Vividh Dev Stotrani, विविध देव स्तोत्राणि

विविध देव स्तोत्राणि/Vividh Dev Stotrani

(विविध देव स्तोत्राणि/Vividh Dev Stotrani)

श्रीगणपतिस्तोत्रम्

जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्वलिं बध्नता स्त्रष्टुं वारिभवोद्भवेन भुवनं शेषेण धर्तुं धराम् ।

पार्वत्या महिषासुरप्रमथने सिद्धाधिपै: सिद्धये ध्यात: पञ्चशरेण विश्वजितये पायात्स नागानन: ।।1।।

विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाड् विघ्नव्यालकुलाभिमानगरुडो विघ्नेभपञ्चानन: ।

विघ्नोत्तुंगगिरिप्रभेदनपविर्विघ्नाम्बुधेर्वाडवो विघ्नाघौघघनप्रचण्डपवनो विघ्नेश्वर: पातु न: ।।2।।

खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगंडस्थलम् ।

दन्ताघातविदारितारिरुधिरै: सिन्दूरशोभाकरं वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ।।3।।

गजाननाय महसे प्रत्यूहतिमिरच्छिदे ।

अपारकरुणापूरतरंगितदृशे नम: ।।4।।

अगजाननपद्मार्कं गजाननमहर्निशम् ।

अनेकदन्तं भक्तानामेकदंतमुपास्महे ।।5।।

श्वेतांग श्वेतवस्त्रं सितकुसुमगणै: पूजितं श्वेतगन्धै: क्षीराब्धौ रत्नदीपै: सुरनरतिलकं रत्नसिंहासनस्थम् ।

दोर्भि: पाशांगकुशाब्जाभयवरमनसं चन्द्रमौलिं त्रिनेत्रं ध्यायेच्छान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम् ।।6।।

आवाहये तं गणराजदेवं रक्तोत्पलाभासमशेषवन्द्यम् ।

विघ्नान्तकं विघ्नहरं गणेशं भजामि रौद्रं सहितं च सिद्धया ।।7।।

यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथान्ये ।

विश्वोद्गते: कारणमीश्वरं वा तस्मै नमो विघ्नविनाशनाय ।।8।।

विघ्नेश वीर्याणि विचित्रकाणि वंदीजनैर्मागधकै: स्मृतानि ।

श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मो जगन्मंगलकं कुरुष्व ।।9।।

गणेश हेरम्ब गजाननेति महोदर स्वानुभवप्रकाशिन् ।

वरिष्ठ सिद्धिप्रिय बुद्धिनाथ वदन्त एवं त्यजत प्रभीती: ।।10।।

अनेकविघ्नान्तक वक्रतुंड स्वसंज्ञवासिंश्च चतुर्भुजेति ।

कवीश देवान्तकनाशकारिन् वदन्त एवं त्यजत प्रभीती: ।।11।।

अनन्तचिद्रूपमयं गणेशं ह्राभेदभेदादिविहीनमाद्यम् ।

ह्रदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजाम: ।।12।।

विश्वादिभूतं ह्रदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् ।

सदा निरलाम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजाम: ।।13।।

यदीयवीर्येण समर्थभूता माया तया संरचितं च विश्वम् ।

नागात्मकं ह्रात्मतया प्रतीतं तमेकदन्तं शरणं व्रजाम: ।।14।।

सर्वान्तरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति ।

अनन्तरूपं ह्रदि बोधकं वै तमेकदन्तं शरणं व्रजाम: ।।15।।

यं योगिनी योगबलेन साध्यं कुर्वन्ति तं क: स्तवनेन नौति ।

अत: प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजाम: ।।16।।

देवेन्द्रमौलिमन्दारमकरन्दकणारूणा: विघ्नान् हरन्तु हेरम्बचरणाम्बुजरेणव: ।।17।।

एकदन्तं महाकायं लम्बोदरगजाननम् ।

विघ्ननाशकरं देवं हेरम्बं प्रणमाम्यहम् ।।18।।

यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत् ।

तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ।।19।।