Shri Sharadesha Sahasranama Stotram, श्री शरादेषा सहस्रनाम स्तोत्रं

श्री शरादेषा सहस्रनाम स्तोत्रं/Shri Sharadesha Sahasranama Stotram

श्री शरादेषा सहस्रनाम स्तोत्रं/Shri Sharadesha Sahasranama Stotram

श्री शारदेश सहस्रनाम स्तोत्रम्

 देव्युवाच ।

देवदेव महादेव गिरीश जगतां पते ।
सहस्रनामस्तोत्रं मे कृपयास्य वद प्रभो ॥ १ ॥

शिव उवाच ।

ब्रह्मणस्पतिसूक्तस्थं मन्त्रादिवर्णसम्भवम् ।
सहस्रनामस्तोत्रं तु वैदिकं ते ब्रवीम्यहम् ॥ २ ॥

शारदेशमन्त्रवच्च ऋष्यादिकमुदीरितम् ।
सरस्वतीपतिस्सोमराजस्सोमप्रपूजितः ॥ ३ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

सोमार्धशेखरस्सिद्धस्सिद्धेशस्सिद्धिनायकः ।
सिद्धवन्द्यस्सिद्धपूज्यस्सर्वविद्याप्रदायकः ॥ ४ ॥

सर्वात्मा सर्वदेवात्मा सदसद्व्यक्तिदायकः ।
संसारवैद्यस्सर्वज्ञस्सर्वभेषजभेषजम् ॥ ५ ॥

सृष्टिस्थितिलयक्रीडो यदुनाथवरप्रदः ।
योगगम्यो योगमयो योगशान्तिप्रदायकः ॥ ६ ॥

योगाचार्यो योगदाता योगब्रह्म युगाधिपः ।
यज्ञेश्वरो यज्ञमूर्तिर्यजमानेष्टदायकः ॥ ७ ॥

यज्ञकर्ता यज्ञधर्ता यज्ञभोक्ता यमीश्वरः ।
मयूरेशो मयूरेशपुराधीशो मयूरपः ॥ ८ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

मयूरवाहनो मायी मायिको मधुरप्रियः ।
मन्त्रो मन्त्रप्रियो मन्त्री मदमत्तमनोरमः ॥ ९ ॥

मन्त्रसिद्धिप्रदो मन्त्रज्ञानदो मुक्तिदायकः ।
मन्दाकिनीतीरवासी मुद्गरायुधधारकः ॥ १० ॥

स्वानन्दवासी स्वानन्दनायकस्सुखदायकः ।
स्वस्वानन्दप्रदस्स्वस्वानन्दयोगसुलभ्यकः ॥ ११ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

स्वानन्दभवनाधीशस्स्वर्गस्वानन्दनायकः ।
स्वर्गस्वानन्दनिलयस्स्वर्गस्वानन्दसौख्यदः ॥ १२ ॥

सुखात्मा सुरसम्पूज्यस्सुरेन्द्रपददायकः ।
सुरेन्द्रपूजितस्सोमराजपुत्रस्सुरार्चितः ॥ १३ ॥

सुरेन्द्रात्मा तत्त्वमयस्तरुणस्तरुणीप्रियः ।
तत्पदस्तत्पदाराध्यस्तपस्वीजनसेवितः ॥ १४ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

तापसस्तापसाराध्यस्तपोमार्गप्रकाशकः ।
तत्त्वमस्याकृतिधरस्तत्त्वमस्यार्थबोधकः ॥ १५ ॥

तत्त्वानां परमं तत्त्वं तारकान्तरसंस्थितः ।
तारकस्तारकमुखस्तारकान्तकपूजितः ॥ १६ ॥

तत्त्वातीतस्तत्त्वमयस्तरुणादित्यपाटलः ।
उपेन्द्र उडुभृन्मौलिरुण्डेरकबलिप्रियः ॥ १७ ॥

उच्छिष्टगण उच्छिष्ट उच्छिष्टगणनायकः ।
उपेन्द्रपूजितपद उपेन्द्रवरदायकः ॥ १८ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

उन्नतानन उत्तुङ्ग उदारत्रिदशाग्रणी ।
उमापूजितपादाब्ज उमाङ्गमलसम्भवः ॥ १९ ॥

उमावाञ्छितसन्दाता उमेशपरिपूजितः ।
उमापुत्र उमापुत्रपूज्य उमेशविग्रहः ॥ २० ॥

तुरीयस्तुर्यपदगस्तुरीयमूर्तिसंयुतः ।
तुम्बुरुस्तोत्रसन्तुष्टस्तुरीयवेदसंस्तुतः ॥ २१ ॥

तुरीयात्मा तुर्यपददस्तुम्बुरुगानतोषितः ।
तुष्टिप्रियस्तुण्डवक्रस्तुषारहिमसन्निभः ॥ २२ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

तुरीयलोकनिलयस्तुरीयगुणधारकः ।
तुरीयमूर्तिसम्पूज्यः परमात्मा परात्परः ॥ २३ ॥

परञ्ज्योतिः परन्धाम पूर्णप्रणवविग्रहः ।
प्रणवः प्रणवाराध्यः प्रणवातीतविग्रहः ॥ २४ ॥

प्रणवास्यः परम्ब्रह्म पुरुषः प्रकृतेः परः ।
पुराणपुरुषः पूतः पुण्यापुण्यफलप्रदः ॥ २५ ॥

पद्मप्रसन्ननयनः पद्मजार्चित पादुकः ।
ययातिपूजनप्रीतो ययातिवरदायकः ॥ २६ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

यमीष्टवरसन्दाता यमीसौभाग्यदायकः ।
यमीभुक्तिमुक्तिदाता यमीज्ञानप्रदायकः ॥ २७ ॥

योगमुद्गलसम्पूज्यो योगमुद्गलसिद्धिदः ।
योगमुद्गलविज्ञाता योगमुद्गलदेशिकः ॥ २८ ॥

योगियोगप्रदो योगिज्ञानदो योगशास्त्रकृत् ।
योगभूमिधरो योगमायिको योगमार्गवित् ॥ २९ ॥

पद्मेश्वरः पद्मनाभः पद्मनाभप्रपूजितः ।
पद्मापतिः पशुपतिः पशुपाशविमोचकः ॥ ३० ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

पाशपाणिः पर्शुधरः पङ्कजासनसंस्थितः ।
पङ्कजासनसम्पूज्यः पद्ममालाधरः पतिः ॥ ३१ ॥

पन्नगाभरणः पन्नगेशः पन्नगभूषणः ।
पन्नगेशसुतः पन्नगेशलोकनिवासकृत् ॥ ३२ ॥

तमोहर्ता तामसीशस्तमोभर्ता तमोमयः ।
स्तव्यस्तुतिप्रियस्तोत्रं स्तोत्रराजप्रतोषितः ॥ ३३ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

स्तवराजप्रियः स्तुत्यस्तुरुष्कसङ्घनाशकः ।
स्तोमयज्ञप्रियः स्तोमफलदः स्तोमसिद्धिदः ॥ ३४ ॥

स्नानप्रियस्स्नानभर्ता स्नातकाभीष्टदायकः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ३५ ॥

कमण्डलुनदीतीरनिवासी कटिसूत्रभृत् ।
कदम्बगोलकाकारः कूष्माण्डगणनायकः ॥ ३६ ॥

कस्तूरितिलकोपेतः कामेशः कामपूजितः ।
कमण्डलुधरः कल्पः कपर्दी कलभाननः ॥ ३७ ॥

कारुण्यदेहः कपिलः कपिलाभीष्टदायकः ।
उग्र उग्रायुधधरो उग्ररुद्रप्रपूजितः ॥ ३८ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

उग्रहर्ता उग्रभर्ता उग्रशासनकारकः ।
उग्रपाण्ड्यसुसम्पूज्य उग्रपाण्ड्येष्टदायकः ॥ ३९ ॥

उम्बीजजपसुप्रीत उदीचीदिशि संस्थितः ।
उदङ्मुख उदग्देशनिवासी उचितप्रियः ॥ ४० ॥

उचितज्ञो गणेशानो गणक्रीडो गणाधिपः ।
गणनाथो गजमुखो गुणेशो गणनायकः ॥ ४१ ॥

गुणाधारो गुणमयो गुणशान्तिप्रधारकः ।
गँ बीजो गँ पदाराध्यो गजाकारो गजेश्वरः ॥ ४२ ॥

गङ्गाधरसमाराध्यो गङ्गातीरविहारकृत् ।
दक्षयज्ञप्रमथनो दहराकाशमध्यगः ॥ ४३ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

दक्षो दक्षभक्तितुष्टो दक्षयज्ञवरप्रदः ।
देवेशो दण्दनीतिस्थो दैत्यदानवमोहनः ॥ ४४ ॥

दयावान् दिव्यविभवो दक्षिणामूर्तिनन्दनः ।
दक्षिणामूर्तिसन्ध्यातपदो देवसुरक्षकः ॥ ४५ ॥

दक्षिणावर्तक्षेत्रस्थो देवेन्द्रपूजनप्रियः ।
द्वैमातुरो द्विवदनो द्विपास्यो द्वीपरक्षकः ॥ ४६ ॥

द्विरदो द्विरदेशान आधारशक्ति मूर्ध्निगः ।
आखुकेतन आशापूरक आखुमहारथः ॥ ४७ ॥

आधारपीठ आधार आधाराधेयवर्जितः ।
आश्रिताभीष्टसन्दाता आमोदामोददायकः ॥ ४८ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

आनन्दभवनाधीश आनन्दमूर्तिधारकः ।
आनन्दमय आनन्द आनन्दकोशसंस्थितः ॥ ४९ ॥

आखुध्वज आखुवाह आनन्दातीतविग्रहः ।
सुधाप्रियस्सुधामूर्तिस्सुधासागरमध्यगः ॥ ५० ॥

सुधापानरतस्सिन्धुदैत्यहा सिन्धुदेशगः ।
सामगानप्रियस्साधुस्साधुसिद्धिप्रदायकः ॥ ५१ ॥

सप्ताश्वपूजितपदस्सप्ताश्वरथमध्यगः ॥

सप्तलोकशरीराढ्यस्सप्तद्वीपनिवासकृत् ॥ ५२ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

समुद्रराजसम्पूज्यो नागास्यो नगजासुतः ।
नन्द्यो नन्दिप्रियो नादो नादमध्ये प्रतिष्ठितः ॥ ५३ ॥

निर्मलो निष्कलो नित्यो निरवद्यो निरञ्जनः ।
नारदादिसुसंसेव्यो नित्यानित्यो निरामयः ॥ ५४ ॥

नामपारायणप्रीतो निर्गुणो निजलोकगः ।
तन्नामजपसुप्रीतस्तत्त्वातत्त्व विवेकदः ॥ ५५ ॥

तद्भक्तजनसंसेव्यस्तदाज्ञा परिपालकः ।
तिन्त्रिण्यन्नप्रियतमस्तन्त्रशास्त्रविशारदः ॥ ५६ ॥

तन्त्रगम्यस्तन्त्रवेद्यस्तन्त्रमार्गप्रकाशकः ।
तन्त्राराधनसन्तुष्टस्तन्त्रसिद्धिप्रदायकः ॥ ५७ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

तन्त्रमुद्राप्रमुदितस्तन्त्रन्यासप्रतोषितः ।
तन्त्राभासमार्गहर्ता तन्त्रपाषण्डखण्डकः ॥ ५८ ॥

तन्त्रयोगमार्गगम्य ऊहापोहदुरासदः ।
ऊर्जस्वानूष्मलमद ऊनषोडशवार्षिकः ॥ ५९ ॥

ऊडापूजनसन्तुष्ट ऊहापोहविवर्जितः ।
उमास्नुषासुसंश्लिष्ट ऊडाबालामनोरमः ॥ ६० ॥

उमेशपूजितपद उमेशाभीष्टदायकः ।
ऊतिप्रिय ऊतिनुत ऊतिकृद्वरदायकः ॥ ६१ ॥ श्री शरादेषा सहस्रनाम स्तोत्रं

ऊतित्रयीगानवर ऊतित्रिवेदकारणम् ।
ऊतिभङ्गिप्रियतमः त्राता त्रिवेदनायकः ॥ ६२ ॥

त्रिगुणात्मा त्रिलोकादिः त्रिवक्त्रस्त्रिपदान्वितः ।
त्रिमूर्तिजनकस्त्रेता त्रिकरस्त्रिविलोचनः ॥ ६३ ॥

त्रिमूर्तिजपसन्तुष्टः त्रिमूर्तिवरदायकः ।
त्रिवेणीतीरसंवासी त्रिवेणीस्नानतोषितः ॥ ६४ ॥

त्रिवेणीक्षेत्रनिलयः त्रिवेणीमुण्डनप्रियः ।
त्रिवेणीसङ्गमस्थायी त्रिवेणीक्षेत्रसिद्धिदः ॥ ६५ ॥

त्रिसन्ध्याक्षेत्रनिलयस्त्रिसन्ध्याक्षेत्रपालकः ।
त्रिसन्ध्याक्षेत्रजनकस्त्रिसन्ध्यागतदैत्यहा ॥ ६६ ॥

त्रिसन्ध्यागमुनीशानपाता त्रिसन्धिक्षेत्रगः ।
त्रिसन्ध्यातापसाराध्यस्त्रिसन्ध्यामुनिपालकः ॥ ६७ ॥

त्रिसन्ध्यामुनिदर्पघ्नस्त्रिपुराभीष्टदायकः ।
त्रिपुरापूजनप्रीतस्त्रिपुरान्तकपूजितः ॥ ६८ ॥

त्रिपुरेशीसमाराध्यस्त्र्यम्बकस्त्रिपुरान्तकः ।
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ॥ ६९ ॥

अनाविलोऽप्रतिरथ अष्टात्रिंशत्कलातनुः
अलम्पटो मितो क्षय्योऽधनांशोऽप्रतिमाननः ॥ ७० ॥

अष्टसिद्धिसमृद्धि श्रीरष्टभैरवसेवितः ।
अष्टादशौषधी सृष्टिरष्टद्रव्यहविः प्रियः ॥ ७१ ॥

अष्टमूर्तिध्येयमूर्तिरष्टमात्रसमावृतः ।
अष्टपत्राम्बुजासीन अष्टप्रकृतिकारणम् ॥ ७२ ॥

अष्टचक्रस्फुरन्मूर्तिरष्टैश्वर्यप्रदायकः ।
अष्टपीठोपपीठश्रीरष्टदिक्पतिवन्दितः ॥ ७३ ॥

अग्निरक्षमालिकाढ्यो व्ययोऽष्टवसुवन्दितः ।
अष्टादशपुराणेड्य अष्टादशविधिस्मृतः ॥ ७४ ॥

अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ।
भवाब्धितारको भाषाजनको भारतीपतिः ॥ ७५ ॥

भीमो भीमविघ्नहर्ता भयत्राता भवोद्भवः ।
भवानीतनयो भक्तिप्रियो भक्तप्रवालकः ॥ ७६ ॥

भक्ताधीनो भक्तिवश्यो भुवनेशीवरप्रदः ।
भूपतिर्भुवनपतिर्भूतेशो भुवनेश्वरः ॥ ७७ ॥

तेजोवतीशिरोरत्नस्तेजोमण्डलमध्यगः ।
तेजोमयलोकवासी तेजोमयकलेबरः ॥ ७८ ॥

तेजोरूपी तैजसेशस्तेजःपुञ्जस्वरूपवान् ।
तेजस्तत्त्वेशसम्पूज्यस्तेजस्तत्त्वेष्टदायकः ॥ ७९ ॥

तिथिमातृसमुद्भूतस्तिथिमातृवरप्रदः ।
तिथिमातृसमाराध्यस्तिथिमातृप्रतोषितः ॥ ८० ॥

तिथिमात्रव्रतप्रीतस्तिथिमात्रेष्टदायकः ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ ८१ ॥

बृहत्तमो ब्रह्मवरो ब्रह्मण्यो ब्रह्मवित्तमः ।
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ ८२ ॥

ब्रह्मेशो ब्रह्मलोकस्थो ब्रह्मपुत्रीसमन्वितः ।
बृहदारण्यसंवेद्यो ब्रह्मविद्यामदोत्कटः ॥ ८३ ॥

ब्रह्माण्डकुन्दो ब्रह्मीशो ब्रह्मावर्तनिवासकृत् ।
ब्रह्मानन्दमयो ब्रह्मतनयो ब्रह्मणस्पतिः ॥ ८४ ॥

मन्दारवृक्षसम्भूतो मन्दारकुसुमप्रियः ।
मन्दारभक्तवरदो मन्दारभक्तितोषितः ॥ ८५ ॥

मन्दारपूजनप्रीतो मन्दारमणिधारकः ।
मन्दारमणिसुप्रीतो मुनिमण्डलमध्यगः ॥ ८६ ॥

मुनिपुत्रो मुनीशानो मुनिमानसहंसिकः ।
मुनिपुत्रसहचरो मुनिबालसमावृतः ॥ ८७ ॥

मुनिबालाभीष्टदाता मुनिबालसमर्चितः ।
मुनिबालभक्तितुष्टो मुनिबालेप्सितप्रदः ॥ ८८ ॥

विनायको विघ्नराजो विनतातनयप्रियः ।
वरेण्यो वेदजनको वेदवेदाङ्ग तत्त्ववित् ॥ ८९ ॥

वेदान्तशास्त्रसंवेद्यो वेदान्तागमगोचरः ।
वन्द्यो वागीशसंसेव्यो वामनो वामनार्चितः ॥ ९० ॥

वागीश्वरीपतिर्वाणीनायको वरदायकः ।
विद्याप्रदो विभवदो वरेण्यतनयो वशी ॥ ९१ ॥

स्तनन्धयः स्तन्यपानरतः स्तन्यप्रवर्धकः ।
स्तनन्धयप्रियस्तुर्यशक्तिपुत्रस्तुरीयपः ॥ ९२ ॥

तौलिस्नानपरस्तौलिमासस्नानप्रतोषितः ।
तौलिमासजपप्रीतस्तौलिदानफलप्रदः ॥ ९३ ॥

तुङ्गभद्रातीरसंस्थस्तुङ्गास्नानफलप्रदः ।
तुङ्गाजलपानरतः तुङ्गशैलनिवासकृत् ॥ ९४ ॥

तरङ्गकेलिसंसक्तस्तरङ्गाब्धिप्रभेदकः ।
ब्राह्मणस्पत्ययज्ञेशो ब्राह्मणस्पत्यहोमभुक् ॥ ९५ ॥

ब्राह्मणस्पत्येष्टिभोक्ता ब्रह्मसूत्रप्रबन्धकृत् ।
बृहज्जाबालसंवेद्यो ब्रह्मविद्याप्रदायकः ॥ ९६ ॥

बृहन्मायो बृहत्सेनो बृहद्विद्यो बृहद्धनः ।
बृहद्गणो बृहत्कुक्षिर्बृहद्भानुर्बृहद्बलः ॥ ९७ ॥

बृहद्राज्यप्रदो ब्रह्मसूत्रधृक् बृहदीश्वरः ।
सवितृमण्डलमध्यस्थस्सविता सवितार्चितः ॥ ९८ ॥

सावित्रस्सविताराध्यस्सूरस्सूर्योऽथ सूरजः ।
सावित्रीतनयस्सूर्यमूर्तिस्सौरप्रपूजितः ॥ ९९ ॥

सूरसूतसमाराध्यस्सौरमार्गप्रकाशकः ।
सुरवृक्षमूलसंस्थस्सुरद्रुमसुमप्रियः ॥ १०० ॥

सुरचन्दनदिग्धाङ्गः स्वर्गसौख्यप्रदायकः ।
योगाग्निकुण्डसञ्जातो योगाग्निज्योतिरूपवान् ॥ १०१ ॥

योनिपीठसन्निषण्णो योनिमुद्राप्रतोषितः ।
यास्कप्रियो यास्कपूज्यो यास्केष्टफलदायकः ॥ १०२ ॥

योनिसंस्थपुष्कराढ्यो योगिनीगणसेवितः ।
योगिनीसेवितपदो योगिनीशक्तिसंवृतः ॥ १०३ ॥

योगाङ्गवेद्यचरणो योगसाम्राज्यदायकः ।
योगगीताप्रदो योगमन्त्रदो योगविग्रहः ॥ १०४ ॥

तरातललोकवासी तरातलजनावृतः ।
तरुणादित्यसङ्काशस्तरुणेन्दुसमर्चितः ॥ १०५ ॥

तालीवनसमासीनस्तालीफलसुभक्षकः ।
तालीमधुरसप्रीतस्तालीगुळसुभक्षकः ॥ १०६ ॥

तालीवनदेवतेड्यस्तालीदेवीवरप्रदः ।
तालजङ्घदैत्यहरस्तालजङ्घारिपूजितः ॥ १०७ ॥

तमालश्यामलाकारस्तमालकुसुमप्रियः ।
तमालवनसञ्चारी तमालदेवताप्रियः ॥ १०८ ॥

अनन्तनामानन्तश्रीरनन्तानन्तसौख्यदः ।
अनन्तवदनोऽनन्तलोचनोऽनन्तपादुकः ॥ १०९ ॥

अनन्तमकुटोपेत अनन्तश्रुतिमण्डितः ।
अनन्तकुक्षिपृष्ठाढ्य अनन्तजानुमण्डितः ॥ ११० ॥

अनन्तोरुभ्राजमानोऽनन्तस्कन्धगलान्वितः ।
अनन्तबाहुपाण्याढ्य अनन्तगुह्यलिङ्गकः ॥ १११ ॥

अनन्तोदारगुणवाननन्तोदारविक्रमः ।
अनन्तसूर्यसङ्काश अनन्तेन्दुसुशीतलः ॥ ११२ ॥

सदाशिवसमाराध्यस्सदाशिवसुवीर्यजः ।
सदाशिवगणेशानस्सदाशिवपदप्रदः ॥ ११३ ॥

सदाशिवविघ्नहरस्सदाशिववरप्रदः ।
सदाशिवहास्यहेतुः सदाशिवविमोहकः ॥ ११४ ॥

सदाशिवचन्द्रहर्ता सदाशिवहृदिस्थितः ।
सदाशिवरूपधरः सदाशिवसमीपगः ॥ ११५ ॥

सदाशिवशक्तिपुत्रस्सदाशिवसुताग्रजः ।
अश्वास्यमुनीसंसेव्य अश्वास्यभक्तितोषितः ॥ ११६ ॥

अश्वास्यज्ञानसन्दाता अश्वास्ययोगदायकः ।
अश्वास्यजपसुप्रीत अश्वास्यशास्त्रतोषितः ॥ ११७ ॥

अश्वास्यविघ्नसंहर्ता अश्वास्यसिद्धिदायकः ।
अश्वास्यदैत्यसंहर्ता अश्विनीऋक्षसम्भवः ॥ ११८ ॥

अश्विनीदेवताराध्य अश्विनीशास्त्रतोषितः ।
अम्बिकायज्ञसन्तुष्ट अम्बिकाभीष्टदायकः ॥ ११९ ॥

अम्बासुतोऽम्बिकालोकसंस्थोऽम्बागणसेवितः ।
ऋग्यजुस्सामसम्भूति ऋद्धिसिद्धिप्रवर्तकः ॥ १२० ॥

ऋद्धिप्रदो ऋद्धिनाथो ऋणत्रयविमोचकः ।
ऋग्वेदसूक्तसन्तुष्टो ऋग्वेदमन्त्रतोषितः ॥ १२१ ॥

ऋग्वेदब्राह्मणप्रीतो ऋग्वेदारण्यहर्षितः ।
ऋग्वेदब्राह्मणस्पत्यसूक्तोपनिषदीरितः ॥ १२२ ॥

ऋतो ऋग्वेदजनको ऋणहा ऋद्धिपूजितः ।
ऋतम्भराप्रज्ञयाज्यो ऋद्धिनाथप्रतोषितः ॥ १२३ ॥

ऋवर्णचक्रमध्यस्थो ऋवर्णजपतोषितः ।
ऋवर्णमात्रकाधिशो ऋवर्णशक्तिनायकः ॥ १२४ ॥

ऋतप्रियो ऋताधीशो ऋतज्ञो ऋतपालकः ।
ऋतदेवसमाराध्यो ऋतलोकनिवासकृत् ॥ १२५ ॥

ऋतम्भरापीठसंस्थो ऋताधीनसुविग्रहः ।
ऋतम्भरामार्गवासी ऋतपालकपालकः ॥ १२६ ॥

ऋतवाक् ऋतसङ्कल्पो ऋतसङ्कल्पदायकः ।
ससन्नयः सविनयः सुब्रह्मण्यगणेश्वरः ॥ १२७ ॥

सुष्ठुस्रष्टा सुष्ठुपाता सुरकुञ्जरभेदनः ।
सुरमात्रतृसमाराध्यस्सुरमातृवरप्रदः ॥ १२८ ॥

सुरमातृसुतस्सुष्ठु नरदेवप्रपालकः ।
सुरान्तको दैत्यहरस्सुरवर्गप्रपालकः ॥ १२९ ॥

सुपर्वाणस्सिद्धिदाता सुपर्वाणगणावृतः ।
सिंहारूढस्सिंहवाहस्सिंहास्यस्सिंहदर्पहा ॥ १३० ॥

विभुर्विभुगणाधीशो विश्वनाथसमर्चितः ।
विश्वातीतो विश्वकर्ता विश्वपाता विराट्पतिः ॥ १३१ ॥

विश्वनाथसुतो विश्वनाथशक्तिसमुद्भवः ।
विश्वनाथक्षेत्रदाता विश्वनाथप्रपालकः ॥ १३२ ॥

विश्वनाथपूजिताङ्घ्रियुगलो विश्ववन्दितः ।
विश्वेश्वरो वीतिहोत्रो वीतिहोत्रसमर्चितः ॥ १३३ ॥

युद्धकृद्युद्धवीरेशो युद्धमण्डलसंस्थितः ।
युद्धेश्वरो युद्धनाथो युद्धे सिद्धिप्रदायकः ॥ १३४ ॥

युद्धवीरो युद्धशूरो युद्धेशजयदायकः ।
युद्धकालीश्वरो योधनाथो योधगणावृतः ॥ १३५ ॥

योधाग्रगण्यो योधेशो योधेशजयदायकः ।
योधविघ्नप्रशमनो योधसिद्धिप्रदायकः ॥ १३६ ॥

वसिष्ठदेवो वासिष्ठो वसिष्ठकुलभूषणः ।
विश्वामित्रप्रियकरो विश्वामित्राभयप्रदः ॥ १३७ ॥

विश्वामित्रसिद्धिदाता विश्वामित्राश्रमे स्थितः ।
विश्वामित्रतपस्तुष्टो विश्वामित्रेप्सितप्रदः ॥ १३८ ॥

विश्वामित्रज्ञानदाता विश्वामित्रसुयोगदः ।
विश्वामित्रवंशदेवो विश्वामित्रेष्टदैवतम् ॥ १३९ ॥

वामदेवसमाराध्यो वाममार्गप्रतोषितः ।
उरुक्रमसमाराध्य उरुक्रमवरप्रदः ॥ १४० ॥

उरुक्रमयज्ञदाता उरुक्रममखोद्भवः ।
उरुक्रमेन्द्रपदद उरुक्रमसुरक्षकः ॥ १४१ ॥

उरुक्रमवंशदेव उरुभीमपराक्रमः ।
ऊर्वशीनटनप्रीतः ऊर्वशीगानलोलुपः ॥ १४२ ॥

ऊर्वशीपुत्रसुखद ऊर्वशीनाथपूजितः ।
ऊर्वशीनाथेप्सितद ऊर्वशीलोकदायकः ॥ १४३ ॥

ब्राह्मणो ब्राह्मणेशान ब्राह्मणेन्द्रसुपूजितः ।
ब्राह्मण्यकर्मसन्तुष्टो ब्राह्मण्यमन्त्रतोषितः ॥ १४४ ॥

ब्राह्मणब्रह्मयज्ञेशो ब्राह्मणवरदायकः ।
ब्राह्मणाय वेददाता ब्राह्मणायार्थदायकः ॥ १४५ ॥

ब्राह्मणाय कामदाता ब्राह्मणाय सुमुक्तिदः ।
ब्रह्ममेधयज्ञतुष्टो ब्रह्ममेधहविःप्रियः ॥ १४६ ॥

ब्रह्ममेधसंस्कृताय ब्रह्मलोकप्रदायकः ।
ब्रह्मप्रियगणेशानो ब्रह्मप्रियगणार्चितः ॥ १४७ ॥

ब्रह्मप्रियभक्तितुष्टो ब्रह्मप्रियवरप्रदः ।
ब्रह्मप्रियमुक्तिदाता ब्रह्मप्रियकृतोद्यमः ॥ १४८ ॥

ब्रह्मप्रियप्रभुर्ब्रह्मप्रियत्राणकृतोद्यमः ।
ब्रह्मप्रियेड्यचरितो ब्रह्मप्रियनमस्कृतः ॥ १४९ ॥

ब्रह्मप्रियभयहरो ब्रह्मप्रियनमस्कृतः ।
ब्रह्मप्रियसंशयघ्नो बर्ह्मविद्ब्रह्मदायकः ॥ १५० ॥

ब्रह्मप्रियार्तिशमनो ब्रह्मप्रियफलप्रदः ।
इन्दिरानायकश्चेन्दुभूषणश्चेन्दिराप्रियः ॥ १५१ ॥

इन्दीवरकर्णिकास्थ इन्दीवरविलोचनः ।
इन्दीवरसमप्रख्य इन्दीवरशयानकृत् ॥ १५२ ॥

इन्दीवरासनारूढ इन्दिरातनयापतिः ।
इन्दिराद इन्दिरेश इन्दिरागणनायकः ॥ १५३ ॥

इन्दिराष्टकसन्दाता इन्दिराबीजतोषितः ।
इन्दिराबीजसंयुक्तबीजमन्त्रमनुप्रभुः ॥ १५४ ॥

वीरपाण्ड्यसमाराध्यो वीरपाण्ड्यवरप्रदः ।
वीरचोलसमाराध्यो वीरचोलेष्टदायकः ॥ १५५ ॥

वीरब्रबाहुपूजिताङ्घ्रिर्वीरमाहेन्द्रवन्दितः ।
वीरमाहेशवरदो वीरराक्षसशत्रुहा ॥ १५६ ॥

वीरशूरशौर्यदाता वीरान्तकबलप्रदः ।
वीरधीरधैर्यदाता वीरपुरन्दरेष्टदः ॥ १५७ ॥

वीरमार्ताण्डवरदो वज्रबाह्विष्टसिद्धिदः ।
वज्रबाहुनुतो वज्रबाहुवीर्यजयप्रदः ॥ १५८ ॥

सङ्कष्टहारकस्सङ्कष्टहरतिथिसम्भवः ।
सङ्कष्टहरमन्त्रात्मा सर्वसङ्कष्टनाशनः ॥ १५९ ॥

सङ्कष्टिहरदिनराट् सङ्कष्टिमातृपूजितः ।
सङ्कष्टिव्रतसन्तुष्टस्सङ्कष्टिपूजनप्रियः ॥ १६० ॥

सङ्कष्टिवृतवरदस्सार्वभौमवरप्रदः ।
सार्वभौमगर्वहरस्सार्वभौमारिभञ्जकः ॥ १६१ ॥

सार्वभौमगीतगुणस्सार्वभौमधनप्रदः ।
सार्वभौमकामदाता सार्वभौमसुमुक्तिदः ॥ १६२ ॥

तारापतिस्तारेशेड्यस्तारादोषनिवारकः ।
तारापुत्रसमाराध्यस्तारागणनिषेवितः ॥ १६३ ॥

तारापुत्राभीष्टदाता तारापुत्रवरप्रदः ।
तारापुत्रज्ञानदाता तारापुत्रसुसिद्धिदः ॥ १६४ ॥

तारेशचूडस्तारेशवरदस्तारकार्चितः ।
ताराकर्ता तारकेशस्ताराभर्ता तमीप्रियः ॥ १६५ ॥

तलवकारसङ्गीतस्तमीनाथस्तमीप्रियः ।
तमीपूजनसन्तुष्टस्तमीजपवरप्रदः ॥ १६६ ॥

तमीहवनसन्तुष्टस्तमीयजनतोषितः ।
तमप्रकृतिसंयुक्तस्तमप्रकृतिपूजितः ॥ १६७ ॥

तमप्रकृतिसञ्जातब्रह्माण्डगणधारकः ।
तामसीमायासंयुक्तस्तामसीस्तुतवैभवः ॥ १६८ ॥

तामसीनायकेशानस्तामसीनायकेष्टदः ।
ऋणीजनसमाराध्य ऋणीसंस्तुतवैभवः ॥ १६९ ॥

ऋणीनाथो ऋणीगीतो ऋणीजनसुरक्षकः ।
ऋणीभर्ता ऋणीधर्ता ऋणीऋणहरः क्षणात् ॥ १७० ॥

ऋणीवन्द्यो ऋणीजप्यो ऋणीस्तुत्यो ऋणीप्रियः ।
ऋणीधामा ऋणीगोप्ता ऋणीगणनिषेवितः ॥ १७१ ॥

यमीजनसमाराध्यो यमीसंस्तुतवैभवः ।
यमीनाथो यमीगीतो यमीजनसुरक्षकः ॥ १७२ ॥

यमीभर्ता यमीधर्ता यमीभयहरः क्षणात् ।
यमीवन्द्यो यमीजप्यो यमीस्तुत्यो यमीप्रियः ॥ १७३ ॥

यमीधामा यमीगोप्ता यमीगणनिषेवितः ।
सृणिहस्तस्सृणिधरः सृणीशानस्सृणिप्रियः ॥ १७४ ॥

संज्ञापतिसमाराध्यस्संज्ञापतिस्तुतिप्रियः ।
संज्ञापतिगणेशानस्संज्ञापतिस्वरूपधृक् ॥ १७५ ॥

संज्ञापतिवन्द्यपादस्संज्ञेशगीतसद्गुणः ।
संज्ञेशगर्वसञ्छेत्ता संज्ञेशवरदर्पहा ॥ १७६ ॥

संज्ञेशप्रवणस्वान्तस्संज्ञेशगणसंस्तुतः ।
संज्ञेशार्चितपादाब्जो संज्ञेशभयहारकः ॥ १७७ ॥

योगिगेयगुणो योगिचरितो योगतत्त्ववित् ।
योगीन्द्रत्रासहा योगग्रन्थतत्त्वविवेचकः ॥ १७८ ॥

योगानुरागो योगाङ्गो योगगङ्गाजलोद्वहः ।
योगावगाढजलधिर्योगप्रज्ञो युगन्धरः ॥ १७९ ॥

योगीगीतसुचारित्रो योगीन्द्रगणसेवितः ।
योगधाता योगभर्ता योगारातिनिषूदनः ॥ १८० ॥

तरणिस्तरणीशानस्तरणीप्रीतिवर्धनः ।
तरणीगर्वसञ्छेत्रा तरणीगीतसद्गुणः ॥ १८१ ॥

तरणिप्रवणस्वान्तो तरणीवरदायकः ।
तरणित्राणसन्नद्धस्तरणीसमरक्षमः ॥ १८२ ॥

तरणीगीतचरितस्तरणीगीतसद्गुणः ।
तरणीप्रियकर्ता च तरण्यागमसारवित् ॥ १८३ ॥

तरणीसेवितपादाब्जस्तरणीप्रियनन्दनः ।
तरणीप्रियासमाराध्यस्तरणिमार्गकोविदः ॥ १८४ ॥

इलापतिरिलानाथ इलानाथवरप्रदः ।
इलावृतखण्डवासी इलावृतजनप्रियः ॥ १८५ ॥

इलावृतगिरिस्थायी इलावृतगणार्चितः ।
इलावृतेष्टवरद इलावृतसुखप्रदः ॥ १८६ ॥

इलावृतधर्मदाता इलावृतधनप्रदः ।
इलावृतकामपूर इलावृतसुमुक्तिदः ॥ १८७ ॥

इलावृतगीततत्त्व इलावृतजनाश्रितः ।
चण्ड चण्डेशसुहृच्चण्डीशश्चण्डविक्रमः ॥ १८८ ॥

चराचरपतिश्चिन्तामणिचर्वणलालसः ।
चिन्तामणिश्चिन्तितार्थदायकश्चित्तसंस्थितः ॥ १८९ ॥

चिदाकाशश्चिदाभासश्चिदात्मा चिच्चिदीश्वरः ।
चित्तवृत्तिमयीनाथश्चित्तशान्तिप्रदायकः ॥ १९० ॥

अम्बिकेशेष्टवरद अम्बिकेशभयापहः ।
अम्बिकेशगुरुरम्बापतिध्यातपदाम्बुजः ॥ १९१ ॥

अम्बापतिस्तुतश्चाम्बानाथाराध्योऽम्बिकासुतः ।
अम्बाविद्यासुतत्त्वज्ञ अम्बाप्रीतिविवर्धनः ॥ १९२ ॥

अम्बाङ्गमलसम्भूत अम्बाजठरसम्भवः ।
अम्बिकेशवीर्यजात अम्बिकेशेक्षणोद्भवः ॥ १९३ ॥

अम्बिकेशहास्यजात अम्बिकाकोपसम्भवः ।
अम्बिकेशध्यानजात अम्बिकेशगणावृतः ॥ १९४ ॥

अम्बिकेशसैन्यनाथ अम्बिकेशजयप्रदः ।
अम्बिकेशशिरोहर्ता अम्बिकेशेन्दुहारकः ॥ १९५ ॥

अम्बिकेशहृदारूढ अम्बिकेशस्थलाभितः ।
अम्बिकोत्सङ्गनिलय अम्बिकाज्ञाप्रपालकः ॥ १९६ ॥

अम्बिकागणसंवीत अम्बिकामार्गकोविदः ।
अम्बिकागीतचरित अम्बारिसैन्यनाशकः ॥ १९७ ॥

अम्बिकेशपार्श्वसंस्थ अम्बालोकनिवासकृत् ।
निरोधाचित्तवृत्तिस्थो निजानन्दप्रदायकः ॥ १९८ ॥

नैजकर्ता नैजभर्ता नैजधर्ता निरोधगः ।
नैजवासी नैजदाता नैजशक्तिसमन्वितः ॥ १९९ ॥

नैजयोगप्रदो नैजज्ञानदो निजलोकदः ।
नैजधर्मप्रदो नैजविद्यादो निजकामदः ॥ २०० ॥

अपर्णापूजितपद अपर्णेशप्रपूजितः ।
अपर्णेशेष्टवरद अपर्णेशभयापहः ॥ २०१ ॥

अपर्णेशध्यातपद अपर्णेशगणावृतः ।
अपर्णेशध्यानजात अपर्णाहास्यसम्भवः ॥ २०२ ॥

इदं नाम्नां सहस्रन्तु ब्रह्मणां ब्रह्मणस्पतेः ।
सूक्तमन्त्राक्षरजातं ब्रह्मणस्पतितोषदम् ॥ २०३ ॥

य इदं प्रयतः प्रातः त्रिसन्ध्यं वा पठेन्नरः ।
वाञ्छितं समवाप्नोति गणनाथप्रसादतः ॥ २०४ ॥

धर्मार्थी धर्ममाप्नोति धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥ २०५ ॥

पुत्रार्थी लभते पुत्रान् कामार्थी काममाप्नुयात् ।
निष्कामो यः पठेदेतद्गणेशान परायणः ॥ २०६ ॥

सप्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् ।

॥ इति श्रीविनायकतन्त्रे श्रीशारदेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Shri Sharadesha Sahasranama Stotram/श्री शरादेषा सहस्रनाम स्तोत्रं

॥ Sri sarade sasahasranama stotram ॥

 devyuvaca ।

devadeva mahadeva girisa jagatam pate ।
sahasranamastotram me krpayasya vada prabho ॥ 1 ॥

 siva uvaca ।

brahmanaspatisuktastham mantradivarnasambhavam ।
sahasranamastotram tu vaidikam te bravimyaham ॥ 2 ॥

saradesamantravacca rsyadikamudiritam ।
sarasvatipatissomarajassomaprapujitah ॥ 3 ॥ Shri Sharadesha Sahasranama Stotram

somardhasekharassiddhassiddhesassiddhinayakah ।
siddhavandyassiddhapujyassarvavidyapradayakah ॥ 4 ॥

sarvatma sarvadevatma sadasadvyaktidayakah ।
samsaravaidyassarvajnassarvabhesajabhesajam ॥ 5 ॥

srstisthitilayakrido yadunathavarapradah ।
yogagamyo yogamayo yogasantipradayakah ॥ 6 ॥

yogacaryo yogadata yogabrahma yugadhipah ।
yajnesvaro yajnamurtiryajamanestadayakah ॥ 7 ॥ Shri Sharadesha Sahasranama Stotram

yajnakarta yajnadharta yajnabhokta yamisvarah ।
mayureso mayuresapuradhiso mayurapah ॥ 8 ॥

mayuravahano mayi mayiko madhurapriyah ।
mantro mantrapriyo mantri madamattamanoramah ॥ 9 ॥

mantrasiddhiprado mantrajnanado muktidayakah ।
mandakinitiravasi mudgarayudhadharakah ॥ 10 ॥

svanandavasi svanandanayakassukhadayakah ।
svasvanandapradassvasvanandayogasulabhyakah ॥ 11 ॥ Shri Sharadesha Sahasranama Stotram

svanandabhavanadhisassvargasvanandanayakah ।
svargasvanandanilayassvargasvanandasaukhyadah ॥ 12 ॥

sukhatma surasampujyassurendrapadadayakah ।
surendrapujitassomarajaputrassurarcitah ॥ 13 ॥

surendratma tattvamayastarunastarunipriyah ।
tatpadastatpadaradhyastapasvijanasevitah ॥ 14 ॥ Shri Sharadesha Sahasranama Stotram

tapasastapasaradhyastapomargaprakasakah ।
tattvamasyakrtidharastattvamasyarthabodhakah ॥ 15 ॥

tattvanam paramam tattvam tarakantarasamsthitah ।
tarakastarakamukhastarakantakapujitah ॥ 16 ॥

tattvatitastattvamayastarunadityapatalah ।
upendra udubhrnmaulirunderakabalipriyah ॥ 17 ॥

ucchistagana ucchista ucchistagananayakah ।
upendrapujitapada upendravaradayakah ॥ 18 ॥

unnatanana uttunga udaratridasagrani ।
umapujitapadabja umangamalasambhavah ॥ 19 ॥

umavanchitasandata umesaparipujitah ।
umaputra umaputrapujya umesavigrahah ॥ 20 ॥ Shri Sharadesha Sahasranama Stotram

turiyasturyapadagasturiyamurtisamyutah ।
tumburustotrasantustasturiyavedasamstutah ॥ 21 ॥

turiyatma turyapadadastumburuganatositah ।
tustipriyastundavakrastusarahimasannibhah ॥ 22 ॥

turiyalokanilayasturiyagunadharakah ।
turiyamurtisampujyah paramatma paratparah ॥ 23 ॥

paranjyotih parandhama purnapranavavigrahah ।
pranavah pranavaradhyah pranavatitavigrahah ॥ 24 ॥

pranavasyah parambrahma purusah prakrteh parah ।
puranapurusah putah punyapunyaphalapradah ॥ 25 ॥ Shri Sharadesha Sahasranama Stotram

padmaprasannanayanah padmajarcita padukah ।
yayatipujanaprito yayativaradayakah ॥ 26 ॥

yamistavarasandata yamisaubhagyadayakah ।
yamibhuktimuktidata yamijnanapradayakah ॥ 27 ॥

yogamudgalasampujyo yogamudgalasiddhidah ।
yogamudgalavijnata yogamudgaladesikah ॥ 28 ॥ Shri Sharadesha Sahasranama Stotram

yogiyogaprado yogijnanado yogasastrakrt ।
yogabhumidharo yogamayiko yogamargavit ॥ 29 ॥

padmesvarah padmanabhah padmanabhaprapujitah ।
padmapatih pasupatih pasupasavimocakah ॥ 30 ॥

pasapanih parsudharah pankajasanasamsthitah ।
pankajasanasampujyah padmamaladharah patih ॥ 31 ॥

pannagabharanah pannagesah pannagabhusanah ।
pannagesasutah pannagesalokanivasakrt ॥ 32 ॥ Shri Sharadesha Sahasranama Stotram

tamoharta tamasisastamobharta tamomayah ।
stavyastutipriyastotram stotrarajapratositah ॥ 33 ॥

stavarajapriyah stutyasturuskasanghanasakah ।
stomayajnapriyah stomaphaladah stomasiddhidah ॥ 34 ॥

snanapriyassnanabharta snatakabhistadayakah ।
karmasaksi karmakarta karmakarmaphalapradah ॥ 35 ॥

kamandalunaditiranivasi katisutrabhrt ।
kadambagolakakarah kusmandagananayakah ॥ 36 ॥

kasturitilakopetah kamesah kamapujitah ।
kamandaludharah kalpah kapardi kalabhananah ॥ 37 ॥

karunyadehah kapilah kapilabhistadayakah ।
ugra ugrayudhadharo ugrarudraprapujitah ॥ 38 ॥

ugraharta ugrabharta ugrasasanakarakah ।
ugrapandyasusampujya ugrapandyestadayakah ॥ 39 ॥

umbijajapasuprita udicidisi samsthitah ।
udanmukha udagdesanivasi ucitapriyah ॥ 40 ॥

ucitajno ganesano ganakrido ganadhipah ।
gananatho gajamukho guneso gananayakah ॥ 41 ॥

gunadharo gunamayo gunasantipradharakah ।
ga~ bijo ga~ padaradhyo gajakaro gajesvarah ॥ 42 ॥ Shri Sharadesha Sahasranama Stotram

gangadharasamaradhyo gangatiraviharakrt ।
daksayajnapramathano daharakasamadhyagah ॥ 43 ॥

dakso daksabhaktitusto daksayajnavarapradah ।
deveso dandanitistho daityadanavamohanah ॥ 44 ॥

dayavan divyavibhavo daksinamurtinandanah ।
daksinamurtisandhyatapado devasuraksakah ॥ 45 ॥

daksinavartaksetrastho devendrapujanapriyah ।
dvaimaturo dvivadano dvipasyo dviparaksakah ॥ 46 ॥

dvirado dviradesana adharasakti murdhnigah ।
akhuketana asapuraka akhumaharathah ॥ 47 ॥

adharapitha adhara adharadheyavarjitah ।
asritabhistasandata amodamodadayakah ॥ 48 ॥

anandabhavanadhisa anandamurtidharakah ।
anandamaya ananda anandakosasamsthitah ॥ 49 ॥

akhudhvaja akhuvaha anandatitavigrahah ।
sudhapriyassudhamurtissudhasagaramadhyagah ॥ 50 ॥

sudhapanaratassindhudaityaha sindhudesagah ।
samaganapriyassadhussadhusiddhipradayakah ॥ 51 ॥ Shri Sharadesha Sahasranama Stotram

saptasvapujitapadassaptasvarathamadhyagah ॥

saptalokasariradhyassaptadvipanivasakrt ॥ 52 ॥

samudrarajasampujyo nagasyo nagajasutah ।
nandyo nandipriyo nado nadamadhye pratisthitah ॥ 53 ॥

nirmalo niskalo nityo niravadyo niranjanah ।
naradadisusamsevyo nityanityo niramayah ॥ 54 ॥

namaparayanaprito nirguno nijalokagah ।
tannamajapasupritastattvatattva vivekadah ॥ 55 ॥

tadbhaktajanasamsevyastadajna paripalakah ।
tintrinyannapriyatamastantrasastravisaradah ॥ 56 ॥ Shri Sharadesha Sahasranama Stotram

tantragamyastantravedyastantramargaprakasakah ।
tantraradhanasantustastantrasiddhipradayakah ॥ 57 ॥

tantramudrapramuditastantranyasapratositah ।
tantrabhasamargaharta tantrapasandakhandakah ॥ 58 ॥

tantrayogamargagamya uhapohadurasadah ।
urjasvanusmalamada unasodasavarsikah ॥ 59 ॥

udapujanasantusta uhapohavivarjitah ।
umasnusasusamslista udabalamanoramah ॥ 60 ॥

umesapujitapada umesabhistadayakah ।
utipriya utinuta utikrdvaradayakah ॥ 61 ॥

utitrayiganavara utitrivedakaranam ।
utibhangipriyatamah trata trivedanayakah ॥ 62 ॥ Shri Sharadesha Sahasranama Stotram

trigunatma trilokadih trivaktrastripadanvitah ।
trimurtijanakastreta trikarastrivilocanah ॥ 63 ॥

trimurtijapasantustah trimurtivaradayakah ।
trivenitirasamvasi trivenisnanatositah ॥ 64 ॥

triveniksetranilayah trivenimundanapriyah ।
trivenisangamasthayi triveniksetrasiddhidah ॥ 65 ॥ Shri Sharadesha Sahasranama Stotram

trisandhyaksetranilayastrisandhyaksetrapalakah ।
trisandhyaksetrajanakastrisandhyagatadaityaha ॥ 66 ॥

trisandhyagamunisanapata trisandhiksetragah ।
trisandhyatapasaradhyastrisandhyamunipalakah ॥ 67 ॥

trisandhyamunidarpaghnastripurabhistadayakah ।
tripurapujanapritastripurantakapujitah ॥ 68 ॥

tripuresisamaradhyastryambakastripurantakah ।
anapayo’nantadrstiraprameyo’jaramarah ॥ 69 ॥

anavilo’pratiratha astatrimsatkalatanuh
alampato mito ksayyo’dhanamso’pratimananah ॥ 70 ॥

astasiddhisamrddhi srirastabhairavasevitah ।
astadasausadhi srstirastadravyahavih priyah ॥ 71 ॥

astamurtidhyeyamurtirastamatrasamavrtah ।
astapatrambujasina astaprakrtikaranam ॥ 72 ॥

astacakrasphuranmurtirastaisvaryapradayakah ।
astapithopapithasrirastadikpativanditah ॥ 73 ॥

agniraksamalikadhyo vyayo’stavasuvanditah ।
astadasapuranedya astadasavidhismrtah ॥ 74 ॥ Shri Sharadesha Sahasranama Stotram

astadasalipivyastisamastijnanakovidah ।
bhavabdhitarako bhasajanako bharatipatih ॥ 75 ॥

bhimo bhimavighnaharta bhayatrata bhavodbhavah ।
bhavanitanayo bhaktipriyo bhaktapravalakah ॥ 76 ॥

bhaktadhino bhaktivasyo bhuvanesivarapradah ।
bhupatirbhuvanapatirbhuteso bhuvanesvarah ॥ 77 ॥

tejovatisiroratnastejomandalamadhyagah ।
tejomayalokavasi tejomayakalebarah ॥ 78 ॥

tejorupi taijasesastejahpunjasvarupavan ।
tejastattvesasampujyastejastattvestadayakah ॥ 79 ॥

tithimatrsamudbhutastithimatrvarapradah ।
tithimatrsamaradhyastithimatrpratositah ॥ 80 ॥

tithimatravratapritastithimatrestadayakah ।
brahma brahmarcitapado brahmacari brhaspatih ॥ 81 ॥

brhattamo brahmavaro brahmanyo brahmavittamah ।
brhannadagryacitkaro brahmandavalimekhalah ॥ 82 ॥ Shri Sharadesha Sahasranama Stotram

brahmeso brahmalokastho brahmaputrisamanvitah ।
brhadaranyasamvedyo brahmavidyamadotkatah ॥ 83 ॥

brahmandakundo brahmiso brahmavartanivasakrt ।
brahmanandamayo brahmatanayo brahmanaspatih ॥ 84 ॥

mandaravrksasambhuto mandarakusumapriyah ।
mandarabhaktavarado mandarabhaktitositah ॥ 85 ॥

mandarapujanaprito mandaramanidharakah ।
mandaramanisuprito munimandalamadhyagah ॥ 86 ॥

muniputro munisano munimanasahamsikah ।
muniputrasahacaro munibalasamavrtah ॥ 87 ॥

munibalabhistadata munibalasamarcitah ।
munibalabhaktitusto munibalepsitapradah ॥ 88 ॥

vinayako vighnarajo vinatatanayapriyah ।
varenyo vedajanako vedavedanga tattvavit ॥ 89 ॥

vedantasastrasamvedyo vedantagamagocarah ।
vandyo vagisasamsevyo vamano vamanarcitah ॥ 90 ॥

vagisvaripatirvaninayako varadayakah ।
vidyaprado vibhavado varenyatanayo vasi ॥ 91 ॥

stanandhayah stanyapanaratah stanyapravardhakah ।
stanandhayapriyasturyasaktiputrasturiyapah ॥ 92 ॥

taulisnanaparastaulimasasnanapratositah ।
taulimasajapapritastaulidanaphalapradah ॥ 93 ॥ Shri Sharadesha Sahasranama Stotram

tungabhadratirasamsthastungasnanaphalapradah ।
tungajalapanaratah tungasailanivasakrt ॥ 94 ॥

tarangakelisamsaktastarangabdhiprabhedakah ।
brahmanaspatyayajneso brahmanaspatyahomabhuk ॥ 95 ॥

brahmanaspatyestibhokta brahmasutraprabandhakrt ।
brhajjabalasamvedyo brahmavidyapradayakah ॥ 96 ॥

brhanmayo brhatseno brhadvidyo brhaddhanah ।
brhadgano brhatkuksirbrhadbhanurbrhadbalah ॥ 97 ॥

brhadrajyaprado brahmasutradhrk brhadisvarah ।
savitrmandalamadhyasthassavita savitarcitah ॥ 98 ॥

savitrassavitaradhyassurassuryo’tha surajah ।
savitritanayassuryamurtissauraprapujitah ॥ 99 ॥

surasutasamaradhyassauramargaprakasakah ।
suravrksamulasamsthassuradrumasumapriyah ॥ 100 ॥

suracandanadigdhangah svargasaukhyapradayakah ।
yogagnikundasanjato yogagnijyotirupavan ॥ 101 ॥

yonipithasannisanno yonimudrapratositah ।
yaskapriyo yaskapujyo yaskestaphaladayakah ॥ 102 ॥

yonisamsthapuskaradhyo yoginiganasevitah ।
yoginisevitapado yoginisaktisamvrtah ॥ 103 ॥

yogangavedyacarano yogasamrajyadayakah ।
yogagitaprado yogamantrado yogavigrahah ॥ 104 ॥

taratalalokavasi taratalajanavrtah ।
tarunadityasankasastarunendusamarcitah ॥ 105 ॥

talivanasamasinastaliphalasubhaksakah ।
talimadhurasapritastaliguḷasubhaksakah ॥ 106 ॥

talivanadevatedyastalidevivarapradah ।
talajanghadaityaharastalajangharipujitah ॥ 107 ॥

tamalasyamalakarastamalakusumapriyah ।
tamalavanasancari tamaladevatapriyah ॥ 108 ॥

anantanamanantasriranantanantasaukhyadah ।
anantavadano’nantalocano’nantapadukah ॥ 109 ॥

anantamakutopeta anantasrutimanditah ।
anantakuksiprsthadhya anantajanumanditah ॥ 110 ॥

anantorubhrajamano’nantaskandhagalanvitah ।
anantabahupanyadhya anantaguhyalingakah ॥ 111 ॥

anantodaragunavananantodaravikramah ।
anantasuryasankasa anantendususitalah ॥ 112 ॥

sadasivasamaradhyassadasivasuviryajah ।
sadasivaganesanassadasivapadapradah ॥ 113 ॥

sadasivavighnaharassadasivavarapradah ।
sadasivahasyahetuh sadasivavimohakah ॥ 114 ॥

sadasivacandraharta sadasivahrdisthitah ।
sadasivarupadharah sadasivasamipagah ॥ 115 ॥

sadasivasaktiputrassadasivasutagrajah ।
asvasyamunisamsevya asvasyabhaktitositah ॥ 116 ॥

asvasyajnanasandata asvasyayogadayakah ।
asvasyajapasuprita asvasyasastratositah ॥ 117 ॥

asvasyavighnasamharta asvasyasiddhidayakah ।
asvasyadaityasamharta asvinirksasambhavah ॥ 118 ॥

asvinidevataradhya asvinisastratositah ।
ambikayajnasantusta ambikabhistadayakah ॥ 119 ॥

ambasuto’mbikalokasamstho’mbaganasevitah ।
rgyajussamasambhuti rddhisiddhipravartakah ॥ 120 ॥

rddhiprado rddhinatho rnatrayavimocakah ।
rgvedasuktasantusto rgvedamantratositah ॥ 121 ॥

rgvedabrahmanaprito rgvedaranyaharsitah ।
rgvedabrahmanaspatyasuktopanisadiritah ॥ 122 ॥

rto rgvedajanako rnaha rddhipujitah ।
rtambharaprajnayajyo rddhinathapratositah ॥ 123 ॥

rvarnacakramadhyastho rvarnajapatositah ।
rvarnamatrakadhiso rvarnasaktinayakah ॥ 124 ॥

rtapriyo rtadhiso rtajno rtapalakah ।
rtadevasamaradhyo rtalokanivasakrt ॥ 125 ॥

rtambharapithasamstho rtadhinasuvigrahah ।
rtambharamargavasi rtapalakapalakah ॥ 126 ॥

rtavak rtasankalpo rtasankalpadayakah ।
sasannayah savinayah subrahmanyaganesvarah ॥ 127 ॥

susthusrasta susthupata surakunjarabhedanah ।
suramatratrsamaradhyassuramatrvarapradah ॥ 128 ॥

suramatrsutassusthu naradevaprapalakah ।
surantako daityaharassuravargaprapalakah ॥ 129 ॥

suparvanassiddhidata suparvanaganavrtah ।
simharudhassimhavahassimhasyassimhadarpaha ॥ 130 ॥

vibhurvibhuganadhiso visvanathasamarcitah ।
visvatito visvakarta visvapata viratpatih ॥ 131 ॥

visvanathasuto visvanathasaktisamudbhavah ।
visvanathaksetradata visvanathaprapalakah ॥ 132 ॥

visvanathapujitanghriyugalo visvavanditah ।
visvesvaro vitihotro vitihotrasamarcitah ॥ 133 ॥ Shri Sharadesha Sahasranama Stotram

yuddhakrdyuddhavireso yuddhamandalasamsthitah ।
yuddhesvaro yuddhanatho yuddhe siddhipradayakah ॥ 134 ॥

yuddhaviro yuddhasuro yuddhesajayadayakah ।
yuddhakalisvaro yodhanatho yodhaganavrtah ॥ 135 ॥

yodhagraganyo yodheso yodhesajayadayakah ।
yodhavighnaprasamano yodhasiddhipradayakah ॥ 136 ॥

vasisthadevo vasistho vasisthakulabhusanah ।
visvamitrapriyakaro visvamitrabhayapradah ॥ 137 ॥

visvamitrasiddhidata visvamitrasrame sthitah ।
visvamitratapastusto visvamitrepsitapradah ॥ 138 ॥

visvamitrajnanadata visvamitrasuyogadah ।
visvamitravamsadevo visvamitrestadaivatam ॥ 139 ॥

vamadevasamaradhyo vamamargapratositah ।
urukramasamaradhya urukramavarapradah ॥ 140 ॥

urukramayajnadata urukramamakhodbhavah ।
urukramendrapadada urukramasuraksakah ॥ 141 ॥

urukramavamsadeva urubhimaparakramah ।
urvasinatanapritah urvasiganalolupah ॥ 142 ॥

urvasiputrasukhada urvasinathapujitah ।
urvasinathepsitada urvasilokadayakah ॥ 143 ॥

brahmano brahmanesana brahmanendrasupujitah ।
brahmanyakarmasantusto brahmanyamantratositah ॥ 144 ॥

brahmanabrahmayajneso brahmanavaradayakah ।
brahmanaya vedadata brahmanayarthadayakah ॥ 145 ॥

brahmanaya kamadata brahmanaya sumuktidah ।
brahmamedhayajnatusto brahmamedhahavihpriyah ॥ 146 ॥

brahmamedhasamskrtaya brahmalokapradayakah ।
brahmapriyaganesano brahmapriyaganarcitah ॥ 147 ॥ Shri Sharadesha Sahasranama Stotram

brahmapriyabhaktitusto brahmapriyavarapradah ।
brahmapriyamuktidata brahmapriyakrtodyamah ॥ 148 ॥

brahmapriyaprabhurbrahmapriyatranakrtodyamah ।
brahmapriyedyacarito brahmapriyanamaskrtah ॥ 149 ॥

brahmapriyabhayaharo brahmapriyanamaskrtah ।
brahmapriyasamsayaghno barhmavidbrahmadayakah ॥ 150 ॥

brahmapriyartisamano brahmapriyaphalapradah ।
indiranayakascendubhusanascendirapriyah ॥ 151 ॥

indivarakarnikastha indivaravilocanah ।
indivarasamaprakhya indivarasayanakrt ॥ 152 ॥

indivarasanarudha indiratanayapatih ।
indirada indiresa indiragananayakah ॥ 153 ॥

indirastakasandata indirabijatositah ।
indirabijasamyuktabijamantramanuprabhuh ॥ 154 ॥

virapandyasamaradhyo virapandyavarapradah ।
viracolasamaradhyo viracolestadayakah ॥ 155 ॥ Shri Sharadesha Sahasranama Stotram

virabrabahupujitanghrirviramahendravanditah ।
viramahesavarado viraraksasasatruha ॥ 156 ॥

virasurasauryadata virantakabalapradah ।
viradhiradhairyadata virapurandarestadah ॥ 157 ॥

viramartandavarado vajrabahvistasiddhidah ।
vajrabahunuto vajrabahuviryajayapradah ॥ 158 ॥

sankastaharakassankastaharatithisambhavah ।
sankastaharamantratma sarvasankastanasanah ॥ 159 ॥

sankastiharadinarat sankastimatrpujitah ।
sankastivratasantustassankastipujanapriyah ॥ 160 ॥

sankastivrtavaradassarvabhaumavarapradah ।
sarvabhaumagarvaharassarvabhaumaribhanjakah ॥ 161 ॥

sarvabhaumagitagunassarvabhaumadhanapradah ।
sarvabhaumakamadata sarvabhaumasumuktidah ॥ 162 ॥

tarapatistaresedyastaradosanivarakah ।
taraputrasamaradhyastaragananisevitah ॥ 163 ॥

taraputrabhistadata taraputravarapradah ।
taraputrajnanadata taraputrasusiddhidah ॥ 164 ॥ Shri Sharadesha Sahasranama Stotram

taresacudastaresavaradastarakarcitah ।
tarakarta tarakesastarabharta tamipriyah ॥ 165 ॥

talavakarasangitastaminathastamipriyah ।
tamipujanasantustastamijapavarapradah ॥ 166 ॥

tamihavanasantustastamiyajanatositah ।
tamaprakrtisamyuktastamaprakrtipujitah ॥ 167 ॥

tamaprakrtisanjatabrahmandaganadharakah ।
tamasimayasamyuktastamasistutavaibhavah ॥ 168 ॥

tamasinayakesanastamasinayakestadah ।
rnijanasamaradhya rnisamstutavaibhavah ॥ 169 ॥

rninatho rnigito rnijanasuraksakah ।
rnibharta rnidharta rnirnaharah ksanat ॥ 170 ॥

rnivandyo rnijapyo rnistutyo rnipriyah ।
rnidhama rnigopta rnigananisevitah ॥ 171 ॥

yamijanasamaradhyo yamisamstutavaibhavah ।
yaminatho yamigito yamijanasuraksakah ॥ 172 ॥ Shri Sharadesha Sahasranama Stotram

yamibharta yamidharta yamibhayaharah ksanat ।
yamivandyo yamijapyo yamistutyo yamipriyah ॥ 173 ॥

yamidhama yamigopta yamigananisevitah ।
srnihastassrnidharah srnisanassrnipriyah ॥ 174 ॥

samjnapatisamaradhyassamjnapatistutipriyah ।
samjnapatiganesanassamjnapatisvarupadhrk ॥ 175 ॥

samjnapativandyapadassamjnesagitasadgunah ।
samjnesagarvasanchetta samjnesavaradarpaha ॥ 176 ॥

samjnesapravanasvantassamjnesaganasamstutah ।
samjnesarcitapadabjo samjnesabhayaharakah ॥ 177 ॥

yogigeyaguno yogicarito yogatattvavit ।
yogindratrasaha yogagranthatattvavivecakah ॥ 178 ॥

yoganurago yogango yogagangajalodvahah ।
yogavagadhajaladhiryogaprajno yugandharah ॥ 179 ॥

yogigitasucaritro yogindraganasevitah ।
yogadhata yogabharta yogaratinisudanah ॥ 180 ॥

taranistaranisanastaranipritivardhanah ।
taranigarvasanchetra taranigitasadgunah ॥ 181 ॥

taranipravanasvanto taranivaradayakah ।
taranitranasannaddhastaranisamaraksamah ॥ 182 ॥ Shri Sharadesha Sahasranama Stotram

taranigitacaritastaranigitasadgunah ।
taranipriyakarta ca taranyagamasaravit ॥ 183 ॥

taranisevitapadabjastaranipriyanandanah ।
taranipriyasamaradhyastaranimargakovidah ॥ 184 ॥

ilapatirilanatha ilanathavarapradah ।
ilavrtakhandavasi ilavrtajanapriyah ॥ 185 ॥

ilavrtagiristhayi ilavrtaganarcitah ।
ilavrtestavarada ilavrtasukhapradah ॥ 186 ॥

ilavrtadharmadata ilavrtadhanapradah ।
ilavrtakamapura ilavrtasumuktidah ॥ 187 ॥

ilavrtagitatattva ilavrtajanasritah ।
canda candesasuhrccandisascandavikramah ॥ 188 ॥

caracarapatiscintamanicarvanalalasah ।
cintamaniscintitarthadayakascittasamsthitah ॥ 189 ॥

cidakasascidabhasascidatma ciccidisvarah ।
cittavrttimayinathascittasantipradayakah ॥ 190 ॥

ambikesestavarada ambikesabhayapahah ।
ambikesagururambapatidhyatapadambujah ॥ 191 ॥

ambapatistutascambanatharadhyo’mbikasutah ।
ambavidyasutattvajna ambapritivivardhanah ॥ 192 ॥

ambangamalasambhuta ambajatharasambhavah ।
ambikesaviryajata ambikeseksanodbhavah ॥ 193 ॥

ambikesahasyajata ambikakopasambhavah ।
ambikesadhyanajata ambikesaganavrtah ॥ 194 ॥

ambikesasainyanatha ambikesajayapradah ।
ambikesasiroharta ambikesenduharakah ॥ 195 ॥

ambikesahrdarudha ambikesasthalabhitah ।
ambikotsanganilaya ambikajnaprapalakah ॥ 196 ॥

ambikaganasamvita ambikamargakovidah ।
ambikagitacarita ambarisainyanasakah ॥ 197 ॥

ambikesaparsvasamstha ambalokanivasakrt ।
nirodhacittavrttistho nijanandapradayakah ॥ 198 ॥

naijakarta naijabharta naijadharta nirodhagah ।
naijavasi naijadata naijasaktisamanvitah ॥ 199 ॥

naijayogaprado naijajnanado nijalokadah ।
naijadharmaprado naijavidyado nijakamadah ॥ 200 ॥

aparnapujitapada aparnesaprapujitah ।
aparnesestavarada aparnesabhayapahah ॥ 201 ॥

aparnesadhyatapada aparnesaganavrtah ।
aparnesadhyanajata aparnahasyasambhavah ॥ 202 ॥

idam namnam sahasrantu brahmanam brahmanaspateh ।
suktamantraksarajatam brahmanaspatitosadam ॥ 203 ॥

ya idam prayatah pratah trisandhyam va pathennarah ।
vanchitam samavapnoti gananathaprasadatah ॥ 204 ॥

dharmarthi dharmamapnoti dhanarthi labhate dhanam ।
vidyarthi labhate vidyam moksarthi moksamapnuyat ॥ 205 ॥

putrarthi labhate putran kamarthi kamamapnuyat ।
niskamo yah pathedetadganesana parayanah ॥ 206 ॥

sapratistham param prapya nijalokamavapnuyat ।

॥ iti srivinayakatantre srisaradesasahasranamastotram sampurnam ॥