटतिलकोज्ज्वलम् ॥ ५ ॥

भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ।
दधानमुरसा मालां विशालां हेमनिर्मिताम् ॥ ६ ॥

ईषत्स्मितं सुबिम्बोष्ठं नूपुरारावसंयुतम् ।
प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् ॥ ७ ॥

तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ।
भीतिं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥ ८ ॥

॥ इति श्रीकूर्मपुराणे पार्वती सहस्रनाम स्तोत्रम् सम्पूर्णम् ॥

 Sri Parvati Sahasranama Stotram/श्री पारवती सहस्रनाम स्तोत्रं

॥ Sri parvati sahasranama stotram ॥

himavanuvaca ।

ka tvam devi visalaksi sasankavayavankite ।

na jane tvamaham vatse yathavad bruhi prcchate ॥ 1 ॥

girindravacanam srutva tatah sa paramesvari ।

vyajahara mahasailam yoginamabhayaprada ॥ 2 ॥ Sri Parvati Sahasranama Stotram

devyuvaca ।

mam viddhi paramam saktim paramesvarasamasrayam ।

ananyamavyayamekam yam pasyanti mumuksavah ॥ 3 ॥

aham vai sarvabhavanamatma sarvantara siva ।

sasvataisvaryavijnanamurtih sarvapravartika ॥ 4 ॥

ananta’nantamahima samsararnavatarini ।

divyam dadami te caksuh pasya me rupamaisvaram ॥ 5 ॥

etavaduktva vijnanam dattva himavate svayam ।

svam rupam darsayamasa divyam tat paramesvaram ॥ 6 ॥

kotisuryapratikasam tejobimbam nirakulam ।

jvalamalasahasradhyam kalanalasatopamam ॥ 7 ॥

damstrakaralam durddharsam jatamandalamanditam ।

trisulavarahastam ca ghorarupam bhayanakam ॥ 8 ॥

prasantam saumyavadanamanantascaryasamyutam ।

candravayavalaksmanam candrakotisamaprabham ॥ 9 ॥ Sri Parvati Sahasranama Stotram

kiritinam gadahastam nupurairupasobhitam ।

divyamalyambaradharam divyagandhanulepanam ॥ 10 ॥

sankhacakradharam kamyam trinetram krttivasasam ।

andastham candabahyastham bahyamabhyantaram param ॥ 11 ॥

sarvasaktimayam subhram sarvakaram sanatanam ।

brahmendropendrayogindrairvandyamanapadambujam ॥ 12 ॥

sarvatah panipadantam sarvato’ksisiromukham ।

sarvamavrtya tisthantam dadarsa paramesvaram ॥ 13 ॥

drstva tadidrsam rupam devya mahesvaram param ।

bhayena ca samavistah sa raja hrstamanasah ॥ 14 ॥

atmanyadhaya catmanamonkaram samanusmaran ।

namnamastasahasrena tustava paramesvarim ॥ 15 ॥

himavanuvaca ।

sivoma parama saktirananta niskala’mala ।

santa mahesvari nitya sasvati paramaksara ॥ 1 ॥

acintya kevala’nantya sivatma paramatmika । Sri Parvati Sahasranama Stotram

anadiravyaya suddha devatma sarvaga’cala ॥ 2 ॥

ekanekavibhagastha mayatita sunirmala ।

mahamahesvari satya mahadevi niranjana ॥ 3 ॥

kastha sarvantarastha ca cicchaktiratilalasa ।

nanda sarvatmika vidya jyotirupa’mrtaksara ॥ 4 ॥

santih pratistha sarvesam nivrttiramrtaprada ।

vyomamurttirvyomalaya vyomadhara’cyuta’mara ॥ 5 ॥

anadinidhana’mogha karanatma kala’kala ।

kratuh prathamaja nabhiramrtasyatmasamsraya ॥ 6 ॥

pranesvarapriya mata mahamahisaghatini ।

pranesvari pranarupa pradhanapurusesvari ॥ 7 ॥

sarvasaktikalakara jyotsna dyaurmahimaspada ।

sarvakaryaniyantri ca sarvabhutesvaresvari ॥ 8 ॥

anadiravyaktaguha mahananda sanatani ।

akasayoniryogastha mahayogesvaresvari ॥ 9 ॥ Sri Parvati Sahasranama Stotram

mahamaya suduspura mulaprakrtirisvari ।

samsarayonih sakala sarvasaktisamudbhava ॥ 10 ॥

samsarapara durvara durniriksya durasada ।

pranasaktih pranavidya yogini parama kala ॥ 11 ॥

mahavibhutirdurddharsa mulaprakrtisambhava ।

anadyanantavibhava parartha purusaranih ॥ 12 ॥

sargasthityantakarani sudurvacya duratyaya ।

sabdayonih sabdamayi nadakhya nadavigraha ॥ 13 ॥

pradhanapurusatita pradhanapurusatmika ।

purani cinmayi pumsamadih purusarupini ॥ 14 ॥

bhutantaratma kutastha mahapurusasamjnita ।

janmamrtyujaratita sarvasaktisamanvita ॥ 15 ॥

vyapini canavacchinna pradhananupravesini ।

ksetrajnasaktiravyaktalaksana malavarjita ॥ 16 ॥

anadimayasambhinna tritattva prakrtirguha ।

mahamayasamutpanna tamasi paurusi dhruva ॥ 17 ॥

vyaktavyaktatmika krsna rakta sukla prasutika ।

akarya karyajanani nityam prasavadharmini ॥ 18 ॥ Sri Parvati Sahasranama Stotram

sargapralayanirmukta srstisthityantadharmini ।

brahmagarbha caturvimsa padmanabha’cyutatmika ॥ 19 ॥

vaidyuti sasvati yonirjaganmatesvarapriya ।

sarvadhara maharupa sarvaisvaryasamanvita ॥ 20 ॥

visvarupa mahagarbha visvesecchanuvartini ।

mahiyasi brahmayonirmahalaksmisamudbhava ॥ 21 ॥

mahavimanamadhyastha mahanidratmahetuka ।

sarvasadharani suksma hyavidya paramarthika ॥ 22 ॥

anantarupa’nantastha devi purusamohini ।

anekakarasamsthana kalatrayavivarjita ॥ 23 ॥

brahmajanma harermurtirbrahmavisnusivatmika ।

brahmesavisnujanani brahmakhya brahmasamsraya ॥ 24 ॥

vyakta prathamaja brahmi mahati jnanarupini ।

vairagyaisvaryadharmatma brahmamurtirhrdisthita ।

apamyonih svayambhutirmanasi tattvasambhava ॥ 25 ॥

isvarani ca sarvani samkararddhasaririni ।

bhavani caiva rudrani mahalaksmirathambika ॥ 26 ॥ Sri Parvati Sahasranama Stotram

mahesvarasamutpanna bhuktimuktiphalaprada ।

sarvesvari sarvavandya nityam muditamanasa ॥ 27 ॥

brahmendropendranamita samkarecchanuvartini ।

isvararddhasanagata mahesvarapativrata ॥ 28 ॥

sakrdvibhavita sarva samudraparisosini ।

parvati himavatputri paramanandadayini ॥ 29 ॥

gunadhya yogaja yogya jnanamurtirvikasini ।

savitri kamala laksmih sriranantorasi sthita ॥ 30 ॥

sarojanilaya mudra yoganidra surardini ।

sarasvati sarvavidya jagajjyestha sumangala ॥ 31 ॥

vagdevi varada vacya kirtih sarvarthasadhika ।

yogisvari brahmavidya mahavidya susobhana ॥ 32 ॥

guhyavidyatmavidya ca dharmavidyatmabhavita ।

svaha visvambhara siddhih svadha medha dhrtih srutih ॥ 33 ॥

nitih sunitih sukrtirmadhavi naravahini ।

aja vibhavari saumya bhogini bhogadayini ॥ 34 ॥

sobha vamsakari lola malini paramesthini ।

trailokyasundari ramya sundari kamacarini ॥ 35 ॥ Sri Parvati Sahasranama Stotram

mahanubhava sattvastha mahamahisamardani ।

padmamala papahara vicitra mukutanana ॥ 36 ॥

kanta citrambaradhara divyabharanabhusita ।

hamsakhya vyomanilaya jagatsrstivivarddhini ॥ 37 ॥

niryantra yantravahastha nandini bhadrakalika ।

adityavarna kaumari mayuravaravahini ॥ 38 ॥

vrsasanagata gauri mahakali surarcita ।

aditirniyata raudri padmagarbha vivahana ॥ 39 ॥

virupaksi lelihana mahapuranivasini ।

mahaphala’navadyangi kamapura vibhavari ॥ 40 ॥

vicitraratnamukuta pranatartiprabhanjani ।

kausiki karsani ratristridasarttivinasini ॥ 41 ॥

bahurupa surupa ca virupa rupavarjita ।

bhaktartisamani bhavya bhavabhavavinasini ॥ 42 ॥

nirguna nityavibhava nihsara nirapatrapa ।

yasasvini samagitirbhavanganilayalaya ॥ 43 ॥ Sri Parvati Sahasranama Stotram

diksa vidyadhari dipta mahendravinipatini ।

sarvatisayini vidya sarvasiddhipradayini ॥ 44 ॥

sarvesvarapriya tarksya samudrantaravasini ।

akalanka niradhara nityasiddha niramaya ॥ 45 ॥

kamadhenurbrhadgarbha dhimati mohanasini ।

nihsankalpa niratanka vinaya vinayaprada ॥ 46 ॥

jvalamala sahasradhya devadevi manonmani ।

mahabhagavati durga vasudevasamudbhava ॥ 47 ॥

mahendropendrabhagini bhaktigamya paravara ।

jnanajneya jaratita vedantavisaya gatih ॥ 48 ॥

daksina dahana dahya sarvabhutanamaskrta ।

yogamaya vibhavajna mahamaya mahiyasi ॥ 49 ॥

samdhya sarvasamudbhutirbrahmavrksasrayanatih ।

bijankurasamudbhutirmahasaktirmahamatih ॥ 50 ॥

khyatih prajna citih samvit mahabhogindrasayini ।

vikrtih samkari sastri ganagandharvasevita ॥ 51 ॥ Sri Parvati Sahasranama Stotram

vaisvanari mahasala devasena guhapriya ।

maharatrih sivananda saci duhsvapnanasini ॥ 52 ॥

ijya pujya jagaddhatri durvijneya surupini ।

guhambika gunotpattirmahapitha marutsuta ॥ 53 ॥

havyavahantaragadih havyavahasamudbhava ।

jagadyonirjaganmata janmamrtyujaratiga ॥ 54 ॥

buddhimata buddhimati purusantaravasini ।

tarasvini samadhistha trinetra divi samsthita ॥ 55 ॥

sarvendriyamanomata sarvabhutahrdi sthita ।

samsaratarini vidya brahmavadimanolaya ॥ 56 ॥

brahmani brhati brahmi brahmabhuta bhavaranih ।

hiranmayi maharatrih samsaraparivarttika ॥ 57 ॥

sumalini surupa ca bhavini tarini prabha ।

unmilani sarvasaha sarvapratyayasaksini ॥ 58 ॥

susaumya candravadana tandavasaktamanasa ।

sattvasuddhikari suddhirmalatrayavinasini ॥ 59 ॥

jagatpriya jaganmurtistrimurtiramrtasraya ।

nirasraya nirahara nirankuravanodbhava ॥ 60 ॥ Sri Parvati Sahasranama Stotram

candrahasta vicitrangi sragvini padmadharini ।

paravaravidhanajna mahapurusapurvaja ॥ 61 ॥

vidyesvarapriya vidya vidyujjihva jitasrama ।

vidyamayi sahasraksi sahasravadanatmaja ॥ 62 ॥

sahasrarasmih sattvastha mahesvarapadasraya ।

ksalini sanmayi vyapta taijasi padmabodhika ॥ 63 ॥

mahamayasraya manya mahadevamanorama ।

vyomalaksmih simharatha cekitana’mitaprabha ॥ 64 ॥

viresvari vimanastha visoka sokanasini ।

anahata kundalini nalini padmavasini ॥ 65 ॥

sadananda sadakirtih sarvabhutasrayasthita ।

vagdevata brahmakala kalatita kalaranih ॥ 66 ॥

brahmasrirbrahmahrdaya brahmavisnusivapriya ।

vyomasaktih kriyasaktirjnanasaktih paragatih ॥ 67 ॥

ksobhika bandhika bhedya bhedabhedavivarjita ।

abhinnabhinnasamsthana vamsini vamsaharini ॥ 68 ॥ Sri Parvati Sahasranama Stotram

guhyasaktirgunatita sarvada sarvatomukhi ।

bhagini bhagavatpatni sakala kalakarini ॥ 69 ॥

sarvavit sarvatobhadra guhyatita guharanih ।

prakriya yogamata ca ganga visvesvaresvari ॥ 70 ॥

kapila kapila kanta kanakabha kalantara ।

punya puskarini bhoktri puramdarapurassara ॥ 71 ॥

posani paramaisvaryabhutida bhutibhusana ।

pancabrahmasamutpattih paramartharthavigraha ॥ 72 ॥

dharmodaya bhanumati yogijneya manojava ।

manohara manoraksa tapasi vedarupini ॥ 73 ॥

vedasaktirvedamata vedavidyaprakasini ।

yogesvaresvari mata mahasaktirmanomayi ॥ 74 ॥

visvavastha viyanmurttirvidyunmala vihayasi ।

kimnari surabhi vandya nandini nandivallabha ॥ 75 ॥

bharati paramananda paraparavibhedika ।

sarvapraharanopeta kamya kamesvaresvari ॥ 76 ॥ Sri Parvati Sahasranama Stotram

acintya’cintyavibhava hrllekha kanakaprabha ।

kusmandi dhanaratnadhya sugandha gandhadayini ॥ 77 ॥

trivikramapadodbhuta dhanuspanih sivodaya ।

sudurlabha dhanadhyaksa dhanya pingalalocana ॥ 78 ॥

santih prabhavati diptih pankajayatalocana ।

adya hrtkamalodbhuta gavam mata ranapriya ॥ 79 ॥

satkriya girija suddha nityapusta nirantara ।

durgakatyayani candi carcika santavigraha ॥ 80 ॥

hiranyavarna rajani jagadyantrapravartika ।

mandaradrinivasa ca sarada svarnamalini ॥ 81 ॥

ratnamala ratnagarbha prthvi visvapramathini ।

padmanana padmanibha nityatusta’mrtodbhava ॥ 82 ॥

dhunvati duhprakampya ca suryamata drsadvati ।

mahendrabhagini manya varenya varadarpita ॥ 83 ॥ Sri Parvati Sahasranama Stotram

kalyani kamala rama pancabhuta varaprada ।

vacya varesvari vandya durjaya duratikrama ॥ 84 ॥

kalaratrirmahavega virabhadrapriya hita ।

bhadrakali jaganmata bhaktanam bhadradayini ॥ 85 ॥

karala pingalakara namabheda’mahamada ।

yasasvini yasoda ca sadadhvaparivarttika ॥ 86 ॥

sankhini padmini samkhya samkhyayogapravartika ।

caitra samvatsararudha jagatsampuranindraja ॥ 87 ॥

sumbharih khecari svastha kambugriva kalipriya ।

khagadhvaja khagarudha parardhya paramalini ॥ 88 ॥

aisvaryavartmanilaya virakta garudasana ।

jayanti hrdguha ramya gahvarestha ganagranih ॥ 89 ॥

samkalpasiddha samyastha sarvavijnanadayini ।

kalikalmasahantri ca guhyopanisaduttama ॥ 90 ॥

nistha drstih smrtirvyaptih pustistustih kriyavati ।

visvamaresvaresana bhuktirmuktih siva’mrta ॥ 91 ॥ Sri Parvati Sahasranama Stotram

lohita sarpamala ca bhisani vanamalini ।

anantasayana’nanya naranarayanodbhava ॥ 92 ॥

nrsimhi daityamathani sankhacakragadadhara ।

samkarsanasamutpattirambikapadasamsraya ॥ 93 ॥

mahajvala mahamurttih sumurttih sarvakamadhuk ।

suprabha sustana gauri dharmakamarthamoksada ॥ 94 ॥

bhrumadhyanilaya purva puranapurusaranih ।

mahavibhutida madhya sarojanayana sama ॥ 95 ॥

astadasabhuja’nadya nilotpaladalaprabha ।

sarvasaktyasanarudha dharmadharmarthavarjita ॥ 96 ॥

vairagyajnananirata niraloka nirindriya ।

vicitragahanadhara sasvatasthanavasini ॥ 97 ॥

sthanesvari nirananda trisulavaradharini ।

asesadevatamurttirdevata varadevata ।

ganambika gireh putri nisumbhavinipatini ॥ 98 ॥ Sri Parvati Sahasranama Stotram

avarna varnarahita nivarna bijasambhava ।

anantavarna’nanyastha samkari santamanasa ॥ 99 ॥

agotra gomati goptri guhyarupa gunottara ।

gaurgirgavyapriya gauni ganesvaranamaskrta ॥ 100 ॥

satyamatra satyasamdha trisamdhya samdhivarjita ।

sarvavadasraya samkhya samkhyayogasamudbhava ॥ 101 ॥

asamkhyeya’prameyakhya sunya suddhakulodbhava ।

bindunadasamutpattih sambhuvama sasiprabha ॥ 102 ॥

visanga bhedarahita manojna madhusudani ।

mahasrih srisamutpattistamahpare pratisthita ॥ 103 ॥

tritattvamata trividha susuksmapadasamsraya ।

santyatita malatita nirvikara nirasraya ॥ 104 ॥

sivakhya cittanilaya sivajnanasvarupini ।

daityadanavanirmatri kasyapi kalakalpika ॥ 105 ॥

sastrayonih kriyamurtiscaturvargapradarsika ।

narayani narodbhutih kaumudi lingadharini ॥ 106 ॥

kamuki lalita bhava paraparavibhutida ।

parantajatamahima badava vamalocana ॥ 107 ॥

subhadra devaki sita vedavedangaparaga ।

manasvini manyumata mahamanyusamudbhava ॥ 108 ॥

amrtyuramrta svaha puruhuta purustuta ।

asocya bhinnavisaya hiranyarajatapriya ॥ 109 ॥

hiranya rajati haimi hemabharanabhusita ।

vibhrajamana durjneya jyotistomaphalaprada ॥ 110 ॥

mahanidrasamudbhutiranidra satyadevata ।

dirgha kakudmini hrdya santida santivarddhini ॥ 111 ॥

laksmyadisaktijanani sakticakrapravartika ।

trisaktijanani janya sadurmiparivarjita ॥ 112 ॥

sudhama karmakarani yugantadahanatmika ।

samkarsani jagaddhatri kamayonih kiritini ॥ 113 ॥

aindri trailokyanamita vaisnavi paramesvari ।

pradyumnadayita danta yugmadrstistrilocana ॥ 114 ॥

madotkata hamsagatih pracanda candavikrama ।

vrsavesa viyanmata vindhyaparvatavasini ॥ 115 ॥

himavanmerunilaya kailasagirivasini ।

canurahantrtanaya nitijna kamarupini ॥ 116 ॥

vedavidyavratasnata dharmasila’nilasana ।

virabhadrapriya vira mahakalasamudbhava ॥ 117 ॥

vidyadharapriya siddha vidyadharanirakrtih ।

apyayani haranti ca pavani posani khila ॥ 118 ॥

matrka manmathodbhuta varija vahanapriya ।

karisini sudhavani vinavadanatatpara ॥ 119 ॥

sevita sevika sevya sinivali gurutmati ।

arundhati hiranyaksi mrganka manadayini ॥ 120 ॥

vasuprada vasumati vasorddhara vasumdhara ।

dharadhara vararoha varavarasahasrada ॥ 121 ॥

sriphala srimati srisa srinivasa sivapriya ।

sridhara srikari kalya sridhararddhasaririni ॥ 122 ॥

anantadrstiraksudra dhatrisa dhanadapriya ।

nihantri daityasanghanam simhika simhavahana ॥ 123 ॥

susena candranilaya sukirtischinnasamsaya ।

rasajna rasada rama lelihana’mrtasrava ॥ 124 ॥

nityodita svayamjyotirutsuka mrtajivani ।

vajradanda vajrajihva vaidehi vajravigraha ॥ 125 ॥

mangalya mangala mala malina malaharini ।

gandharvi garudi candri kambalasvatarapriya ॥ 126 ॥

saudamini janananda bhrukutikutilanana ।

karnikarakara kaksya kamsapranapaharini ॥ 127 ॥

yugamdhara yugavartta trisamdhya harsavarddhani ।

pratyaksadevata divya divyagandha divapara ॥ 128 ॥

sakrasanagata sakri sadhvi nari savasana ।

ista visista sistesta sistasistaprapujita ॥ 129 ॥

satarupa satavartta vinata surabhih sura ।

surendramata sudyumna susumna suryasamsthita ॥ 130 ॥

samiksya satpratistha ca nivrttirjnanaparaga ।

dharmasastrarthakusala dharmajna dharmavahana ॥ 131 ॥

dharmadharmavinirmatri dharmikanam sivaprada ।

dharmasaktirdharmamayi vidharma visvadharmini ॥ 132 ॥

dharmantara dharmamegha dharmapurva dhanavaha ।

dharmopadestri dharmatma dharmagamya dharadhara ॥ 133 ॥

kapali sakala murttih kala kalitavigraha ।

sarvasaktivinirmukta sarvasaktyasrayasraya ॥ 134 ॥

sarva sarvesvari suksma susuksma jnanarupini ।

pradhanapurusesesa mahadevaikasaksini ।

sadasiva viyanmurttirvisvamurttiramurttika ॥ 135 ॥

evam namnam sahasrena stutva’sau himavan girih ।

bhuyah pranamya bhitatma provacedam krtanjalih ॥ 1 ॥

yadetadaisvaram rupam ghoram te paramesvari ।

bhito’smi sampratam drstva rupamanyat pradarsaya ॥ 2 ॥

evamukta’tha sa devi tena sailena parvati ।

samhrtya darsayamasa svarupamaparam punah ॥ 3 ॥

nilotpaladalaprakhyam nilotpalasugandhikam ।

dvinetram dvibhujam saumyam nilalakavibhusitam ॥ 4 ॥

raktapadambujatalam suraktakarapallavam ।

srimad visalasamvrttalalatatilakojjvalam ॥ 5 ॥

bhusitam carusarvangam bhusanairatikomalam ।

dadhanamurasa malam visalam hemanirmitam ॥ 6 ॥

isatsmitam subimbostham nupuraravasamyutam ।

prasannavadanam divyamanantamahimaspadam ॥ 7 ॥

tadidrsam samalokya svarupam sailasattamah ।

bhitim samtyajya hrstatma babhase paramesvarim ॥ 8 ॥

॥ iti srikurmapurane parvati sahasranama stotram sampurnam ॥