Balram Sahasranaam Stotram, बलराम सहस्रनाम स्तोत्रम्

बलराम सहस्रनाम स्तोत्रम्/Balram Sahasranaam Stotram

Balram Sahasranaam Stotram (बलराम सहस्रनाम स्तोत्रम्)

दुर्योधन उवाच –

बलभद्रस्य देवस्य प्राड्विपाक महामुने ।
नाम्नां सहस्रं मे ब्रूहि गुह्यं देवगणैरपि ॥ १ ॥

 प्राड्विपाक उवाच – बलराम सहस्रनाम स्तोत्रम्

साधु साधु महाराज साधु ते विमलं यशः ।
यत्पृच्छसे परमिदं गर्गोक्तं देवदुर्लभम् ॥ २ ॥

नाम्नां सहस्रं दिव्यानां वक्ष्यामि तव चाग्रतः ।
गर्गाचार्येण गोपीभ्यो दत्तं कृष्णातटे शुभे ॥ ३ ॥

ॐ अस्य श्रीबलभद्रसहस्रनामस्त्रोत्रमन्त्रस्य
गर्गाचार्य ऋषिः अनुष्टुप् छन्दः
सङ्कर्षणः परमात्मा देवता बलभद्र इति बीजं
रेवतीति शक्तिः अनन्त इति कीलकं
बलभद्रप्रीत्यर्थे जपे विनियोगः ॥

बलराम सहस्रनाम स्तोत्रम् अथ ध्यानम् ।

स्फुरदमलकिरीटं किङ्किणीकङ्कणार्हं
चलदलककपोलं कुण्डलश्रीमुखाब्जम् ।
तुहिनगिरिमनोज्ञं नीलमेघाम्बराढ्यं
हलमुसलविशालं कामपालं समीडे ॥ ४ ॥

ॐ बलभद्रो रामभद्रो रामः सङ्कर्षणोऽच्युतः ।
रेवतीरमणो देवः कामपालो हलायुधः ॥ ५ ॥

नीलाम्बरः श्वेतवर्णो बलदेवोऽच्युताग्रजः ।
प्रलम्बघ्नो महावीरो रौहिणेयः प्रतापवान् ॥ ६ ॥

तालाङ्को मुसली हली हरिर्यदुवरो बली ।
सीरपाणिः पद्मपाणिर्लगुडी वेणुवादनः ॥ ७ ॥

कालिन्दिभेदनो वीरो बलः प्रबल ऊर्ध्वगः ।
वासुदेवकलानन्तः सहस्रवदनः स्वराट् ॥ ८ ॥

वसुर्वसुमतीभर्ता वासुदेवो वसूत्तमः ।
यदूत्तमो यादवेन्द्रो माधवो वृष्णिवल्लभः ॥ ९ ॥

द्वारकेशो माथुरेशो दानी मानी महामनाः ।
पूर्णः पुराणः पुरुषः परेशः परमेश्वरः ॥ १० ॥

परिपूर्णतमः साक्षात्परमः पुरुषोत्तमः ।
अनन्तः शाश्वतः शेषो भगवान्प्रकृतेः परः ॥ ११ ॥

जीवात्मा परमात्मा च ह्यन्तरात्मा ध्रुवोऽव्ययः ।
चतुर्व्यूहश्चतुर्वेदश्चतुर्मूर्तिश्चतुष्पदः ॥ १२ ॥

प्रधानं प्रकृतिः साक्षी सङ्घातः सङ्घवान् सखी ।
महामना बुद्धिसखश्चेतोऽहंकार आवृतः ॥ १३ ॥

इन्द्रियेशो देवातात्मा ज्ञानं कर्म च शर्म च ।
अद्वितीयो द्वितीयश्च निराकारो निरञ्जनः ॥ १४ ॥

विराट् सम्राट् महौघश्च धारः स्थास्नुश्चरिष्णुमान् ।
फणीन्द्रः फणिराजश्च सहस्रफणमण्डितः ॥ १५ ॥

फणीश्वरः फणी स्फूर्तिः फूत्कारी चीत्करः प्रभुः ।
मणिहारो मणिधरो वितली सुतली तली ॥ १६ ॥

अतली सुतलेशश्च पातालश्च तलातलः ।
रसातलो भोगितलः स्फुरद्दन्तो महातलः ॥ १७ ॥

वासुकिः शङ्खचूडाभो देवदत्तो धनञ्जयः ।
कम्बलाश्वो वेगतरो धृतराष्ट्रो महाभुजः ॥ १८ ॥

वारुणीमदमत्ताङ्गो मदघूर्णितलोचनः ।
पद्माक्षः पद्ममाली च वनमाली मधुश्रवाः ॥ १९ ॥

कोटिकन्दर्पलावण्यो नागकन्यासमर्चितः ।
नूपुरी कटिसूत्री च कटकी कनकाङ्गदी ॥ २० ॥

मुकुटी कुण्डली दण्डी शिखण्डी खण्डमण्डली ।
कलिः कलिप्रियः कालो निवातकवचेश्वरः ॥ २१ ॥

संहारकद्रुर्द्रवयुः कालाग्निः प्रलयो लयः ।
महाहिः पाणिनिः शास्त्रभाष्यकारः पतञ्जलिः ॥ २२ ॥

कात्यायनः पक्विमाभः स्फोटायन उरङ्गमः ।
वैकुण्ठो याज्ञिको यज्ञो वामनो हरिणो हरिः ॥ २३ ॥

कृष्णो विष्णुर्महाविष्णुः प्रभविष्णुर्विशेषवित् ।
हंसो योगेश्वरः कूर्मो वाराहो नारदो मुनिः ॥ २४ ॥

सनकः कपिलो मत्स्यः कमठो देवमङ्गलः ।
दत्तात्रेयः पृथुर्वृद्ध ऋषभो भार्गवोत्तमः ॥ २५ ॥

धन्वन्तरिर्नृसिंहश्च कलिर्नारायणो नरः ।
रामचन्द्रो राघवेन्द्रः कोशलेन्द्रो रघूद्वहः ॥ २६ ॥

काकुत्स्थः करुणासिंधू राजेन्द्रः सर्वलक्षणः ।
शूरो दाशरथिस्त्राता कौसल्यानन्दवर्द्धनः ॥ २७ ॥

सौमित्रिर्भरतो धन्वी शत्रुघ्नः शत्रुतापनः ।
निषङ्गी कवची खड्गी शरी ज्याहतकोष्ठकः ॥ २८ ॥

बद्धगोधाङ्गुलित्राणः शम्भुकोदण्डभञ्जनः ।
यज्ञत्राता यज्ञभर्ता मारीचवधकारकः ॥ २९ ॥

असुरारिस्ताटकारिर्विभीषणसहायकृत् ।
पितृवाक्यकरो हर्षी विराधारिर्वनेचरः ॥ ३० ॥

मुनिर्मुनिप्रियश्चित्रकूटारण्यनिवासकृत् ।
कबन्धहा दण्डकेशो रामो राजीवलोचनः ॥ ३१ ॥

मतङ्गवनसञ्चारी नेता पञ्चवटीपतिः ।
सुग्रीवः सुग्रीवसखो हनुमत्प्रीतमानसः ॥ ३२ ॥

सेतुबन्धो रावणारिर्लंकादहनतत्परः ।
रावण्यरिः पुष्पकस्थो जानकीविरहातुरः ॥ ३३ ॥

अयोध्याधिपतिः श्रीमाँल्लवणारिः सुरार्चितः ।
सूर्यवंशी चन्द्रवंशी वंशीवाद्यविशारदः ॥ ३४ ॥

गोपतिर्गोपवृन्देशो गोपो गोपीशतावृतः ।
गोकुलेशो गोपपुत्रो गोपालो गोगणाश्रयः ॥ ३५ ॥

पूतनारिर्बकारिश्च तृणावर्तनिपातकः ।
अघारिर्धेनुकारिश्च प्रलम्बारिर्व्रजेश्वरः ॥ ३६ ॥

अरिष्टहा केशिशत्रुर्व्योमासुरविनाशकृत् ।
अग्निपानो दुग्धपानो वृन्दावनलताश्रितः ॥ ३७ ॥

यशोमतीसुतो भव्यो रोहिणीलालितः शिशुः ।
रासमण्डलमध्यस्थो रासमण्डलमण्डनः ॥ ३८ ॥

गोपिकाशतयूथार्थी शङ्खचूडवधोद्यतः ।
गोवर्धनसमुद्धर्ता शक्रजिद्व्रजरक्षकः ॥ ३९ ॥

वृषभानुवरो नन्द आनन्दो नन्दवर्धनः ।
नन्दराजसुतः श्रीशः कंसारिः कालियान्तकः ॥ ४० ॥

रजकारिर्मुष्टिकारिः कंसकोदण्डभञ्जनः ।
चाणूरारिः कूटहन्ता शलारिस्तोशलान्तकः ॥ ४१ ॥

कंसभ्रातृनिहन्ता च मल्लयुद्धप्रवर्तकः ।
गजहन्ता कंसहन्ता कालहन्ता कलङ्कहा ॥ ४२ ॥

मागधारिर्यवनहा पाण्डुपुत्रसहायकृत् ।
चतुर्भुजः श्यामलाङ्गः सौम्यश्चौपगविप्रियः ॥ ४३ ॥

युद्धभृदुद्धवसखा मन्त्री मन्त्रविशारदः ।
वीरहा वीरमथनः शङ्खचक्रगदाधरः ॥ ४४ ॥

रेवतीचित्तहर्ता च रेवतीहर्षवर्द्धनः ।
रेवतीप्राणनाथश्च रेवतीप्रियकारकः ॥ ४५ ॥

ज्योतिर्ज्योतिष्मतीभर्ता रैवताद्रिविहारकृत् ।
धृतिनाथो धनाध्यक्षो दानाध्यक्षो धनेश्वरः ॥ ४६ ॥

मैथिलार्चितपादाब्जो मानदो भक्तवत्सलः ।
दुर्योधनगुरुर्गुर्वीगदाशिक्षाकरः क्षमी ॥ ४७ ॥

मुरारिर्मदनो मन्दोऽनिरुद्धो धन्विनां वरः ।
कल्पवृक्षः कल्पवृक्षी कल्पवृक्षवनप्रभुः ॥ ४८ ॥

स्यमन्तकमणिर्मान्यो गाण्डीवी कौरवेश्वरः ।
कुम्भाण्डखण्डनकरः कूपकर्णप्रहारकृत् ॥ ४९ ॥

सेव्यो रैवतजामाता मधुमाधवसेवितः ।
बलिष्ठपुष्टसर्वाङ्गो हृष्टः पुष्टः प्रहर्षितः ॥ ५० ॥

बलराम सहस्रनाम स्तोत्रम्

वाराणसीगतः क्रुद्धः सर्वः पौण्ड्रकघातकः ।
सुनन्दी शिखरी शिल्पी द्विविदाङ्गनिषूदनः ॥ ५१ ॥

हस्तिनापुरसङ्कर्षी रथी कौरवपूजितः ।
विश्वकर्मा विश्वधर्मा देवशर्मा दयानिधिः ॥ ५२ ॥

महाराजच्छत्रधरो महाराजोपलक्षणः ।
सिद्धगीतः सिद्धकथः शुक्लचामरवीजितः ॥ ५३ ॥

ताराक्षः कीरनासश्च बिम्बोष्ठः सुस्मितच्छविः ।
करीन्द्रकरदोर्दण्डः प्रचण्डो मेघमण्डलः ॥ ५४ ॥

कपाटवक्षाः पीनांसः पद्मपादस्फुरद्द्युतिः ।
महविभूतिर्भूतेशो बन्धमोक्षी समीक्षणः ॥ ५५ ॥

चैद्यशत्रुः शत्रुसन्धो दन्तवक्त्रनिषूदकः ।
अजातशत्रुः पापघ्नो हरिदाससहायकृत् ॥ ५६ ॥

शालबाहुः शाल्वहन्ता तीर्थयायी जनेश्वरः ।
नैमिषारण्ययात्रार्थी गोमतीतीरवासकृत् ॥ ५७ ॥

गण्डकीस्नानवान्स्रग्वी वैजयन्तीविराजितः ।
अम्लानपङ्कजधरो विपाशी शोणसम्प्लुतः ॥ ५८ ॥

प्रयागतीर्थराजश्च सरयूः सेतुबन्धनः ।
गयाशिरश्च धनदः पौलस्त्यः पुलहाश्रमः ॥ ५९ ॥

गङ्गासागरसङ्गार्थी सप्तगोदावरीपतिः ।
वेणि भीमरथी गोदा ताम्रपर्णी वटोदका ॥ ६० ॥

कृतमाला महापुण्या कावेरी च पयस्विनी ।
प्रतीची सुप्रभा वेणी त्रिवेणी सरयूपमा ॥ ६१ ॥

कृष्णा पंपा नर्मदा च गङ्गा भागीरथी नदी ।
सिद्धाश्रमः प्रभासश्च बिन्दुर्बिन्दुसरोवरः ॥ ६२ ॥

पुष्करः सैन्धवो जम्बू नरनारायणाश्रमः ।
कुरुक्षेत्रपती रामो जामदग्न्यो महामुनिः ॥ ६३ ॥

इल्वलात्मजहन्ता च सुदामासौख्यदायकः ।
विश्वजिद्विश्वनाथश्च त्रिलोकविजयी जयी ॥ ६४ ॥

वसन्तमालतीकर्षी गदो गद्यो गदाग्रजः ।
गुणार्णवो गुणनिधिर्गुणपात्रो गुणाकरः ॥ ६५ ॥

रङ्गवल्लीजलाकारो निर्गुणः सगुणो बृहत् ।
दृष्टः श्रुतो भवद्भूतो भविष्यच्चाल्पविग्रहः ॥ ६६ ॥

अनादिरादिरानन्दः प्रत्यग्धामा निरन्तरः ।
गुणातीतः समः साम्यः समदृङ्निर्विकल्पकः ॥ ६७ ॥

गूढाव्यूढो गुणो गौणो गुणाभासो गुणावृतः ।
नित्योऽक्षरो निर्विकारोऽक्षरोऽजस्रसुखोऽमृतः ॥ ६८ ॥

सर्वगः सर्ववित्सार्थः समबुद्धिः समप्रभः ।
अक्लेद्योऽच्छेद्य आपूर्णो शोष्यो दाह्यो निवर्तकः ॥ ६९ ॥

ब्रह्म ब्रह्मधरो ब्रह्मा ज्ञापको व्यापकः कविः ।
अध्यात्मकोऽधिभूतश्चाधिदैवः स्वाश्रयाश्रयः ॥ ७० ॥

बलराम सहस्रनाम स्तोत्रम्

महावायुर्महावीरश्चेष्टारूपतनुस्थितः ।
प्रेरको बोधको बोधी त्रयोविंशतिको गणः ॥ ७१ ॥

अंशांशश्च नरावेशोऽवतारो भूपरिस्थितः ।
महर्जनस्तपःसत्यं भूर्भुवःस्वरिति त्रिधा ॥ ७२ ॥

नैमित्तिकः प्राकृतिक आत्यन्तिकमयो लयः ।
सर्गो विसर्गः सर्गादिर्निरोधो रोध ऊतिमान् ॥ ७३ ॥

मन्वन्तरावतारश्च मनुर्मनुसुतोऽनघः ।
स्वयम्भूः शाम्भवः शङ्कुः स्वायम्भुवसहायकृत् ॥ ७४ ॥

सुरालयो देवगिरिर्मेरुर्हेमार्चितो गिरिः ।
गिरीशो गणनाथश्च गौरीशो गिरिगह्वरः ॥ ७५ ॥

विन्ध्यस्त्रिकूटो मैनाकः सुवेलः पारिभद्रकः ।
पतङ्गः शिशिरः कङ्को जारुधिः शैलसत्तमः ॥ ७६ ॥

कालञ्जरो बृहत्सानुर्दरीभृन्नन्दिकेश्वरः ।
सन्तानस्तरुराजश्च मन्दारः पारिजातकः ॥ ७७ ॥

जयन्तकृज्जयन्ताङ्गो जयन्तीदिग्जयाकुलः ।
वृत्रहा देवलोकश्च शशी कुमुदबान्धवः ॥ ७८ ॥

नक्षत्रेशः सुधासिन्धुर्मृगः पुष्यः पुनर्वसुः ।
हस्तोऽभिजिच्च श्रवणो वैधृतिर्भास्करोदयः ॥ ७९ ॥

ऐन्द्रः साध्यः शुभः शुक्लो व्यतीपातो ध्रुवः सितः ।
शिशुमारो देवमयो ब्रह्मलोको विलक्षणः ॥ ८० ॥

रामो वैकुण्ठनाथश्च व्यापी वैकुण्ठनायकः ।
श्वेतद्वीपो जितपदो लोकालोकाचलाश्रितः ॥ ८१ ॥

भूमिर्वैकुण्ठदेवश्च कोटिब्रह्माण्डकारकः ।
असङ्ख्यब्रह्माण्डपतिर्गोलोकेशो गवां पतिः ॥ ८२ ॥

गोलोकधामधिषणो गोपिकाकण्ठभूषणः ।
श्रीधारः श्रीधरो लीलाधरो गिरिधरो धुरी ॥ ८३ ॥

कुन्तधारी त्रिशूली च बीभत्सी घर्घरस्वनः ।
शूलसूच्यर्पितगजो गजचर्मधरो गजी ॥ ८४ ॥

अन्त्रमाली मुण्डमाली व्याली दण्डकमण्डलुः ।
वेतालभृद्भूतसङ्घः कूष्माण्डगणसंवृतः ॥ ८५ ॥

प्रमथेशः पशुपतिर्मृडानीशो मृडो वृषः ।
कृतान्तकालसङ्घारिः कूटः कल्पान्तभैरवः ॥ ८६ ॥

षडाननो वीरभद्रो दक्षयज्ञविघातकः ।
खर्पराशी विषाशी च शक्तिहस्तः शिवार्थदः ॥ ८७ ॥

पिनाकटङ्कारकरश्चलज्झङ्कारनूपुरः ।
पण्डितस्तर्कविद्वान्वै वेदपाठी श्रुतीश्वरः ॥ ८८ ॥

वेदान्तकृत्साङ्ख्यशास्त्री मीमांसी कणनामभाक् ।
काणादिर्गौतमो वादी वादो नैयायिको नयः ॥ ८९ ॥

वैशेषिको धर्मशास्त्री सर्वशास्त्रार्थतत्त्वगः ।
वैयाकरणकृच्छन्दो वैयासः प्राकृतिर्वचः ॥ ९० ॥

पाराशरीसंहितावित्काव्यकृन्नाटकप्रदः ।
पौराणिकः स्मृतिकरो वैद्यो विद्याविशारदः ॥ ९१ ॥

अलङ्कारो लक्षणार्थो व्यङ्ग्यविद्धनवद्ध्वनिः ।
वाक्यस्फोटः पदस्फोटः स्फोटवृत्तिश्च सार्थवित् ॥ ९२ ॥

श‍ृङ्गार उज्ज्वलः स्वच्छोऽद्भुतो हास्यो भयानकः ।
अश्वत्थो यवभोजी च यवक्रीतो यवाशनः ॥ ९३ ॥

प्रह्लादरक्षकः स्निग्ध ऐलवंशविवर्द्धनः ।
गताधिरंबरीषाङ्गो विगाधिर्गाधिनां वरः ॥ ९४ ॥

नानामणिसमाकीर्णो नानारत्नविभूषणः ।
नानापुष्पधरः पुष्पी पुष्पधन्वा प्रपुष्पितः ॥ ९५ ॥

नानाचन्दनगन्धाढ्यो नानापुष्परसार्चितः ।
नानावर्णमयो वर्णो नानावस्त्रधरः सदा ॥ ९६ ॥

नानापद्मकरः कौशी नानाकौशेयवेषधृक् ।
रत्नकम्बलधारी च धौतवस्त्रसमावृतः ॥ ९७ ॥

उत्तरीयधरः पर्णो घनकञ्चुकसङ्घवान् ।
पीतोष्णीषः सितोष्णीषो रक्तोष्णीषो दिगम्बरः ॥ ९८ ॥

दिव्याङ्गो दिव्यरचनो दिव्यलोकविलोकितः ।
सर्वोपमो निरुपमो गोलोकाङ्कीकृताङ्गणः ॥ ९९ ॥

कृतस्वोत्सङ्गगो लोकः कुण्डलीभूत आस्थितः ।
माथुरो माथुरादर्शी चलत्खञ्जनलोचनः ॥ १०० ॥

बलराम सहस्रनाम स्तोत्रम्

दधिहर्ता दुग्धहरो नवनीतसिताशनः ।
तक्रभुक् तक्रहारी च दधिचौर्यकृतश्रमः ॥ १०१ ॥

प्रभावतीबद्धकरो दामी दामोदरो दमी ।
सिकताभूमिचारी च बालकेलिर्व्रजार्भकः ॥ १०२ ॥

धूलिधूसरसर्वाङ्गः काकपक्षधरः सुधीः ।
मुक्तकेशो वत्सवृन्दः कालिन्दीकूलवीक्षणः ॥ १०३ ॥

जलकोलाहली कूली पङ्कप्राङ्गणलेपकः ।
श्रीवृन्दावनसञ्चारी वंशीवटतटस्थितः ॥ १०४ ॥

महावननिवासी च लोहार्गलवनाधिपः ।
साधुः प्रियतमः साध्यः साध्वीशो गतसाध्वसः ॥ १०५ ॥

रङ्गनाथो विठ्ठलेशो मुक्तिनाथोऽघनाशकः ।
सुकिर्तिः सुयशाः स्फीतो यशस्वी रङ्गरञ्जनः ॥ १०६ ॥

रागषट्को रागपुत्रो रागिणीरमणोत्सुकः ।
दीपको मेघमल्हारः श्रीरागो मालकोशकः ॥ १०७ ॥

हिन्दोलो भैरवाख्यश्च स्वरजातिस्मरो मृदुः ।
तालो मानप्रमाणश्च स्वरगम्यः कलाक्षरः ॥ १०८ ॥

शमी श्यामी शतानन्दः शतयामः शतक्रतुः ।
जागरः सुप्त आसुप्तः सुषुप्तः स्वप्न उर्वरः ॥ १०९ ॥

ऊर्जः स्फूर्जो निर्जरश्च विज्वरो ज्वरवर्जितः ।
ज्वरजिज्ज्वरकर्ता च ज्वरयुक् त्रिज्वरो ज्वरः ॥ ११० ॥

जाम्बवान् जम्बुकाशङ्की जम्बूद्वीपो द्विपारिहा ।
शाल्मलिः शाल्मलिद्वीपः प्लक्षः प्लक्षवनेश्वरः ॥ १११ ॥

कुशधारी कुशः कौशी कौशिकः कुशविग्रहः ।
कुशस्थलीपतिः काशीनाथो भैरवशासनः ॥ ११२ ॥

दाशार्हः सात्वतो वृष्णिर्भोजोऽन्धकनिवासकृत् ।
अन्धको दुन्दुभिर्द्योतः प्रद्योतः सात्वतां पतिः ॥ ११३ ॥

शूरसेनोऽनुविषयो भोजवृष्ण्यन्धकेश्वरः ।
आहुकः सर्वनीतिज्ञ उग्रसेनो महोग्रवाक् ॥ ११४ ॥

उग्रसेनप्रियः प्रार्थ्यः पार्थो यदुसभापतिः ।
सुधर्माधिपतिः सत्त्वं वृष्णिचक्रावृतो भिषक् ॥ ११५ ॥

सभाशीलः सभादीपः सभाग्निश्च सभारविः ।
सभाचन्द्रः सभाभासः सभादेवः सभापतिः ॥ ११६ ॥

प्रजार्थदः प्रजाभर्ता प्रजापालनतत्परः ।
द्वारकादुर्गसञ्चारी द्वारकाग्रहविग्रहः ॥ ११७ ॥

द्वारकादुःखसंहर्ता द्वारकाजनमङ्गलः ।
जगन्माता जगत्त्राता जगद्भर्ता जगत्पिता ॥ ११८ ॥

जगद्बन्धुर्जगद्भ्राता जगन्मित्रो जगत्सखः ।
ब्रह्मण्यदेवो ब्रह्मण्यो ब्रह्मपादरजो दधत् ॥ ११९ ॥

ब्रह्मपादरजःस्पर्शी ब्रह्मपादनिषेवकः ।
विप्राङ्घ्रिजलपूताङ्गो विप्रसेवापरायणः ॥ १२० ॥

बलराम सहस्रनाम स्तोत्रम्

विप्रमुख्यो विप्रहितो विप्रगीतमहाकथः ।
विप्रपादजलार्द्राङ्गो विप्रपादोदकप्रियः ॥ १२१ ॥

विप्रभक्तो विप्रगुरुर्विप्रो विप्रपदानुगः ।
अक्षौहिणीवृतो योद्धा प्रतिमापञ्चसंयुतः ॥ १२२ ॥

चतुरोंऽगिराः पद्मवर्ती सामन्तोद्धृतपादुकः ।
गजकोटिप्रयायी च रथकोटिजयध्वजः ॥ १२३ ॥

महारथश्चातिरथो जैत्रं स्यन्दनमास्थितः ।
नारायणास्त्री ब्रह्मास्त्री रणश्लाघी रणोद्भटः ॥ १२४ ॥

मदोत्कटो युद्धवीरो देवासुरभङ्करः ।
करिकर्णमरुत्प्रेजत्कुन्तलव्याप्तकुण्डलः ॥ १२५ ॥

अग्रगो वीरसम्मर्दो मर्दलो रणदुर्मदः ।
भटः प्रतिभटः प्रोच्यो बाणवर्षी सुतोयदः ॥ १२६ ॥

खड्गखण्डितसर्वाङ्गः षोडशाब्दः षडक्षरः ।
वीरघोषः क्लिष्टवपुर्वज्राङ्गो वज्रभेदनः ॥ १२७ ॥

रुग्णवज्रो भग्नदण्डः शत्रुनिर्भत्सनोद्यतः ।
अट्टहासः पट्टधरः पट्टराज्ञीपतिः पटुः ॥ १२८ ॥

कलः पटहवादित्रो हुङ्कारो गर्जितस्वनः ।
साधुर्भक्तपराधीनः स्वतन्त्रः साधुभूषणः ॥ १२९ ॥

अस्वतन्त्रः साधुमयः साधुग्रस्तमना मनाक् ।
साधुप्रियः साधुधनः साधुज्ञातिः सुधाघनः ॥ १३० ॥

साधुचारी साधुचित्तः साधुवासी शुभास्पदः ।
इति नाम्नां सहस्रं तु बलभद्रस्य कीर्तितम् ॥ १३१ ॥

सर्वसिद्धिप्रदं नॄणां चतुर्वर्गफलप्रदम् ।
शतवारं पठेद्यस्तु स विद्यावान् भवेदिह ॥ १३२ ॥

इन्दिरां च विभूतिं चाभिजनं रूपमेव च ।
बलमोजश्च पठनात्सर्वं प्राप्नोति मानवः ॥ १३३ ॥

गङ्गाकूलेऽथ कालिन्दिकूले देवालये तथा ।
सहस्रावर्तपाठेन बलात्सिद्धिः प्रजायते ॥ १३४ ॥

पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
बन्धात्प्रमुच्यते बद्धो रोगी रोगान्निवर्तते ॥ १३५ ॥

अयुतावर्तपाठे च पुरश्चर्याविधानतः ।
होमतर्पणगोदानविप्रार्चनकृतोद्यमात् ॥ १३६ ॥

पटलं पद्धतिं स्तोत्रं कवचं तु विधाय च ।
महामण्डलभर्ता स्यान्मण्डितो मण्डलेश्वरैः ॥ १३७ ॥

मत्तेभकर्णप्रहिता मदगन्धेन विह्वला ।
अलङ्करोति तद्द्वारां भ्रमद्भृङ्गावली भृशम् ॥ १३८ ॥

निष्कारणः पठेद्यस्तु प्रीत्यर्थं रेवतीपतेः ।
नाम्नां सहस्रं राजेन्द्र स जीवन्मुक्त उच्यते ॥ १३९ ॥

सदा वसेत्तस्य गृहे बलभद्रोऽच्युताग्रजः ।
महापातक्यपि जनः पठेन्नामसहस्रकम् ॥ १४० ॥

छित्त्वा मेरुसमं पापं भुक्त्वा सर्वसुखं त्विह ।
परात्परं महाराज गोलोकं धाम याति हि ॥ १४१ ॥

श्रीनारद उवाच – बलराम सहस्रनाम स्तोत्रम्

इति श्रुत्वाच्युताग्रजस्य बलदेवस्य पञ्चाङ्गं
धृतिमान् धार्तराष्ट्रः सपर्यया सहितया परया
भक्त्या प्राड्विपाकं पूजयामास ॥

तमनुज्ञाप्याशिषं दत्वा प्राड्विपाको मुनीन्द्रो
गजाह्वयात्स्वाश्रमं जगाम ॥ १४२ ॥

भगवतोऽनन्तस्य बलभद्रस्य परब्रह्मणः कथां
यः श‍ृणुते श्रावयते तयाऽऽनन्दमयो भवति ॥ १४३ ॥

इदं मया ते कथितं नृपेन्द्र सर्वार्थदं श्रीबलभद्रखण्डम् ।
श‍ृणोति यो धाम हरेः स याति विशोकमानन्दमखण्डरूपम् ॥ १४४ ॥

इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे
बलराम सहस्रनाम स्तोत्रम् वर्णनं नाम त्रयोदशोऽध्यायः ॥॥

 Balram Sahasranaam Stotram/बलराम सहस्रनाम स्तोत्रम्

Balram Sahasranaam Stotram

duryodhana uvaca 

balabhadrasya devasya pradvipaka mahamune ।
namnam sahasram me bruhi guhyam devaganairapi ॥ 1 ॥

pradvipaka uvaca – Balram Sahasranaam Stotram

sadhu sadhu maharaja sadhu te vimalam yasah ।
yatprcchase paramidam gargoktam devadurlabham ॥ 2 ॥

namnam sahasram divyanam vaksyami tava cagratah ।
gargacaryena gopibhyo dattam krsnatate subhe ॥ 3 ॥

Om asya sribalabhadrasahasranamastrotramantrasya
gargacarya rsih anustup chandah
sankarsanah paramatma devata balabhadra iti bijam
revatiti saktih ananta iti kilakam
balabhadraprityarthe jape viniyogah ॥

Balram Sahasranaam Stotram atha dhyanam ।

sphuradamalakiritam kinkinikankanarham
caladalakakapolam kundalasrimukhabjam ।
tuhinagirimanojnam nilameghambaradhyam
halamusalavisalam kamapalam samide ॥ 4 ॥

Om balabhadro ramabhadro ramah sankarsano’cyutah ।
revatiramano devah kamapalo halayudhah ॥ 5 ॥

nilambarah svetavarno baladevo’cyutagrajah ।
pralambaghno mahaviro rauhineyah pratapavan ॥ 6 ॥

talanko musali hali hariryaduvaro bali ।
sirapanih padmapanirlagudi venuvadanah ॥ 7 ॥

kalindibhedano viro balah prabala urdhvagah ।
vasudevakalanantah sahasravadanah svarat ॥ 8 ॥

vasurvasumatibharta vasudevo vasuttamah ।
yaduttamo yadavendro madhavo vrsnivallabhah ॥ 9 ॥

dvarakeso mathureso dani mani mahamanah ।
purnah puranah purusah paresah paramesvarah ॥ 10 ॥

paripurnatamah saksatparamah purusottamah ।
anantah sasvatah seso bhagavanprakrteh parah ॥ 11 ॥

jivatma paramatma ca hyantaratma dhruvo’vyayah ।
caturvyuhascaturvedascaturmurtiscatuspadah ॥ 12 ॥

pradhanam prakrtih saksi sanghatah sanghavan sakhi ।
mahamana buddhisakhasceto’hamkara avrtah ॥ 13 ॥

indriyeso devatatma jnanam karma ca sarma ca ।
advitiyo dvitiyasca nirakaro niranjanah ॥ 14 ॥

virat samrat mahaughasca dharah sthasnuscarisnuman ।
phanindrah phanirajasca sahasraphanamanditah ॥ 15 ॥

phanisvarah phani sphurtih phutkari citkarah prabhuh ।
maniharo manidharo vitali sutali tali ॥ 16 ॥

atali sutalesasca patalasca talatalah ।
rasatalo bhogitalah sphuraddanto mahatalah ॥ 17 ॥

vasukih sankhacudabho devadatto dhananjayah ।
kambalasvo vegataro dhrtarastro mahabhujah ॥ 18 ॥

varunimadamattango madaghurnitalocanah ।
padmaksah padmamali ca vanamali madhusravah ॥ 19 ॥

kotikandarpalavanyo nagakanyasamarcitah ।
nupuri katisutri ca kataki kanakangadi ॥ 20 ॥

mukuti kundali dandi sikhandi khandamandali ।
kalih kalipriyah kalo nivatakavacesvarah ॥ 21 ॥

samharakadrurdravayuh kalagnih pralayo layah ।
mahahih paninih sastrabhasyakarah patanjalih ॥ 22 ॥

katyayanah pakvimabhah sphotayana urangamah ।
vaikuntho yajniko yajno vamano harino harih ॥ 23 ॥

krsno visnurmahavisnuh prabhavisnurvisesavit ।
hamso yogesvarah kurmo varaho narado munih ॥ 24 ॥

sanakah kapilo matsyah kamatho devamangalah ।
dattatreyah prthurvrddha rsabho bhargavottamah ॥ 25 ॥

dhanvantarirnrsimhasca kalirnarayano narah ।
ramacandro raghavendrah kosalendro raghudvahah ॥ 26 ॥

kakutsthah karunasimdhu rajendrah sarvalaksanah ।
suro dasarathistrata kausalyanandavarddhanah ॥ 27 ॥

saumitrirbharato dhanvi satrughnah satrutapanah ।
nisangi kavaci khadgi sari jyahatakosthakah ॥ 28 ॥

baddhagodhangulitranah sambhukodandabhanjanah ।
yajnatrata yajnabharta maricavadhakarakah ॥ 29 ॥

asuraristatakarirvibhisanasahayakrt ।
pitrvakyakaro harsi viradharirvanecarah ॥ 30 ॥

munirmunipriyascitrakutaranyanivasakrt ।
kabandhaha dandakeso ramo rajivalocanah ॥ 31 ॥

matangavanasancari neta pancavatipatih ।
sugrivah sugrivasakho hanumatpritamanasah ॥ 32 ॥

setubandho ravanarirlamkadahanatatparah ।
ravanyarih puspakastho janakivirahaturah ॥ 33 ॥

ayodhyadhipatih srimallavanarih surarcitah ।
suryavamsi candravamsi vamsivadyavisaradah ॥ 34 ॥

gopatirgopavrndeso gopo gopisatavrtah ।
gokuleso gopaputro gopalo goganasrayah ॥ 35 ॥

putanarirbakarisca trnavartanipatakah ।
agharirdhenukarisca pralambarirvrajesvarah ॥ 36 ॥

aristaha kesisatrurvyomasuravinasakrt ।
agnipano dugdhapano vrndavanalatasritah ॥ 37 ॥

yasomatisuto bhavyo rohinilalitah sisuh ।
rasamandalamadhyastho rasamandalamandanah ॥ 38 ॥

gopikasatayutharthi sankhacudavadhodyatah ।
govardhanasamuddharta sakrajidvrajaraksakah ॥ 39 ॥

vrsabhanuvaro nanda anando nandavardhanah ।
nandarajasutah srisah kamsarih kaliyantakah ॥ 40 ॥

rajakarirmustikarih kamsakodandabhanjanah ।
canurarih kutahanta salaristosalantakah ॥ 41 ॥

kamsabhratrnihanta ca mallayuddhapravartakah ।
gajahanta kamsahanta kalahanta kalankaha ॥ 42 ॥

magadhariryavanaha panduputrasahayakrt ।
caturbhujah syamalangah saumyascaupagavipriyah ॥ 43 ॥

yuddhabhrduddhavasakha mantri mantravisaradah ।
viraha viramathanah sankhacakragadadharah ॥ 44 ॥

revaticittaharta ca revatiharsavarddhanah ।
revatiprananathasca revatipriyakarakah ॥ 45 ॥

jyotirjyotismatibharta raivatadriviharakrt ।
dhrtinatho dhanadhyakso danadhyakso dhanesvarah ॥ 46 ॥

maithilarcitapadabjo manado bhaktavatsalah ।
duryodhanagururgurvigadasiksakarah ksami ॥ 47 ॥

murarirmadano mando’niruddho dhanvinam varah ।
kalpavrksah kalpavrksi kalpavrksavanaprabhuh ॥ 48 ॥

syamantakamanirmanyo gandivi kauravesvarah ।
kumbhandakhandanakarah kupakarnapraharakrt ॥ 49 ॥

sevyo raivatajamata madhumadhavasevitah ।
balisthapustasarvango hrstah pustah praharsitah ॥ 50 ॥

Balram Sahasranaam Stotram

varanasigatah kruddhah sarvah paundrakaghatakah ।
sunandi sikhari silpi dvividanganisudanah ॥ 51 ॥

hastinapurasankarsi rathi kauravapujitah ।
visvakarma visvadharma devasarma dayanidhih ॥ 52 ॥

maharajacchatradharo maharajopalaksanah ।
siddhagitah siddhakathah suklacamaravijitah ॥ 53 ॥

taraksah kiranasasca bimbosthah susmitacchavih ।
karindrakaradordandah pracando meghamandalah ॥ 54 ॥

kapatavaksah pinamsah padmapadasphuraddyutih ।
mahavibhutirbhuteso bandhamoksi samiksanah ॥ 55 ॥

caidyasatruh satrusandho dantavaktranisudakah ।
ajatasatruh papaghno haridasasahayakrt ॥ 56 ॥

salabahuh salvahanta tirthayayi janesvarah ।
naimisaranyayatrarthi gomatitiravasakrt ॥ 57 ॥

gandakisnanavansragvi vaijayantivirajitah ।
amlanapankajadharo vipasi sonasamplutah ॥ 58 ॥

prayagatirtharajasca sarayuh setubandhanah ।
gayasirasca dhanadah paulastyah pulahasramah ॥ 59 ॥

gangasagarasangarthi saptagodavaripatih ।
veni bhimarathi goda tamraparni vatodaka ॥ 60 ॥

krtamala mahapunya kaveri ca payasvini ।
pratici suprabha veni triveni sarayupama ॥ 61 ॥

krsna pampa narmada ca ganga bhagirathi nadi ।
siddhasramah prabhasasca bindurbindusarovarah ॥ 62 ॥

puskarah saindhavo jambu naranarayanasramah ।
kuruksetrapati ramo jamadagnyo mahamunih ॥ 63 ॥

ilvalatmajahanta ca sudamasaukhyadayakah ।
visvajidvisvanathasca trilokavijayi jayi ॥ 64 ॥

vasantamalatikarsi gado gadyo gadagrajah ।
gunarnavo gunanidhirgunapatro gunakarah ॥ 65 ॥

rangavallijalakaro nirgunah saguno brhat ।
drstah sruto bhavadbhuto bhavisyaccalpavigrahah ॥ 66 ॥

anadiradiranandah pratyagdhama nirantarah ।
gunatitah samah samyah samadrnnirvikalpakah ॥ 67 ॥

gudhavyudho guno gauno gunabhaso gunavrtah ।
nityo’ksaro nirvikaro’ksaro’jasrasukho’mrtah ॥ 68 ॥

sarvagah sarvavitsarthah samabuddhih samaprabhah ।
akledyo’cchedya apurno sosyo dahyo nivartakah ॥ 69 ॥

brahma brahmadharo brahma jnapako vyapakah kavih ।
adhyatmako’dhibhutascadhidaivah svasrayasrayah ॥ 70 ॥

Balram Sahasranaam Stotram

mahavayurmahavirascestarupatanusthitah ।
prerako bodhako bodhi trayovimsatiko ganah ॥ 71 ॥

amsamsasca naraveso’vataro bhuparisthitah ।
maharjanastapahsatyam bhurbhuvahsvariti tridha ॥ 72 ॥

naimittikah prakrtika atyantikamayo layah ।
sargo visargah sargadirnirodho rodha utiman ॥ 73 ॥

manvantaravatarasca manurmanusuto’naghah ।
svayambhuh sambhavah sankuh svayambhuvasahayakrt ॥ 74 ॥

suralayo devagirirmerurhemarcito girih ।
giriso gananathasca gauriso girigahvarah ॥ 75 ॥

vindhyastrikuto mainakah suvelah paribhadrakah ।
patangah sisirah kanko jarudhih sailasattamah ॥ 76 ॥

kalanjaro brhatsanurdaribhrnnandikesvarah ।
santanastarurajasca mandarah parijatakah ॥ 77 ॥

jayantakrjjayantango jayantidigjayakulah ।
vrtraha devalokasca sasi kumudabandhavah ॥ 78 ॥

naksatresah sudhasindhurmrgah pusyah punarvasuh ।
hasto’bhijicca sravano vaidhrtirbhaskarodayah ॥ 79 ॥

aindrah sadhyah subhah suklo vyatipato dhruvah sitah ।
sisumaro devamayo brahmaloko vilaksanah ॥ 80 ॥

ramo vaikunthanathasca vyapi vaikunthanayakah ।
svetadvipo jitapado lokalokacalasritah ॥ 81 ॥

bhumirvaikunthadevasca kotibrahmandakarakah ।
asankhyabrahmandapatirgolokeso gavam patih ॥ 82 ॥

golokadhamadhisano gopikakanthabhusanah ।
sridharah sridharo liladharo giridharo dhuri ॥ 83 ॥

kuntadhari trisuli ca bibhatsi ghargharasvanah ।
sulasucyarpitagajo gajacarmadharo gaji ॥ 84 ॥

antramali mundamali vyali dandakamandaluh ।
vetalabhrdbhutasanghah kusmandaganasamvrtah ॥ 85 ॥

pramathesah pasupatirmrdaniso mrdo vrsah ।
krtantakalasangharih kutah kalpantabhairavah ॥ 86 ॥

sadanano virabhadro daksayajnavighatakah ।
kharparasi visasi ca saktihastah sivarthadah ॥ 87 ॥

pinakatankarakarascalajjhankaranupurah ।
panditastarkavidvanvai vedapathi srutisvarah ॥ 88 ॥

vedantakrtsankhyasastri mimamsi kananamabhak ।
kanadirgautamo vadi vado naiyayiko nayah ॥ 89 ॥

vaisesiko dharmasastri sarvasastrarthatattvagah ।
vaiyakaranakrcchando vaiyasah prakrtirvacah ॥ 90 ॥

parasarisamhitavitkavyakrnnatakapradah ।
pauranikah smrtikaro vaidyo vidyavisaradah ॥ 91 ॥

alankaro laksanartho vyangyaviddhanavaddhvanih ।
vakyasphotah padasphotah sphotavrttisca sarthavit ॥ 92 ॥

srngara ujjvalah svaccho’dbhuto hasyo bhayanakah ।
asvattho yavabhoji ca yavakrito yavasanah ॥ 93 ॥

prahladaraksakah snigdha ailavamsavivarddhanah ।
gatadhirambarisango vigadhirgadhinam varah ॥ 94 ॥

nanamanisamakirno nanaratnavibhusanah ।
nanapuspadharah puspi puspadhanva prapuspitah ॥ 95 ॥

nanacandanagandhadhyo nanapusparasarcitah ।
nanavarnamayo varno nanavastradharah sada ॥ 96 ॥

nanapadmakarah kausi nanakauseyavesadhrk ।
ratnakambaladhari ca dhautavastrasamavrtah ॥ 97 ॥

uttariyadharah parno ghanakancukasanghavan ।
pitosnisah sitosniso raktosniso digambarah ॥ 98 ॥

divyango divyaracano divyalokavilokitah ।
sarvopamo nirupamo golokankikrtanganah ॥ 99 ॥

krtasvotsangago lokah kundalibhuta asthitah ।
mathuro mathuradarsi calatkhanjanalocanah ॥ 100 ॥

Balram Sahasranaam Stotram

dadhiharta dugdhaharo navanitasitasanah ।
takrabhuk takrahari ca dadhicauryakrtasramah ॥ 101 ॥

prabhavatibaddhakaro dami damodaro dami ।
sikatabhumicari ca balakelirvrajarbhakah ॥ 102 ॥

dhulidhusarasarvangah kakapaksadharah sudhih ।
muktakeso vatsavrndah kalindikulaviksanah ॥ 103 ॥

jalakolahali kuli pankapranganalepakah ।
srivrndavanasancari vamsivatatatasthitah ॥ 104 ॥

mahavananivasi ca lohargalavanadhipah ।
sadhuh priyatamah sadhyah sadhviso gatasadhvasah ॥ 105 ॥

ranganatho viththaleso muktinatho’ghanasakah ।
sukirtih suyasah sphito yasasvi rangaranjanah ॥ 106 ॥

ragasatko ragaputro raginiramanotsukah ।
dipako meghamalharah srirago malakosakah ॥ 107 ॥

hindolo bhairavakhyasca svarajatismaro mrduh ।
talo manapramanasca svaragamyah kalaksarah ॥ 108 ॥

sami syami satanandah satayamah satakratuh ।
jagarah supta asuptah susuptah svapna urvarah ॥ 109 ॥

urjah sphurjo nirjarasca vijvaro jvaravarjitah ।
jvarajijjvarakarta ca jvarayuk trijvaro jvarah ॥ 110 ॥

jambavan jambukasanki jambudvipo dvipariha ।
salmalih salmalidvipah plaksah plaksavanesvarah ॥ 111 ॥

kusadhari kusah kausi kausikah kusavigrahah ।
kusasthalipatih kasinatho bhairavasasanah ॥ 112 ॥

dasarhah satvato vrsnirbhojo’ndhakanivasakrt ।
andhako dundubhirdyotah pradyotah satvatam patih ॥ 113 ॥

suraseno’nuvisayo bhojavrsnyandhakesvarah ।
ahukah sarvanitijna ugraseno mahogravak ॥ 114 ॥

ugrasenapriyah prarthyah partho yadusabhapatih ।
sudharmadhipatih sattvam vrsnicakravrto bhisak ॥ 115 ॥

sabhasilah sabhadipah sabhagnisca sabharavih ।
sabhacandrah sabhabhasah sabhadevah sabhapatih ॥ 116 ॥

prajarthadah prajabharta prajapalanatatparah ।
dvarakadurgasancari dvarakagrahavigrahah ॥ 117 ॥

dvarakaduhkhasamharta dvarakajanamangalah ।
jaganmata jagattrata jagadbharta jagatpita ॥ 118 ॥

jagadbandhurjagadbhrata jaganmitro jagatsakhah ।
brahmanyadevo brahmanyo brahmapadarajo dadhat ॥ 119 ॥

brahmapadarajahsparsi brahmapadanisevakah ।
vipranghrijalaputango viprasevaparayanah ॥ 120 ॥

vipramukhyo viprahito vipragitamahakathah ।
viprapadajalardrango viprapadodakapriyah ॥ 121 ॥

viprabhakto vipragururvipro viprapadanugah ।
aksauhinivrto yoddha pratimapancasamyutah ॥ 122 ॥

caturom’girah padmavarti samantoddhrtapadukah ।
gajakotiprayayi ca rathakotijayadhvajah ॥ 123 ॥

maharathascatiratho jaitram syandanamasthitah ।
narayanastri brahmastri ranaslaghi ranodbhatah ॥ 124 ॥

madotkato yuddhaviro devasurabhankarah ।
karikarnamarutprejatkuntalavyaptakundalah ॥ 125 ॥

agrago virasammardo mardalo ranadurmadah ।
bhatah pratibhatah procyo banavarsi sutoyadah ॥ 126 ॥

khadgakhanditasarvangah sodasabdah sadaksarah ।
viraghosah klistavapurvajrango vajrabhedanah ॥ 127 ॥

rugnavajro bhagnadandah satrunirbhatsanodyatah ।
attahasah pattadharah pattarajnipatih patuh ॥ 128 ॥

kalah patahavaditro hunkaro garjitasvanah ।
sadhurbhaktaparadhinah svatantrah sadhubhusanah ॥ 129 ॥

asvatantrah sadhumayah sadhugrastamana manak ।
sadhupriyah sadhudhanah sadhujnatih sudhaghanah ॥ 130 ॥

sadhucari sadhucittah sadhuvasi subhaspadah ।
iti namnam sahasram tu balabhadrasya kirtitam ॥ 131 ॥

sarvasiddhipradam nṝnam caturvargaphalapradam ।
satavaram pathedyastu sa vidyavan bhavediha ॥ 132 ॥

indiram ca vibhutim cabhijanam rupameva ca ।
balamojasca pathanatsarvam prapnoti manavah ॥ 133 ॥

gangakule’tha kalindikule devalaye tatha ।
sahasravartapathena balatsiddhih prajayate ॥ 134 ॥

putrarthi labhate putram dhanarthi labhate dhanam ।
bandhatpramucyate baddho rogi rogannivartate ॥ 135 ॥

ayutavartapathe ca purascaryavidhanatah ।
homatarpanagodanaviprarcanakrtodyamat ॥ 136 ॥

patalam paddhatim stotram kavacam tu vidhaya ca ।
mahamandalabharta syanmandito mandalesvaraih ॥ 137 ॥

mattebhakarnaprahita madagandhena vihvala ।
alankaroti taddvaram bhramadbhrngavali bhrsam ॥ 138 ॥

niskaranah pathedyastu prityartham revatipateh ।
namnam sahasram rajendra sa jivanmukta ucyate ॥ 139 ॥

sada vasettasya grhe balabhadro’cyutagrajah ।
mahapatakyapi janah pathennamasahasrakam ॥ 140 ॥

chittva merusamam papam bhuktva sarvasukham tviha ।
paratparam maharaja golokam dhama yati hi ॥ 141 ॥

srinarada uvaca – Balram Sahasranaam Stotram

iti srutvacyutagrajasya baladevasya pancangam
dhrtiman dhartarastrah saparyaya sahitaya paraya
bhaktya pradvipakam pujayamasa ॥

tamanujnapyasisam datva pradvipako munindro
gajahvayatsvasramam jagama ॥ 142 ॥

bhagavato’nantasya balabhadrasya parabrahmanah katham
yah srnute sravayate taya”nandamayo bhavati ॥ 143 ॥

idam maya te kathitam nrpendra sarvarthadam sribalabhadrakhandam ।
srnoti yo dhama hareh sa yati visokamanandamakhandarupam ॥ 144 ॥

Iti srigargasamhitayam balabhadrakhande pradvipakaduryodhanasamvade
Balram Sahasranaam Stotram varnanam nama trayodaso’dhyayah ॥ ॥