Shri Padmavati Sahasranama Stotra, श्री पद्मावती सहस्रनाम स्तोत्र

श्री पद्मावती सहस्रनाम स्तोत्र/Shri Padmavati Sahasranama Stotra

श्री पद्मावती सहस्रनाम स्तोत्र/Shri Padmavati Sahasranama Stotra

श्री पद्मावती सहस्रनाम स्तोत्रम्

 अथ पद्मावतीशतम् ।

प्रणम्य परया भक्त्या देव्याः पादाम्बुजां त्रिधा ।
नामान्यष्टसहस्राणि वक्तुं तद्भक्तिहेतवे ॥ १ ॥

श्रीपार्श्वनाथचरणाम्बुजचञ्चरीका
भव्यान्धनेत्रविमलीकरणे शलाका ।
नार्गेद्रप्राणधरणीधरधारणाभृत्
मां पातु सा भगवती नितरामघेभ्यः ॥ २ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

पद्मावती पद्मवर्णा पद्महस्तापि पद्मनी ।
पद्मासना पद्मकर्णा पद्मास्या पद्मलोचना ॥ ३ ॥

पद्मा पद्मदलाक्षी च पद्मी पद्मवनस्थिता ।
पद्मालया पद्मगन्धा पद्मरागोपरागिका ॥ ४ ॥

पद्मप्रिया पद्मनाभिः पद्माङ्गा पद्मशायिनी ।
पद्मवर्णवती पूता पवित्रा पापनाशिनी ॥ ५ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

प्रभावती प्रसिद्धा च पार्वती पुरवासिनी ।
प्रज्ञा प्रह्लादिनी प्रीतिः पीताभा परमेश्वरी ॥ ६ ॥

पातालवासिनी पूर्णा पद्मयोनिः प्रियंवदा ।
प्रदीप्ता पाशहस्ता च परा पारा परंपरा ॥ ७ ॥

पिङ्गला परमा पूरा पिङ्गा प्राची प्रतीचिका ।
परकार्यकरा पृथ्वी पार्थिवी पृथिवी पवी ॥ ८ ॥

पल्लवा पानदा पात्रा पवित्राङ्गी च पूतना ।
प्रभा पताकिनी पीता पन्नगाधिपशेखरा ॥ ९ ॥

पताका पद्मकटिनी पतिमान्यपराक्रमा ।
पदाम्बुजधरा पुष्टिः परमागमबोधिनी ॥ १० ॥

परमात्मा परानन्दा परमा पात्रपोषिणी ।
पञ्चबाणगतिः पौत्रि पाषण्डघ्नी पितामही ॥ ११ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

प्रहेलिकापि प्रत्यञ्चा पृथुपापौघनाशिनी ।
पूर्णचन्द्रमुखी पुण्या पुलोमा पूर्णिमा तथा ॥ १२ ॥

पावनी परमानन्दा पण्डिता पण्डितेडिता ।
प्रांशुलभ्या प्रमेया च प्रभा प्राकारवर्तिनी ॥ १३ ॥

प्रधाना प्रार्थिता प्रार्थ्या पददा पङ्क्तिवर्जिनी ।
पातालास्येश्वरप्राणप्रेयसी प्रणमामि ताम् ॥ १४ ॥

इति पद्मावतीशतम् ॥ १ ॥

 अथ महाज्योतिशतम् ।

महाज्योतिर्मती माता महामाया महासती ।
महादीप्तिमती मित्रा महाचण्डी च मङ्गला ॥ १ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

महीषी मानुषी मेघा महालक्ष्मीर्मनोहरा ।
महाप्रहारनिम्नाङ्गा मानिनी मानशालिनी ॥ २ ॥

मार्गदात्री मुहूर्ता च माध्वी मधुमती मही ।
माहेश्वरी महेज्या च मुक्ताहारविभूषणा ॥ ३ ॥

महामुद्रा मनोज्ञा च महाश्वेतातिमोहिनी ।
मधुप्रिया मतिर्माय मोहिनी च मनस्विनी ॥ ४ ॥

माहिष्मती महावेगा मानदा मानहारिणी ।
महाप्रभा च मदना मन्त्रवश्या मुनिप्रिया ॥ ५ ॥

मन्त्ररूपा च मन्त्राज्ञा मन्त्रदा मन्त्रसागरा ।
मधुप्रिया महाकाया महाशीला महाभुजा ॥ ६ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

महासना महारम्या मनोभेदा महासमा ।
महाकान्तिधरा मुक्तिर्महाव्रतसहायिनी ॥ ७ ॥

मधुश्रवा मूर्छना च मृगाक्षी च मृगावती ।
मृणालिनी मनःपुष्टिर्महाशक्तिर्महार्थदा ॥ ८ ॥

मूलाधारा मृडानी च मत्तमातङ्गगामिनी ।
मन्दाकिनी महाविद्या मर्यादा मेघमालिनी ॥ ९ ॥

मातामही मन्दगतिः महाकेशी महीधरा ।
महोत्साहा महादेवी महिला मानवर्द्धिनी ॥ १० ॥

महाग्रहहरा मारी मोक्षमार्गप्रकाशिनी ।
मान्या मानवती मानि मणिनूपुरशेखरा ॥ ११ ॥
मणिकाञ्चीधरा माना महामतिप्रकाशिनी ।
ईडेश्वरी दिज्येच्छेखे खेन्द्राणी कालरूपिणी ॥ १२ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

इति महाज्योतिर्मतिशतम् ॥ २ ॥

 अथ जिनमाताशतम् ।

जिनमाता जिनेन्द्रा च जयन्ती जगदीश्वरी ।
जया जयवती जाया जननी जनपालिनी ॥ १ ॥

जगन्माता जगन्माया जगज्जैत्री जगज्जिता ।
जागरा जर्जरा जैत्री यमुनाजलभासिनी ॥ २ ॥

योगिनी योगमूला च जगद्धात्री जलन्धरा ।
योगपट्टधरा ज्वाला ज्योतिरूपा च जालिनी ॥ ३ ॥

ज्वालामुखी ज्वालमाला ज्वालनी च जगद्धिता ।
जैनेश्वरी जिनाधारा जीवनी यशपालिनी ॥ ४ ॥

यशोदा ज्यायसी जीर्णा जर्जरा ज्वरनाशिनी ।
ज्वररूपा जरा जीर्णा जाङ्गुलाऽऽमयतर्जिनी ॥ ५ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

युगभारा जगन्मित्रा यन्त्रिणी जन्मभूषिणी ।
योगेश्वरी च योर्गङ्गा योगयुक्ता युगादिजा ॥ ६ ॥

यथार्थवादिनी जाम्बूनदकान्तिधरा जया ।
नारायणी नर्मदा च निमेषा नर्त्तिनी नरी ॥ ७ ॥

नीलानन्ता निराकारा निराधारा निराश्रया ।
नृपवश्या निरामान्या निःसङ्गा नृपनन्दिनी ॥ ८ ॥

नृपधर्ममयी नीतिः तोतला नरपालिनी ।
नन्दा नन्दिवती निष्टा नीरदा नागवल्लभा ॥ ९ ॥

नृत्यप्रिया नन्दिनी च नित्या नेका निरामिषा। ।
नागपाशधरा नोका निःकलङ्का निरागसा ॥ १० ॥ श्री पद्मावती सहस्रनाम स्तोत्र

नागवल्ली नागकन्या नागिनी नागकुण्डली ।
निद्रा च नागदमनी नेत्रा नाराचवर्षिणी ॥ ११ ॥

निर्विकारा च निर्वैरा नागनाथेशवल्लभा ।
निर्लोभा च नमस्तुभ्यं नित्यानन्दविधायिनी ॥ १२ ॥

इति जिनमाताशतम् ॥ ३ ॥

 अथ वज्रहस्ताशतम् ।

वज्रहस्ता च वरदा वज्रशैला वरूथिनी ।
वज्रा वज्रायुधा वाणी विजया विश्वव्यापिनी ॥ १ ॥

वसुदा बलदा वीरा विषया विषवर्द्धिनी ।
वसुन्धरा वरा विश्वा वर्णिनी वायुगामिनी ॥ २ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

बहुवर्णा बीजवती विद्या बुद्धिमती विभा ।
वेद्या वामवती वामा विनिद्रा वंशभूषणा ॥ ३ ॥

वरारोहा विशोका च वेदरूपा विभूषणा ।
विशाला वारुणीकल्पा बालिका बालकप्रिया ॥ ४ ॥

वर्तिनी विषहा बाला विवक्ता वनजासिनी ।
वन्द्या विधिसुता बाला विश्वयोनिर्बुधप्रिया ॥ ५ ॥

बलदा वीरमाता च वसुधा वीरनन्दिनी ।
वरायुधधरा वेषी वारिदा बलशालिनी ॥ ६ ॥

बुधमाता वैद्यमाता बन्धुरा बन्धुरूपिणी ।
विद्यावती विशालाक्षी वेदमाता विभास्वरी ॥ ७ ॥

वात्याली विषमा वेषा वेदवेदाङ्गधारिणी ।
वेदमार्गरता व्यक्ता विलोमा वेदशालिनी ॥ ८ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

विश्वमाता विकम्पा च वंशज्ञा विश्वदीपिका ।
वसन्तरूपिणी वर्षा विमला विविधायुधा ॥ ९ ॥

विज्ञाननी पवित्रा च विपञ्ची बन्धमोक्षिणी ।
विषरूपवती वर्द्धा विनीता विशिखा विभा ॥ १० ॥

व्यालिनी व्याललीला च व्याप्ता व्याधिविनाशिनी ।
विमोहा बाणसन्दोहा वर्द्धिनी वर्द्धमानका ॥ ११ ॥

ईशानी तोतरा भिद्रा वरदायी नमोऽस्तु ते ।
व्यालेश्वरी प्रियप्राणा प्रेयसी वसुदायिनी ॥ १२ ॥

इति वज्रहस्ताशतम् ॥ ४ ॥

 अथ कामदाशतम् ।

कामदा कमला काम्या कामाङ्गा कामसाधिनी ।
कलावती कलापूर्णा कलाधारी कनीयसी ॥ १ ॥

कामिनी कमनीयाङ्गा क्वणत्काञ्चनसन्निभा ।
कात्यायिनी कान्तिदा च कमला कामरूपिणी ॥ २ ॥

कामिनी कमलामोदा कम्रा कान्तिकरी प्रिया ।
कायस्था कालिका काली कुमारी कालरूपिणी ॥ ३ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

कालाकारा कामधेनुः काशी कमललोचना ।
कुन्तला कनकाभा च काश्मीरा कुङ्कुमप्रिया ॥ ४ ॥

कृपावती कुण्डलनी कुण्डलाकारशायिनी ।
कर्कशा कोमला काली कौलिकी कुलवालिका ॥ ५ ॥

कालचक्रधरा कल्पा कालिका काव्यकारिका ।
कविप्रिया च कौशाम्बी कारिणी कोशवर्द्धिनी ॥ ६ ॥

कुशावती किरालाभा कोशस्था कान्तिबद्धनी ।
कादम्बरी कठोरस्था कौशाम्बा कोशवासिनी ॥ ७ ॥म्
कालघ्नी कालहननी कुमारजनती कृतिः ।
कैवल्यदायिनी केका कर्महा कलवर्जिनी ॥ ८ ॥

कलङ्करहिता कन्या कारुण्यालयवासिनी ।
कर्पूरामोदनिःश्वासा कामवीजवती करा ॥ ९ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

कुलीना कुन्दपुष्पाभा कुर्कुटोरगवाहिनी ।
कलिप्रिया कामबाणा कमठोपरिशायिनी ॥ १० ॥

कठोरा कठिना क्रूरा कन्दला कदलीप्रिया ।
क्रोधनी क्रोधरूपा च चक्रहूंकारवर्तिनी ॥ ११ ॥

काम्बोजिनी काण्डरूपा कोदण्डकरधारिणी ।
कुहू क्रीडवती क्रीडा कुमारानन्ददायिनी ॥ १२ ॥

कमलासना केतकी च केतुरूपा कुतूहला ।
कोपिनी कोपरूपा च कुसुमावासवासिनी ॥ १३ ॥

इति कामदाशतम् ॥ ५ ॥

 अथ सरस्वतीशतम् ।

सरस्वती शरण्या च सहस्राक्षी सरोजगा ।
शिवा सती सुधारूपा शिवमाया सुता शुभा ॥ १ ॥

सुमेधा सुमुखी शान्ता सावित्री सायगामिनी ।
सुरोत्तमा सुवर्णा च श्रीरूपा शास्त्रशालिनी ॥ २ ॥

शान्ता सुलोचना साध्वी सिद्धा साध्या सुधात्मिका ।
सारदा सरला सारा सुवेषा जशवर्द्विनी ॥ ३ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

शङ्करी शमिता शुद्धा शक्रमान्या शिवङ्करी ।
शुद्धाहाररता श्यामा शीमा शीलवती शरा ॥ ४ ॥

शीतला सुभगा सर्वा सुकेशी शैलवासीनी ।
शालिनी साक्षिणी सीता सुभिक्षा शियप्रेयसी ॥ ५ ॥

सुवर्णा शोणवर्णा च सुन्दरी सुरसुन्दरी ।
शक्तिस्तुषा सारिका च सेव्या श्रीः सुजनार्चिता ॥ ६ ॥

शिवदूती श्वेतवर्णा शुभ्राभा शुभनाशिकी ।
सिंहिका सकला शोभा स्वामिनी शिवपोषिणी ॥ ७ ॥

श्रेयस्करी श्रेयसी च शौरिः सौदामिनी शुचिः ।
सौभागिनी शोषिणी च सुगन्धा सुमनःप्रिया ॥ ८ ॥

सौरमेयी सुसुरभी श्वेतातपत्रधारिणी ।
श‍ृङ्गारिणी सत्यवक्ता सिद्धार्था शीलभूषणा ॥ ९ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

सत्यार्थिनी च सध्याभा शची संक्रान्तिसिद्धिदा ।
संहारकारिणी सिंही सप्तर्चिः सफलार्थदा ॥ १० ॥

सत्या सिन्दूरवर्णाभा सिन्दूरतिलकप्रिया ।
सारङ्गा सुतरा तुभ्यं ते नमोऽस्तु सुयोगिनी ॥ ११ ॥

इति सरस्वतीशतम् ॥ ६ ॥

 अथ भुवनेश्वरीशतम् ।

भुवनेश्वरी भूषणा च भुवना भूमिपप्रिया ।
भूमिगर्भा भूपवद्या भुजङ्गेशप्रिया भगा ॥ १ ॥

भुजङ्गभूषणाभोगाः भुजङ्गाकारशायिनी ।
भवभितिहरा भीमा भूमिर्भीमाट्टहासिनी ॥ २ ॥

भारती भवती भोगा भगनी भोगमन्दिरा ।
भद्रिका भद्ररूपा च भूतात्मा भूतभञ्जिनी ॥ ३ ॥

भवानी भैरवी भीमा भामिनी भ्रमनाशिनी ।
भुजङ्गिनी भ्रुसुण्डी च मेदिनी भूमिभूषणा ॥ ४ ॥

भिन्ना भाग्यवती भासा भोगिनी भोगवल्लभा ।
भुक्तिदा भक्तिग्राहा च भवसागरतारिणी ॥ ५ ॥

भास्वती भास्वरा भूर्तिर्भूतिदा भूतिवर्द्धिनी ।
भाग्यदा भोग्यदा भोग्या भाविनी भवनाशिनी ॥ ६ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

भीक्ष्णा भट्टारका भीरूर्भ्रामरी भ्रमरी भवा ।
भट्टिनी भाण्डदा भाण्डा भल्लाकी भूरिभञ्जिनी ॥ ७ ॥

भूमिगा भूमिदा भाषा भक्षिणी भृगुभञ्जिनी ।
भाराक्रान्ताभिनन्दा च भजिनी भूमिपालिनी ॥ ८ ॥

भद्रा भगवती भर्गा वत्सला भगशालिनी ।
खेचरी खड्गहस्ता च खण्डिनी खलमर्द्दिनी ॥ ९ ॥

खट्वाङ्गधारिणी खड्वा खडङ्गा खगवाहिनी ।
षट्चक्रभेदविख्याता खगपूज्या स्वगेश्वरी ॥ १० ॥

लाङ्गली ललना लेखा लेखिनी ललना लता ।
लक्ष्मीर्लक्ष्मवति लक्ष्म्या लाभदा लोभवर्जिता ॥ ११ ॥

इति भुवनेश्वरीशतम् ॥ ७ ॥

 अथ लीलावतीशतम् ।

लीलावती ललामाभा लोहमुद्रा लिपिप्रिया ।
लोकेश्वरी च लोकाङ्गा लब्धिर्लोकान्तपालिनी ॥ १ ॥

लीला लीलाङ्गदा लोला लावण्या ललितार्थिनी ।
लोभदा लावनिर्लङ्का लक्षणा लक्ष्यवर्जिता ॥ २ ॥

उर्मोवसी उदीची च उद्योतोद्योतकारिणी । श्री पद्मावती सहस्रनाम स्तोत्र
उद्धारण्या धरोदक्यो दिव्योदकनिवासिनी ॥ ३ ॥

उदाहारोत्तमातंसा औषध्युदधितारणी ।
उत्तरोत्तरवादिभ्यो धराधरनिवासिनी ॥ ४ ॥

उत्कीलन्त्युत्कीलिनी च उत्कीर्णोकाररूपिणि ।
ॐकाराकाररूपा च अम्बिकाऽम्बरचारिणी ॥ ५ ॥

अमोघा सा पुरी चान्ताऽणिमादिगुणसंयुता ।
अनादिनिधनाऽनन्ता चातुलाटाऽट्टहासिनी ॥ ६ ॥

अपणार्द्धबिन्दुधरा लोकालल्यालिवाङ्गना ।
आनन्दानन्ददा लोका राष्ट्रसिद्धिप्रदानका ॥ ७ ॥

अव्यक्तास्त्रमयी मूर्तिरजीर्णा जीणहारिणी ।
अहिकृत्य रजाजारा हुंकाररातिरन्तिदा ॥ ८ ॥

अनुरूपाथ मूत्तिघ्नी क्रीडा कैरवपालिनी ।
अनोकहाशुगा भेद्या छेद्या चाकाशगामिनी ॥ ९ ॥

अनन्तरा साधिकारा त्वाङ्गा अनन्तरनाशिनी ।
अलका यवना लङ्घ्या सीता शिखरधारिणी ॥ १० ॥ श्री पद्मावती सहस्रनाम स्तोत्र

अहिनाथप्रियप्राणा नमस्तुभ्यं महेश्वरी ।
आकर्षण्याधरा रागा मन्दा मोदावधारिणी ॥ ११ ॥

इति लीलावतीशतम् ॥ ८ ॥

 अथ त्रिनेत्राशतम् ।

त्रिनेत्रा त्र्यम्बिका तन्त्री त्रिपुरा त्रिपुरभैरवी ।
त्रिपुष्टा त्रिफणा तारा तोतला त्वरिता तुला ॥ १ ॥

तपप्रिया तापसी च तपोनिष्ठा तपस्विनी ।
त्रैलोक्यदीपका त्रेधा त्रिसन्ध्या त्रिपदाश्रया ॥ २ ॥

त्रिरूपा त्रिपदा त्राणा तारा त्रिपुरसुन्दरी ।
त्रिलोचना त्रिपथगा तारा मानविमर्दिनी ॥ ३ ॥

धर्मप्रिया धर्मदा च धर्मिणी धर्मपालिनी ।
धाराधरधराधारा धात्री धर्माङ्गपालिनी ॥ ४ ॥

धौता धृतिधुरा धीरा धुनुनी च धनुर्द्धरा ।
ब्रह्माणी ब्रह्मगोत्रा च ब्राह्मणी ब्रह्मपालिनी ॥ ५ ॥

गङ्गा गोदावरी गौगा गायत्री गणपालिनी ।
गोचरी गोमती गुर्वाऽगाधा गान्धारिणी गुहा ॥ ६ ॥

ब्राह्मी विद्युत्प्रभा वीरा वीणावासवपूजिता ।
गीताप्रिया गर्भधारा गा गायिनी गजगामिनी ॥ ७ ॥

गरीयसी गुणोपेता गरिष्ठा गरमर्दिनी ।
गम्भीरा गुरुरूपा च गीता गर्वापहारिणी ॥ ८ ॥

ग्रहिणी ग्राहिणी गौरी गन्धारी गन्धवासना ।
गारुडी गासिनी गूढा गौहनी गुणहायिनी ॥ ९ ॥

चक्रमध्या चक्रधरा चित्रणी चित्ररूपिणी ।
चर्चरी चतुरा चित्रा चित्रमाया चतुर्भुजा ॥ १० ॥

चन्द्राभा चन्द्रवर्णा च चक्रिणी चक्रधारिणी ।
चक्रायुधा करधरा चण्डी चण्डपराक्रमा ॥ ११ ॥

इति त्रिनेत्राशतम् ॥ ९ ॥

 अथ चक्रेश्वरीशतम् ।

चक्रेश्वरी चमूश्चिन्ता चापिनी चञ्चलात्मिका ।
चन्द्रलेखा चन्द्रभागा चन्द्रिका चन्द्रमण्डला ॥ १ ॥

चन्द्रकान्तिश्चन्द्रमश्रीश्चन्द्रमण्डलवर्तिनी ।
चतु समुद्रपारान्ता चतुराश्रमवासिनी ॥ २ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

चतुर्मुखी चन्द्रमुखी चतुर्वर्णफलप्रदा ।
चित्स्वरूपा चिदानन्दा चिराश्चिन्तामणिः पिता ॥ ३ ॥

चन्द्रहासा च चामुण्डा चिन्तना चौरवर्जिनी ।
चैत्यप्रिया चत्यलीला चिन्तनार्थफलप्रदा ॥ ४ ॥

ह्रींरूपा हंसगमनी हाकिनी हिङ्गुलाहीता ।
हालाहलधरा हारा हंसवर्णा च हर्षदा ॥ ५ ॥

हिमानी हरिता हीरा हर्षिणी हरिमर्दिनी ।
गोपिनी गौरगीता च दुर्गा दुर्ललिता धरा ॥ ६ ॥

दामिनी दीर्धिका दुग्धा दुर्गमा दुर्लभोदया ।
द्वारिका दक्षिणा दीक्षा दक्षा दक्षातिपूजिता ॥ ७ ॥

दमयन्ती दानवती द्युतिदीप्ता दिवागतिः ।
दरिद्रहा वैरिदूरा दारा दुर्गातिनाशिनी ॥ ८ ॥

दर्पहा दैत्यदासा च दर्शिनी दर्शनप्रिया ।
वृषप्रिया च वृषभा वृषारूढा प्रबोधिनी ॥ ९ ॥

सूक्ष्मा सूक्ष्मगतिः श्लक्ष्णा धनमाला धनद्यूति ।
छाया छात्रच्छविच्छिरक्षीरादा क्षेत्ररक्षिणी ॥ १० ॥

अमरी रतिरात्रीश्च रङ्गिनी रतिदा रुषा ।
स्थूला स्थूलतरा स्थूला स्थण्डिलाशयवासिनी ॥ ११ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

स्थिरा स्थानवती देवी घनघोरनिनादिनी ।
क्षेमङ्करी क्षेमवती क्षेमदा क्षेमवर्द्धिनी ॥ १२ ॥

शेलूषरूपिणो शिष्टा संसारार्णवतारिणी ।
सदा सहायिनी तुभ्यं नमस्तुभ्यं महेश्वरी ॥ १३ ॥

इती चक्रेश्वरीशतम् ॥ १० ॥

 फलश्रुतिः-

नित्यं पुमान् पठति यो नितरां त्रिशुद्ध्या
शौचं विधाय विमलं फणिशेखरायाः ।
स्तोत्रं द्युनाथ उदिते सुसहस्रनाम
चाष्टोत्तरं भवति सो भवनाधिराजः ॥ १ ॥

तत्कालजातवरगोमयलिप्तभूमौ
कुर्याद् दृढासनमतीन्द्रियपद्मकाख्यम् ।
धूपं विधाय वरगुग्गुलुमाज्ययुक्तं
रक्ताम्बरं वपुषि भूप्य मनः प्रशस्तः ॥ २ ॥

न तस्य रात्रौ भयमस्ति किञ्चिन्न शोकरोगोद्भवदुःखजालम् ।
न राजपीडा न च दुर्जनस्य पद्मावतीस्तोत्र निशम्यतां वे ॥ ३ ॥

न बन्धनं तस्य न वह्निजातं
भयं न चारेर्नृपतोऽपि किञ्चित् ।
न मत्तनागस्य न केशरीभयं
यो नित्यपाठी स्तवनस्व पद्मे! ॥ ४ ॥ श्री पद्मावती सहस्रनाम स्तोत्र

न सङ्गरे शस्त्रचयाभिघातः
न व्याघ्रभीतिर्भुवि भीतिभीतिः ।
पिशाचिनीनां न च डाकिनीनां
स्तोत्रं रमायाः पठतीति यो वं ॥ ५ ॥

न राक्षसानां न च शाकिनीनां
न चापदा नैव दरिद्रता च ।
न चास्य मृत्योर्भयमस्ति किञ्चित्
पद्मावतीस्तोत्र निशम्यतां वै ॥ ६ ॥

स्नानं विधाय विधिवद् भुवि पार्श्वभर्तुः
पूजां करोति शुचिद्रव्यचयैर्विधिज्ञः ।
पद्मावती फलति तस्य मनोऽभिलाषं
नानाविधं भवभवं सुखसारभूतम् ॥ ७ ॥

सुपूर्वाह्णमध्याह्नसन्ध्यासु पाठं
तथैवावकाशं भवेदेकचित्तः ।
भवेत्तस्य लाभार्थं आदित्यवारे
करोतीह भक्तिं सदा पार्श्वभर्तुः ॥ ८ ॥

शुभापत्यलक्ष्मीर्नु वाजीन्द्रयूथा
गृहे तस्य नित्यं सदा सञ्चरन्ति
नवीनाङ्गनानां गणास्तस्य नित्यं
शिवायाः सुनामावलिर्यस्य चित्ते ॥ ९ ॥

ममाल्पबुद्ध्या स्तवनं विधाय
करोमि भक्तिं फणिशेस्वरायाः ।
यदर्थमन्त्राक्षरव्यञ्जनच्युतं
विशोधनीयं कृपया हि सद्भिः ॥ १० ॥

भो देवि! भो मात! ममापराधं
संक्षम्यति तत्स्तवनाभिधाने ।
माता यथापत्यकृतापराधं
संक्षम्यति प्रीत्यपलायनैक्यम् ॥ ११ ॥

॥ इति श्रीभैरवपद्मावतीकल्पे
पद्मावतीसहस्रनामस्तोत्रं सम्पूर्णम् ॥

 जपं

(१) ॐ ह्रीं श्रीं क्ळीं ब्लैं कलिकुण्डस्वामिन्! सिद्धिथ्भियं
जगद् वश्यमानय आनय स्वाहा ॥ १०८ ॥

(२) ॐ ह्रीं ऐं श्रीं श्रीगौतमगणराजाय स्वाहा ॥ लक्ष १ ॥

(३) क्व नमो चालिदेवि! पद्मावति! आकृष्टिकरणि! कामचारि,
मोहचारि, अबोलु वोलावि, अदयनुं दिवारि,
आणि पासि घालि दासु ॐ फट् स्वाहा ।
जाप २४ सहस्रं । प्रत्यहं १०८ जपनीयम् । वश्यम् ॥

(४) ओं आं ऐं क्रों ह्रीं हसरूपे! सर्ववश्ये!
श्रीं सोहं पद्मावत्यै ह्रीं नमः प० । जापोऽयं दीपोत्सवे ।
घृरतदीपोऽखण्डः रक्षणीयः ।

॥ शुभं भवतु ॥

 Shri Padmavati Sahasranama Stotra/श्री पद्मावती सहस्रनाम स्तोत्र

॥ Sripadmavati sahasranama stotram ॥

atha padmavatisatam ।

pranamya paraya bhaktya devyah padambujaṃ tridha ।
namanyastasahasrani vaktuṃ tadbhaktihetave ॥ 1 ॥

sriparsvanathacaranambujacancarika
bhavyandhanetravimalikarane salaka ।
nargedrapranadharanidharadharanabhrt
maṃ patu sa bhagavati nitaramaghebhyah ॥ 2 ॥

padmavati padmavarna padmahastapi padmani ।
padmasana padmakarna padmasya padmalocana ॥ 3 ॥ Shri Padmavati Sahasranama Stotra

padma padmadalaksi ca padmi padmavanasthita ।
padmalaya padmagandha padmaragoparagika ॥ 4 ॥

padmapriya padmanabhih padmanga padmasayini ।
padmavarnavati puta pavitra papanasini ॥ 5 ॥

prabhavati prasiddha ca parvati puravasini ।
prajna prahladini pritih pitabha paramesvari ॥ 6 ॥ Shri Padmavati Sahasranama Stotra

patalavasini purna padmayonih priyaṃvada ।
pradipta pasahasta ca para para paraṃpara ॥ 7 ॥

pingala parama pura pinga praci praticika ।
parakaryakara prthvi parthivi prthivi pavi ॥ 8 ॥

pallava panada patra pavitrangi ca putana ।
prabha patakini pita pannagadhipasekhara ॥ 9 ॥

pataka padmakatini patimanyaparakrama ।
padambujadhara pustih paramagamabodhini ॥ 10 ॥

paramatma parananda parama patraposini ।
pancabanagatih pautri pasandaghni pitamahi ॥ 11 ॥

prahelikapi pratyanca prthupapaughanasini ।
purnacandramukhi punya puloma purnima tatha ॥ 12 ॥ Shri Padmavati Sahasranama Stotra

pavani paramananda pandita panditedita ।
praṃsulabhya prameya ca prabha prakaravartini ॥ 13 ॥

pradhana prarthita prarthya padada panktivarjini ।
patalasyesvarapranapreyasi pranamami tam ॥ 14 ॥

iti padmavatisatam ॥ 1 ॥

 atha mahajyotisatam ।

mahajyotirmati mata mahamaya mahasati ।
mahadiptimati mitra mahacandi ca mangala ॥ 1 ॥

mahisi manusi megha mahalaksmirmanohara ।
mahapraharanimnanga manini manasalini ॥ 2 ॥

margadatri muhurta ca madhvi madhumati mahi ।
mahesvari mahejya ca muktaharavibhusana ॥ 3 ॥

mahamudra manojna ca mahasvetatimohini ।
madhupriya matirmaya mohini ca manasvini ॥ 4 ॥

mahismati mahavega manada manaharini ।
mahaprabha ca madana mantravasya munipriya ॥ 5 ॥ Shri Padmavati Sahasranama Stotra

mantrarupa ca mantrajna mantrada mantrasagara ।
madhupriya mahakaya mahasila mahabhuja ॥ 6 ॥

mahasana maharamya manobheda mahasama ।
mahakantidhara muktirmahavratasahayini ॥ 7 ॥

madhusrava murchana ca mrgaksi ca mrgavati ।
mrnalini manahpustirmahasaktirmaharthada ॥ 8 ॥

muladhara mrdani ca mattamatangagamini ।
mandakini mahavidya maryada meghamalini ॥ 9 ॥

matamahi mandagatih mahakesi mahidhara ।
mahotsaha mahadevi mahila manavarddhini ॥ 10 ॥

mahagrahahara mari moksamargaprakasini ।
manya manavati mani maninupurasekhara ॥ 11 ॥
manikancidhara mana mahamatiprakasini ।
idesvari dijyecchekhe khendrani kalarupini ॥ 12 ॥

iti mahajyotirmatisatam ॥ 2 ॥

 atha jinamatasatam ।

jinamata jinendra ca jayanti jagadisvari ।
jaya jayavati jaya janani janapalini ॥ 1 ॥

jaganmata jaganmaya jagajjaitri jagajjita । Shri Padmavati Sahasranama Stotra
jagara jarjara jaitri yamunajalabhasini ॥ 2 ॥

yogini yogamula ca jagaddhatri jalandhara ।
yogapattadhara jvala jyotirupa ca jalini ॥ 3 ॥

jvalamukhi jvalamala jvalani ca jagaddhita ।
jainesvari jinadhara jivani yasapalini ॥ 4 ॥

yasoda jyayasi jirna jarjara jvaranasini ।
jvararupa jara jirna jangula”mayatarjini ॥ 5 ॥

yugabhara jaganmitra yantrini janmabhusini ।
yogesvari ca yorganga yogayukta yugadija ॥ 6 ॥

yatharthavadini jambunadakantidhara jaya ।
narayani narmada ca nimesa narttini nari ॥ 7 ॥

nilananta nirakara niradhara nirasraya ।
nrpavasya niramanya nihsanga nrpanandini ॥ 8 ॥

nrpadharmamayi nitih totala narapalini ।
nanda nandivati nista nirada nagavallabha ॥ 9 ॥

nrtyapriya nandini ca nitya neka niramisa। ।
nagapasadhara noka nihkalanka niragasa ॥ 10 ॥

nagavalli nagakanya nagini nagakundali । Shri Padmavati Sahasranama Stotra
nidra ca nagadamani netra naracavarsini ॥ 11 ॥

nirvikara ca nirvaira naganathesavallabha ।
nirlobha ca namastubhyaṃ nityanandavidhayini ॥ 12 ॥

iti jinamatasatam ॥ 3 ॥

 atha vajrahastasatam ।

vajrahasta ca varada vajrasaila varuthini ।
vajra vajrayudha vani vijaya visvavyapini ॥ 1 ॥

vasuda balada vira visaya visavarddhini ।
vasundhara vara visva varnini vayugamini ॥ 2 ॥

bahuvarna bijavati vidya buddhimati vibha ।
vedya vamavati vama vinidra vaṃsabhusana ॥ 3 ॥

vararoha visoka ca vedarupa vibhusana ।
visala varunikalpa balika balakapriya ॥ 4 ॥

vartini visaha bala vivakta vanajasini ।
vandya vidhisuta bala visvayonirbudhapriya ॥ 5 ॥

balada viramata ca vasudha viranandini ।
varayudhadhara vesi varida balasalini ॥ 6 ॥

budhamata vaidyamata bandhura bandhurupini ।
vidyavati visalaksi vedamata vibhasvari ॥ 7 ॥ Shri Padmavati Sahasranama Stotra

vatyali visama vesa vedavedangadharini ।
vedamargarata vyakta viloma vedasalini ॥ 8 ॥

visvamata vikampa ca vaṃsajna visvadipika ।
vasantarupini varsa vimala vividhayudha ॥ 9 ॥

vijnanani pavitra ca vipanci bandhamoksini ।
visarupavati varddha vinita visikha vibha ॥ 10 ॥

vyalini vyalalila ca vyapta vyadhivinasini ।
vimoha banasandoha varddhini varddhamanaka ॥ 11 ॥

isani totara bhidra varadayi namo’stu te ।
vyalesvari priyaprana preyasi vasudayini ॥ 12 ॥

iti vajrahastasatam ॥ 4 ॥

 atha kamadasatam ।

kamada kamala kamya kamanga kamasadhini ।
kalavati kalapurna kaladhari kaniyasi ॥ 1 ॥

kamini kamaniyanga kvanatkancanasannibha ।
katyayini kantida ca kamala kamarupini ॥ 2 ॥

kamini kamalamoda kamra kantikari priya ।
kayastha kalika kali kumari kalarupini ॥ 3 ॥ Shri Padmavati Sahasranama Stotra

kalakara kamadhenuh kasi kamalalocana ।
kuntala kanakabha ca kasmira kunkumapriya ॥ 4 ॥

krpavati kundalani kundalakarasayini ।
karkasa komala kali kauliki kulavalika ॥ 5 ॥

kalacakradhara kalpa kalika kavyakarika ।
kavipriya ca kausambi karini kosavarddhini ॥ 6 ॥

kusavati kiralabha kosastha kantibaddhani ।
kadambari kathorastha kausamba kosavasini ॥ 7 ॥m
kalaghni kalahanani kumarajanati krtih ।
kaivalyadayini keka karmaha kalavarjini ॥ 8 ॥

kalankarahita kanya karunyalayavasini ।
karpuramodanihsvasa kamavijavati kara ॥ 9 ॥

kulina kundapuspabha kurkutoragavahini ।
kalipriya kamabana kamathoparisayini ॥ 10 ॥

kathora kathina krura kandala kadalipriya ।
krodhani krodharupa ca cakrahuṃkaravartini ॥ 11 ॥

kambojini kandarupa kodandakaradharini ।
kuhu kridavati krida kumaranandadayini ॥ 12 ॥

kamalasana ketaki ca keturupa kutuhala ।
kopini koparupa ca kusumavasavasini ॥ 13 ॥ Shri Padmavati Sahasranama Stotra

iti kamadasatam ॥ 5 ॥

 atha sarasvatisatam ।

sarasvati saranya ca sahasraksi sarojaga ।
siva sati sudharupa sivamaya suta subha ॥ 1 ॥

sumedha sumukhi santa savitri sayagamini ।
surottama suvarna ca srirupa sastrasalini ॥ 2 ॥

santa sulocana sadhvi siddha sadhya sudhatmika ।
sarada sarala sara suvesa jasavardvini ॥ 3 ॥

sankari samita suddha sakramanya sivankari ।
suddhahararata syama sima silavati sara ॥ 4 ॥

sitala subhaga sarva sukesi sailavasini ।
salini saksini sita subhiksa siyapreyasi ॥ 5 ॥

suvarna sonavarna ca sundari surasundari ।
saktistusa sarika ca sevya srih sujanarcita ॥ 6 ॥

sivaduti svetavarna subhrabha subhanasiki ।
siṃhika sakala sobha svamini sivaposini ॥ 7 ॥

sreyaskari sreyasi ca saurih saudamini sucih ।
saubhagini sosini ca sugandha sumanahpriya ॥ 8 ॥ Shri Padmavati Sahasranama Stotra

saurameyi susurabhi svetatapatradharini ।
srngarini satyavakta siddhartha silabhusana ॥ 9 ॥

satyarthini ca sadhyabha saci saṃkrantisiddhida ।
saṃharakarini siṃhi saptarcih saphalarthada ॥ 10 ॥

satya sinduravarnabha sinduratilakapriya ।
saranga sutara tubhyaṃ te namo’stu suyogini ॥ 11 ॥

iti sarasvatisatam ॥ 6 ॥

 atha bhuvanesvarisatam ।

bhuvanesvari bhusana ca bhuvana bhumipapriya ।
bhumigarbha bhupavadya bhujangesapriya bhaga ॥ 1 ॥

bhujangabhusanabhogah bhujangakarasayini ।
bhavabhitihara bhima bhumirbhimattahasini ॥ 2 ॥

bharati bhavati bhoga bhagani bhogamandira ।
bhadrika bhadrarupa ca bhutatma bhutabhanjini ॥ 3 ॥

bhavani bhairavi bhima bhamini bhramanasini ।
bhujangini bhrusundi ca medini bhumibhusana ॥ 4 ॥

bhinna bhagyavati bhasa bhogini bhogavallabha ।
bhuktida bhaktigraha ca bhavasagaratarini ॥ 5 ॥

bhasvati bhasvara bhurtirbhutida bhutivarddhini ।
bhagyada bhogyada bhogya bhavini bhavanasini ॥ 6 ॥ Shri Padmavati Sahasranama Stotra

bhiksna bhattaraka bhirurbhramari bhramari bhava ।
bhattini bhandada bhanda bhallaki bhuribhanjini ॥ 7 ॥

bhumiga bhumida bhasa bhaksini bhrgubhanjini ।
bharakrantabhinanda ca bhajini bhumipalini ॥ 8 ॥

bhadra bhagavati bharga vatsala bhagasalini ।
khecari khadgahasta ca khandini khalamarddini ॥ 9 ॥

khatvangadharini khadva khadanga khagavahini ।
satcakrabhedavikhyata khagapujya svagesvari ॥ 10 ॥ Shri Padmavati Sahasranama Stotra

langali lalana lekha lekhini lalana lata ।
laksmirlaksmavati laksmya labhada lobhavarjita ॥ 11 ॥

iti bhuvanesvarisatam ॥ 7 ॥

 atha lilavatisatam ।

lilavati lalamabha lohamudra lipipriya ।
lokesvari ca lokanga labdhirlokantapalini ॥ 1 ॥

lila lilangada lola lavanya lalitarthini ।
lobhada lavanirlanka laksana laksyavarjita ॥ 2 ॥

urmovasi udici ca udyotodyotakarini ।
uddharanya dharodakyo divyodakanivasini ॥ 3 ॥

udaharottamataṃsa ausadhyudadhitarani ।
uttarottaravadibhyo dharadharanivasini ॥ 4 ॥

utkilantyutkilini ca utkirnokararupini ।
Om̃karakararupa ca ambika’mbaracarini ॥ 5 ॥

amogha sa puri canta’nimadigunasaṃyuta ।
anadinidhana’nanta catulata’ttahasini ॥ 6 ॥ Shri Padmavati Sahasranama Stotra

apanarddhabindudhara lokalalyalivangana ।
anandanandada loka rastrasiddhipradanaka ॥ 7 ॥

avyaktastramayi murtirajirna jinaharini ।
ahikrtya rajajara huṃkararatirantida ॥ 8 ॥

anurupatha muttighni krida kairavapalini ।
anokahasuga bhedya chedya cakasagamini ॥ 9 ॥

anantara sadhikara tvanga anantaranasini ।
alaka yavana langhya sita sikharadharini ॥ 10 ॥

ahinathapriyaprana namastubhyaṃ mahesvari ।
akarsanyadhara raga manda modavadharini ॥ 11 ॥

iti lilavatisatam ॥ 8 ॥

 atha trinetrasatam ।

trinetra tryambika tantri tripura tripurabhairavi ।
tripusta triphana tara totala tvarita tula ॥ 1 ॥

tapapriya tapasi ca taponistha tapasvini ।
trailokyadipaka tredha trisandhya tripadasraya ॥ 2 ॥

trirupa tripada trana tara tripurasundari ।
trilocana tripathaga tara manavimardini ॥ 3 ॥

dharmapriya dharmada ca dharmini dharmapalini ।
dharadharadharadhara dhatri dharmangapalini ॥ 4 ॥

dhauta dhrtidhura dhira dhununi ca dhanurddhara ।
brahmani brahmagotra ca brahmani brahmapalini ॥ 5 ॥

ganga godavari gauga gayatri ganapalini ।
gocari gomati gurva’gadha gandharini guha ॥ 6 ॥

brahmi vidyutprabha vira vinavasavapujita ।
gitapriya garbhadhara ga gayini gajagamini ॥ 7 ॥

gariyasi gunopeta garistha garamardini ।
gambhira gururupa ca gita garvapaharini ॥ 8 ॥

grahini grahini gauri gandhari gandhavasana ।
garudi gasini gudha gauhani gunahayini ॥ 9 ॥

cakramadhya cakradhara citrani citrarupini ।
carcari catura citra citramaya caturbhuja ॥ 10 ॥

candrabha candravarna ca cakrini cakradharini ।
cakrayudha karadhara candi candaparakrama ॥ 11 ॥

iti trinetrasatam ॥ 9 ॥

 atha cakresvarisatam ।

cakresvari camuscinta capini cancalatmika ।
candralekha candrabhaga candrika candramandala ॥ 1 ॥

candrakantiscandramasriscandramandalavartini ।
catu samudraparanta caturasramavasini ॥ 2 ॥

caturmukhi candramukhi caturvarnaphalaprada ।
citsvarupa cidananda cirascintamanih pita ॥ 3 ॥

candrahasa ca camunda cintana cauravarjini ।
caityapriya catyalila cintanarthaphalaprada ॥ 4 ॥

hriṃrupa haṃsagamani hakini hingulahita ।
halahaladhara hara haṃsavarna ca harsada ॥ 5 ॥

himani harita hira harsini harimardini ।
gopini gauragita ca durga durlalita dhara ॥ 6 ॥

damini dirdhika dugdha durgama durlabhodaya ।
dvarika daksina diksa daksa daksatipujita ॥ 7 ॥

damayanti danavati dyutidipta divagatih ।
daridraha vairidura dara durgatinasini ॥ 8 ॥

darpaha daityadasa ca darsini darsanapriya ।
vrsapriya ca vrsabha vrsarudha prabodhini ॥ 9 ॥

suksma suksmagatih slaksna dhanamala dhanadyuti ।
chaya chatracchavicchiraksirada ksetraraksini ॥ 10 ॥

amari ratiratrisca rangini ratida rusa ।
sthula sthulatara sthula sthandilasayavasini ॥ 11 ॥

sthira sthanavati devi ghanaghoraninadini ।
ksemankari ksemavati ksemada ksemavarddhini ॥ 12 ॥

selusarupino sista saṃsararnavatarini ।
sada sahayini tubhyaṃ namastubhyaṃ mahesvari ॥ 13 ॥

iti cakresvarisatam ॥ 10 ॥

phalasrutih

nityaṃ puman pathati yo nitaraṃ trisuddhya
saucaṃ vidhaya vimalaṃ phanisekharayah ।
stotraṃ dyunatha udite susahasranama
castottaraṃ bhavati so bhavanadhirajah ॥ 1 ॥

tatkalajatavaragomayaliptabhumau
kuryad drdhasanamatindriyapadmakakhyam ।
dhupaṃ vidhaya varaguggulumajyayuktaṃ
raktambaraṃ vapusi bhupya manah prasastah ॥ 2 ॥

na tasya ratrau bhayamasti kincinna sokarogodbhavaduhkhajalam ।
na rajapida na ca durjanasya padmavatistotra nisamyataṃ ve ॥ 3 ॥

na bandhanaṃ tasya na vahnijataṃ
bhayaṃ na carernrpato’pi kincit ।
na mattanagasya na kesaribhayaṃ
yo nityapathi stavanasva padme! ॥ 4 ॥

na sangare sastracayabhighatah
na vyaghrabhitirbhuvi bhitibhitih ।
pisacininaṃ na ca dakininaṃ
stotraṃ ramayah pathatiti yo vaṃ ॥ 5 ॥

na raksasanaṃ na ca sakininaṃ
na capada naiva daridrata ca ।
na casya mrtyorbhayamasti kincit
padmavatistotra nisamyataṃ vai ॥ 6 ॥

snanaṃ vidhaya vidhivad bhuvi parsvabhartuh
pujaṃ karoti sucidravyacayairvidhijnah ।
padmavati phalati tasya mano’bhilasaṃ
nanavidhaṃ bhavabhavaṃ sukhasarabhutam ॥ 7 ॥

supurvahnamadhyahnasandhyasu pathaṃ
tathaivavakasaṃ bhavedekacittah ।
bhavettasya labharthaṃ adityavare
karotiha bhaktiṃ sada parsvabhartuh ॥ 8 ॥

subhapatyalaksmirnu vajindrayutha
grhe tasya nityaṃ sada sancaranti
navinangananaṃ ganastasya nityaṃ
sivayah sunamavaliryasya citte ॥ 9 ॥

mamalpabuddhya stavanaṃ vidhaya var mamalpavaddheh
karomi bhaktiṃ phanisesvarayah ।
yadarthamantraksaravyanjanacyutaṃ
visodhaniyaṃ krpaya hi sadbhih ॥ 10 ॥

bho devi! bho mata! mamaparadhaṃ
saṃksamyati tatstavanabhidhane ।
mata yathapatyakrtaparadhaṃ
saṃksamyati prityapalayanaikyam ॥ 11 ॥

॥ iti sribhairavapadmavatikalpe
padmavatisahasranamastotraṃ sampurnam ॥

 japa

(1) Om̃ hriṃ sriṃ kḷiṃ blaiṃ kalikundasvamin! siddhithbhiyaṃ
jagad vasyamanaya anaya svaha ॥ 108 ॥

(2) Om̃ hriṃ aiṃ sriṃ srigautamaganarajaya svaha ॥ laksa 1 ॥

(3) kva namo calidevi! padmavati! akrstikarani! kamacari,
mohacari, abolu volavi, adayanuṃ divari,
ani pasi ghali dasu Om̃ phat svaha ।
japa 24 sahasraṃ । pratyahaṃ 108 japaniyam । vasyam ॥

(4) oṃ aṃ aiṃ kroṃ hriṃ hasarupe! sarvavasye!
sriṃ sohaṃ padmavatyai hriṃ namah pa0 । japo’yaṃ dipotsave ।
ghrratadipo’khandah raksaniyah ।

॥ subhaṃ bhavatu ॥