Sankat Haran Ganesh Ashtakam, संकटहरण गणेश अष्टकम

संकटहरण गणेश अष्टकम/Sankat Haran Ganesh Ashtakam

Sankat Haran Ganesh Ashtakam/संकटहरण गणेश अष्टकम

।। श्रीगणेशाय नम: ।।

ॐ अस्य श्रीसंकष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपतिर्देवता संकष्टहरणार्थे जपे विनियोग: ।

ॐॐॐकाररूपं त्र्यहमिति च परं यत्स्वरूपं तुरीयं त्रैगुण्यातीतलीलं कलयति मनसस्तेजसिंदूरमूर्तिम् ।

योगीन्द्रैर्ब्रह्मारन्ध्रै: सकलगुणमयं श्रीहरेन्द्रेण सगंगंगंगंगं गणेशं गजमुखमभितो व्यापकं चिंतयामि ।।1।।

वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे न्यस्ततुंडं क्रं क्रं क्रं क्रोधमुद्रादलितरिपुबलं कल्पवृक्षस्य मूले ।

दं दं दं दंतमेकं दधति दधति मुनिमुखं कामधेन्वा निषेव्यं धं धं धं धारयन्तं धनदमतिधियं सिद्धिबुद्धिद्वितीयम् ।।2।।

तुं तुं तुं तुंगरूपं गगनपथि गतं व्याप्नुवन्तं दिगन्तान्  क्लीं क्लीं क्लींकारनाथंगलितमदमिलल्लोलमत्तालिमालम् ।

ह्रींह्रींह्रींकारपिंगं सकलमुनिवरध्येयमुण्डं च शुण्डं श्रीं श्रीं श्रीं श्रीं श्रयन्तं निखिलनिधिकुलं नौमि हेरम्बबिम्बम् ।।3।।

लौं लौं लौंकारमाद्यं प्रणवमिव पदं मन्त्रमुक्तावलीना शुद्धं विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम् ।

डं डं डं डामरूपं दलितभवभयं सूर्यकोटिप्रकाशं यं यं यं यज्ञनार्थ जपति मुनिवरो वाज्झमभयन्तरं च ।।4।।

हुं हुं हुं हेमवर्ण श्रुतिगणितगुणं शूर्पकर्णं कृपालुं ध्येयं सूर्यस्य बिम्बं ज्झुरसि च विलसत्सर्पयज्ञोपवीतम् ।

स्वाहाहुंफट्नमोन्तैष्ठठठसहितै: पल्लवै: सेव्यमानं मन्त्राणां सप्तकोटिप्रगुणितमहिमाधरमीशं प्रपद्ये ।।5।।

पूर्वं पीठं त्रिकोणं तदुपरि रुचिरं षट्कपत्रं पवित्रं यस्योध्र्वं शुद्धरेखा वसुदलकमलं वा स्वतेजश्चतुस्त्रम् ।

मध्यं हुंकारबीजं तदनु भवगत: स्वांगषट्कं षडस्त्रे अष्टौशक्तीश्च सिद्धिर्बहुलगणपतिर्विष्टरश्चाष्टकं च ।।6।।

धर्माद्यष्टौ प्रसिद्धा दशदिशि विदिता वा ध्वजाल्य: कपालं तस्य क्षेत्रादिनाथं मुनिकुलमखिलं मन्त्रमुद्रामहेशम् ।

एवं यो भक्तियुक्तो जपति गणपति पुष्पधूपाक्षताद्यैर्नैवेद्यैर्मोदकानां स्तुतियुतविलसद्गीतवादित्रनादै: ।।7।।

राजानस्तस्य भृत्या इव युवतिकुलं दासवत्सर्वदाऽऽस्ते लक्ष्मी: सर्वांगयुक्ता श्रयति च सदनं किंकरा: सर्वलोका: ।

पुत्रा: पुत्र्य: पवित्रा रणभुवि विजयी द्यूतवादेऽपि वीरो यस्येशो विघ्नराजो निवसति ह्रदये भक्तिभाग्यस्य रूद्र: ।।8।।